________________
मन:स्थिरीकरणप्रकरणम्
अथ नारकदेवयोर्मध्यमाबाधा जघन्यायुर्बन्धरूपं चतुर्थं भङ्गं मध्यमाबाधा मध्यमायुर्बन्धरूपं पञ्चमं च भाग(भङ्ग)माह
मूल] नारयसुरा जहन्नं, परभव आउं करिति अंतमुहू ।
गुरुयं पि पुव्वकोडिं, दुविहे वि अबाह छम्मासा ।।९४।। व्याख्या] सुगमा। केचित् पुनर्देवनारकयोः परभवायुर्बन्धे अबाधामन्तर्मुहूर्तरूपामपीच्छन्ति इति तेषां मते देवनारकाणां प्रथमोऽपि भङ्गः स्यादिति उदाहृताः प्रथमचतुर्थपञ्चमाष्टमनव(म)भङ्गकाः। अथ यदुक्तं- मुणे सयं चउरो ते। इति। (गा.८८) इमे क्षुल्लकभवग्रहणी(णे) अनियतं परभवायुर्बध्नन्ति द्वितीयो भङ्गः। अन्तर्मुहूर्तायुस्तन्दुलमत्स्यस्त्रयस्त्रिंशदतराणि बध्नातीति तृतीयः। मध्यमायुस्तिर्यङ्मनुष्यो वा त्रयस्त्रिंशदतराणि बध्नातीति षष्ठः। पूर्वकोटित्रिभागुशेषायुः तिर्यङ्मनुष्यो वा जघन्यमन्तर्मुहूर्तं बध्नातीति सप्तमः।।९४।। अथायुर्बन्धगतमेव किञ्चिद्विशेषमाह
[मूल] आउसि जइवीय पायं, सुव्वइ पडिवयणमुदयमित्तेणं ।
___ तहवि य पन्नवणाए, अबाहउदएहिंतो इह वि ।।९५।। व्याख्या] ननु आयुषि कियती परभवबन्धस्थितिरिति प्रश्ने परभवगतानां य एव आयुःकर्मदलिकान् भवनकालस्तेनैवैकेनाबाधारहितेन प्रायेण स्थानस्थानेषु प्रतिवचनं श्रूयते। तद्यथा- पृथिव्यप्तेजोवायुवनस्पतिद्वित्रिचतुरिन्द्रियासज्ञिसज्ञिपञ्चेन्द्रियतिर्यङ्मनुष्या सर्वेऽपि परभवायुर्जघन्यमन्तर्मुहूर्तं बध्नन्ति, उत्कृष्टं तु क्रमेण पृथिव्यादयो अष्टौ पूर्वकोटिम्, असझितिर्यञ्चस्तु तिर्यङ्मनुष्यनारकदेवायुषां पल्यासङ्ख्येयभागम्, सञ्जितिर्यञ्चो मनुष्याश्च तिर्यङ्मनुष्येषु पल्यत्रयम्, नारकदेवेषु पुनर्जघन्यतो दशवर्षसहस्राणि उत्कृष्टतस्तु त्रयस्त्रिंशत्सागराणीति, नारकदेवाः तिर्यङ्मनुष्येषु जघन्यतो अन्तर्मुहूर्तम् उत्कृष्टं तु पूर्वकोटिम्। एते च नारकदेवेषु स्वभावादेव नोत्पद्यन्त इति तदायुषी न बध्नन्ति इति। तदेवम् इयतापि यदि साध्यसिद्धिः तत्कथमत्र पृथिव्यादीनां देवान्तानामबाधाकालोदय कालद्वयात्मक एव परभवायुस्थितिबन्धः प्रादर्शि ? सत्यमेतत्, परं प्रज्ञापनायां सर्वोऽपि परभवायुस्थितिबन्धाबाधोदयकालद्वयात्मक एवाभ्यधायि तत इहापि प्रकरणे तथैवासौ प्रत्यपादीति। तथा च
त्रयोविंशतिपदद्रितीयोद्देशके कर्माष्टकस्यापि जघन्योत्कष्टस्थितिबन्धप्रतिपादि(द)काः ओघ-एक-द्रि-त्रिचतुरिन्द्रियासज्ञिपञ्चेन्द्रिय-सज्ञिपञ्चेन्द्रियाश्रिताः सप्त दण्डकाः सन्ति। तत्र इह प्रस्तुते एकस्यैवायुःकर्मणो दण्डकसप्तकाश्रिते जघन्योत्कृष्टस्थिती प्रदर्श्यते। तत्रौघदण्डके
नेरइयाउयस्स णं भंते ! केवइयं कालं ठिइ पन्नत्ता? गो[यमा]! जहण्णेणं दसवाससहस्साई अंतोमुत्तमब्भहियाई। उक्कोसेणं तेतीसं सागरोवमाई पुव्वकोडितिभागमब्भहियाई।
तिरिक्खजोणियाउयस्स पुच्छा गो[यमा]! जहण्णेणं अंतोमुहत्तं उक्कोसेणं तिन्नि पलिओवमाई पुव्वकोडितिभागमब्भहियाई।
एवं मणुस्साउयस्स वि। देवाउयस्स जहा नेरड्याउयस्स ठिइ। (प्रज्ञापना पद २३.२, सू.१७०१) इत्यादि। एकेन्द्रियदण्डके
तिरिक्खजोणियाउयस्स जहन्नेणं अंतोमुहत्तं उक्कोसेणं पुव्वकोडिं सत्तहिं वाससहस्सेहिं वाससहस्सतिभागेण य अहियं बंधंति। एवं मणुयाऊयस्स वि। (प्रज्ञापना पद २३.२, सू.१७१०)
द्वीन्द्रीयदण्डके।