________________
मन:स्थिरीकरणप्रकरणम्
बेइंदियस्स दो णाणा कहं लब्भंति? भन्नइ, सासायणं पडुच्च। तस्सापज्जत्तयस्स दो णाणा लब्भंती त्ति।
(प्रज्ञापना टीका) अतः सासादनभावे ज्ञानं श्रुतसम्मतमेव। परमेतत्कार्मग्रन्थिका न मन्यन्ते। ते ह्येवमाहुः- सासादनस्य मिथ्यात्वाभिमुखतया तत्सम्यक्त्वस्य मलीमसत्वेन तन्निबन्धनस्यापि मलीमसत्वादज्ञानरूपतेति । तथा वैक्रिये आहारके च प्रारभ्यमाणे ताभ्यां सहौदारिकस्य मिश्रीभवनादौदारिकमिश्रं भवतीति। तथा चाह प्रज्ञापनाटीकाकार:
'यदा पुनरौदारिकशरीरी वैक्रियलब्धिसम्पन्नो मनुष्यः सज्ञिपञ्चेन्द्रियतिर्यग्योनिको वा पर्याप्तबादरवायुकायिको वा वैक्रियं करोति तदौदारिकशरीरयोग एव वर्तमानः निजजीवप्रदेशान् विक्षिप्य वैक्रियशरीरयोग्यान् पुद्गलानादाय यावद्वैक्रियशरीरपर्याप्ता पर्याप्तिं न गच्छति तावदौदारिकस्य वैक्रियेण सह मिश्रताव्यपदेशः चौदारिकमिश्र इत्येवंरूपः, औदारिकस्य व्याप्रियमाणत्वेन प्रधानत्वात्। एवमाहारकेणापि सह मिश्रता द्रष्टव्या। आहारयति च तेनैवेति तस्यैव व्यपदेश इति'।
___ आहारयति चेत्यादि वाक्यस्यायमर्थः- आहारकशरीरयोग्यान् पुद्गलान् आहारयति गृह्णाति तेनैवेति औदारिककाययोगेन ततस्तस्यैवेति औदारिकस्य व्यपदेशः औदारिकमिश्र इत्येवंरूप इति। परित्यागकाले च वैक्रियस्याहारस्य च यथाक्रमं वैक्रियमिश्रं आहरकमिश्रं च। उक्तं च- प्रज्ञापनाटीकायामेवाहारकमधिकृत्य
'यदा आहारकशरीरीभूत्वा कृतकार्यः पुनरप्यौदारिकं गृह्णाति तदा आहारकस्य प्रधानत्वादौदारिकप्रवेशं प्रति व्यापारभावात् न परित्यजति यावत्सर्वथैवाहारकं तावदौदारिकेण सह मिश्रतेति आहारकमिश्रशरीरकायप्रयोग इति'।
तच्चेत्थम्-वैक्रियाहारकारम्भकाले औदारिकमिश्रं सूत्रेऽभिहितमपि कार्मग्रन्थिकैर्येनाभिप्रायेणाभ्युपगम्यते सोऽभिप्रायो बहश्रुतभ्योऽवसेयः।
तथा न = नैवैकेन्द्रियेषु। सासाणो त्ति। सासादनभावः सूत्रे मतः, अन्यथा द्वीन्द्रियादीनामिवैकेन्द्रियाणामपि ज्ञानित्वमुच्येत। न चोच्यते, किन्तु विशेषतः प्रतिषिध्यते। तथाहिएगिंदिया णं भंते! किं नाणी अन्नाणी ? गोयमा ! नो नाणी नियमा अन्नाणीति।
(भगवतीशतक-८३.२, सूत्र-२७) तदेवं एकेन्द्रियाणां ज्ञाननिषेधेन सासादनभावोऽपि निषिद्धो द्रष्टव्यो, यतो द्वीन्द्रियादिषु यो ज्ञानभावः स सास्वादनाव्यभिचार्येव, परमसावपि कार्मग्रन्थिकै द्रियते। सोऽप्यनादरस्तद्गम्य एवेति।
तथा नेहाहीत्यादि। तदेवं सासादनभावे ज्ञानं, वैक्रियाहारकयोः प्रारम्भे औदारिकमिश्रम्, एकेन्द्रियेषु सासादननिषेध इत्यतेत्रितयं सूत्राभिमतमपि न नैवेह कर्मविचारे कार्मग्रन्थिकैरधिकृतमभ्युपगतमिति' गाथार्थः ।।२४।। अथ तनुद्वारम्। तनवश्च किं नामधेयाः ? कति च ? इति किञ्चिदूनगाथापूर्वार्द्धनाह
[मूल] उरलविउव्वाहारगतेयसकम्मा तणु त्ति नरि पण वि। (२५ पू.) व्याख्या] तत्र तनोति विस्तारयति जीवः स्वप्रदेशान् सङ्ख्येयानसङ्ख्येयान् यस्यां प्रतिप्रदेशं सा तनुः =
१. ग्रन्थकर्तृ: टीप्पणी-षडशीतिबृहद्वृत्तिरिति।