SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ मन:स्थिरीकरणप्रकरणम् भणितव्या, किं त्वबाधाकालोदयकालोभयात्मकत्वविशेषिता एव। तद्यथा- जघन्या अबाधान्तर्मुहूर्तात्मिका जघन्यश्चायुर्बन्धो लघ्वबाधान्तर्मुहूर्तसहितपारभविकलघ्वन्तर्मुहूर्तमानायुर्बन्धरूपः। जघन्याबाधा अन्तर्मुहूर्तात्मिका आयुर्बन्धस्तु उत्कृष्टो लघ्वबाधासहितस्त्रयस्त्रिंशदतररूपः। मध्यमा अबाधा अनियतमाना आयुर्बन्धस्तु (ज)घन्यो अनियता(त)अबाधासहितपारभविकान्तर्मुहूर्तमानायुर्बन्धरूपः। मध्यमा अबाधा अनियतरूपा आयुर्बन्धोऽपि मध्यमो अनियताबाधसहित अनियतायुर्बन्धरूपः। मध्यमा अबाधा अनियतरूपा आयुर्बन्धस्तु उत्कृष्टो मध्यमाबाधासहितत्रयस्त्रिंशदतररूपाः (पः)। उत्कृष्टाबाधा पूर्वकोटित्रिभागरूपा आयुर्बन्धस्तु जघन्यः पूर्वकोटित्रिभागसहितः पारभविकान्तर्मुहूर्तमानायुर्बन्धरूपः। उत्कृष्टाबाधा पूर्वकोटित्रिभागरूपा आयुर्बन्धस्तु मध्यमः पूर्वकोटित्रिभागसहित अनियतायुर्बन्धरूपः। उत्कृष्टाबाधा पूर्वकोटित्रिभागरूपा आयुर्बन्धोऽप्युत्कृष्टः पूर्वकोटित्रिभागाधिकत्रयस्त्रिंशदतररूपः। अत्र च येन कारणेनैते भङ्गका एवं वैषम्येन व्याख्यातास्तत्कारणमत्रैवाग्रे भङ्गकनवकोदाहरणानन्तरं स्वयमेव व्यक्तीकरिष्यते। नन्वबाधाकालोदयकालयोः कः प्रतिविशेषः? उच्यते- इह वर्तमानभवस्य त्रिभागनवमभा(गा)दौ यावदन्तिमान्तर्मुहूर्ते वा सर्वेऽपि प्राणिनः परभवायुर्बध्नन्तीति स्थितिः। परं न तदायुर्बन्धानन्तरं तत्क्षणमेव उदेति, किं त्विह भवादूर्ध्वं परभवाद्यसमय एव समुदेति। ततश्चेहत्यायुर्बन्धस्य पारभविकायुरुदयस्य च यो यो व्यवधानकालो जघन्यतो अन्तर्मुहूर्तमात्र उत्कृष्टतस्तु पूर्वकोटित्रिभागरूपः स सर्वोऽपि अबाधाकालोऽभिधीयते। उदयकालः पुनस्तस्मिन्नेव पूर्वभवबद्धे परभवायुषि अनुभूयमाने जघन्यतोऽन्तर्मुहूर्तमात्र उत्कृष्टतस्तु त्रयस्त्रिंशदतररूप इति महान् विशेषस्तयोरिति। ननु अत्तमुत्तमबाहा सव्वासिं सव्वहिं डहरबंधे। ( ) इति वचनाद् अत्र नवभङ्गिकायां यका द्वितीयतृतीयभङ्गयोर्जघन्या अबाधा मध्यमोत्कृष्टायुर्बन्धयोर्या च चतुर्थभङ्गे मध्यमाबाधा जघन्यायुषि य(या)पि च सप्तमे भने उत्कृष्टाबाधा जघन्यायुषि सा न युज्यत इति चेत्, सत्यम्, एतदबाधालक्षणं आयुषोऽन्यत्र ज्ञेयम्। यत उक्तं सार्द्धशतकवृत्तौ आयुषस्तु चतुर्भिर्भङ्गकैरबाधेति। तद्यथा- ज्येष्ठे ज्येष्ठा, ज्येष्ठे जघन्या, जघन्यो(न्ये) ज्येष्ठा, जघन्ये जघन्या अबाधेति। () गाथोत्तरार्द्धं तु व्यक्तमेव।।८८।। अथ प्रथमभङ्गोदाहरणमाह मूल] पुढवाइ एक्कारस, बंधहिं लहु परभवाऊ अंतमुहू । पुव्वभव लहु अबाहा, अंतमुहुत्तं पि इह मज्झे ।।८९।। व्याख्या] पृथिव्यादयो मनुष्यपर्यन्ता एकादशापि परभवायुर्जघन्यतोऽन्तर्मुहूर्तं बध्नन्तीति सम्बन्धः। ननु जघन्याऽन्तर्मुहूर्तात्मिका अबाधा आयुर्बन्धोऽपि जघन्योऽन्तर्मुहूर्तरूप एतद्वितयरूपस्य जघन्यान्तर्मुहूर्तद्वयात्मकस्य १ अत्रायं पाठः सम्भाव्यः - आयुर्बन्धोऽपि मध्यमो लघ्वबाधासहित अनियतायुर्बन्धरूपः । जघन्याबाधान्तर्मुहूर्तात्मिका...
SR No.009261
Book TitleMan Sthirikaran Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Rupendrakumar Pagariya
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages207
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy