SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ ६४ मन:स्थिरीकरणप्रकरणम् प्रथमभङ्गस्य प्रस्तुतत्वात् कथमेकमेवान्तर्मुहूर्तमुक्तम्?, उच्यते, पुव्वभवेत्यादि। पूर्वभवसम्बन्धिनी या लघ्वी अबाधा तस्याः सम्बन्धि यजघन्यमन्तर्मुहूर्तं तदप्यस्य मध्ये अस्त्येव। परमन्तर्मुहूर्तानामसङ्ख्येयभेदत्वात् जघन्याभ्याम् अबाधापरभवायुरन्तर्मुहूर्ताभ्यां द्वाभ्यामप्येकमेवान्तर्मुहूर्तं विवक्षितमिति भावः।।८९।। अथवा [पञ्च]चमाष्टमनवमभङ्गान् बिभणिषुः प्रथमं तावत् पृथिव्यादीनामुत्कृष्टान् परभवायुर्बन्धान् पृथिव्यादिसम्बन्धिवक्ष्यमाणस्वरूपाबाधासूचां चाह [मूल] इगविगल पुव्वकोडिं, पराउ अमणो असंखपल्लंसं । __ तिरिनरतेतीसयरे, बंधहिं एसिं अबाह इमा ।।१०।। व्याख्या ] अत्र तावत् त्वमेतान् पृथिव्याद्युत्कृष्टपरभवायुर्बन्धान तथा पृथिव्यादिसम्बन्ध्यबाधाश्चेमा वक्ष्यमाणस्वरूपा पृथक् पृथग जानीहि इति सम्बन्धः।।१०।। ताश्चैता: मूल] सतिभागसत्तसहसा, वासाणं दुन्नि सहस सतिभागा । दिणमेग वाससहसो, सतिभागा तिन्नि समसहसा ।।९१।। वासचउक्कं सोलस, सतिभागदिणा तहेव मासदुगं । पुव्वकोडितिभागो, दुहतिरि मा(म)णुए सस अबाहा ।।९२।। व्याख्या] ।। ९१।। ९२।।। एवमेताः पृथिव्यादीनां यथास्वं निजनिजपूर्वभवत्रिभागरूपा अबाधा प्रदर्श्य विवक्षितभङ्गकानां योजनामाह [मूल] एयाण उ अबाहाण, जोगिभंगा भवंति तिन्नेए । अट्ठसु गिहेसु पंचसु, नवमिट्ठसु गिहिदुगे नवमो ।।९३॥ व्याख्या] एतेषां पूर्वगाथात्रयोक्तायुर्बन्धाबाधानां यथास्वं योगे सति पृथिव्यादीनां गृहाष्टके भङ्गकनवकमध्यात् मध्यमाबाधा मध्यमायुर्बन्धरूपः पञ्चमो भङ्गः, नवमगृहे च उत्कृष्टाबाधा मध्यमायुर्बन्धरूपोऽष्टमो भङ्गः, दशमैकादशगृहयोस्तु उत्कृष्टाबाधा उत्कृष्टायुर्बन्धरूपो नवमश्च भङ्गकः स्यादिति। अथायमेवार्थः सव्यक्ततरः पुनः प्रदर्श्यते। पृथिवीकायिकाः सत्रिभागवर्षसहस्रसप्ताधिकां पूर्वकोटिमुत्कृष्टं परभवायुर्बध्नन्तीति। एवमप्कायिकाः सत्रिभागवर्षसहस्रद्वयाधिकां पूर्वकोटिम्, तेजसोऽहोरात्राधिका पूर्वकोटिम्, वायवो वर्षसहस्राधिका पूर्वकोटिम्, तरवः सत्रिभागवर्षसहस्रत्रयाधिका पूर्वकोटिम्, तरवः सत्रिभागवर्षसहस्रत्रयाधिका पूर्वकोटिम्, द्वीन्द्रिया वर्षचतुष्टयाधिका पूर्वकोटिम्, त्रीन्द्रियाः सत्रिभागदिनषोडशाधिका पूर्वकोटिम्, चतुरिन्द्रिया मासद्वयाधिका पूर्वकोटिम्, असझितिर्यञ्चः पूर्वकोटित्रिभागाधिकं पल्योपमासङ्ख्येयभागम्, सझितिर्यञ्चो मनुष्याश्च पूर्वकोटित्रिभागाधिकानि त्रयस्त्रिंशसागराण्युत्कृष्टं परभवायुर्बध्नन्तीति सण्टङ्कः।।१३।। १ मूले भिन्नानि गाथाक्षराणि दृश्यन्ते । तद्यथा - इगविगल पुव्वकोडिं, पराउ अमणो असंखपल्लंसं । तिरिनरतेतीसयरे, सव्वेसुवरि गुरु अबाहा ।।१०।। २ दुहतिरि मणुए गुरु अबाहा । इति मूले । ३ एषा गाथा मूले न दृश्यते ।
SR No.009261
Book TitleMan Sthirikaran Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Rupendrakumar Pagariya
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages207
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy