________________
मन:स्थिरीकरणप्रकरणम्
शरीरम् । तच्च पञ्चधा- औदारिकवैक्रियाहारकतैजसकार्मणभेदात्। तत्र उदारं = प्रधानं, प्राधान्यं चास्य तीर्थकरगणधरशरीरापेक्षया ततोऽन्यस्यानुत्तरसुरशरीरस्याप्यनन्तगुणहीनरूपत्वात्। उदारं वा सातिरेकयोजनसहस्रप्रमाणत्वाद् बृहत्प्रमाणम्। उक्तं चजोयणसहस्समहियं, उहय एगिदिए तरुगणेसु। मच्छजुयले सहस्सं उरगेसु य गब्भजाईसु।।
(प्रवचनसारोद्धार-१०९९) एतच्चौदारिकस्य बृहत्त्वं शेषसहजशरीरापेक्षम्, अत एव सहजत्वाभावादुत्तरवैक्रियं समधिकयोजनलक्षमपि। अथवा उरलम् = अल्पप्रदेशोपचितत्वाद् बृहत्त्वाच्च भिण्डवदिति, तदेव ओरालिकं निपातनात्। अथवा उरलम् = मांसास्थिस्नाय्वाद्यवबद्धं तदेव उरालिकमिति। उक्तं च
तत्थोदारमुरालं, उरलओराल महव विनेयं। ओदारियंति पढमं, पडुच्च तित्थेसरसरीरं।। भन्नइ य तहोरालं, वित्थरवंतं वणस्सईण सया। पगईए नत्थि अन्नं, इद्दहमेत्तं विसालेत्ति। उरलं थेवई सोवचियंपि महल्लगं जहा भिंडं। मंसाट्ठिण्हारुबद्धं, ऊरालं समयपरिभासा।। ( )
उदारमेव औदारिकम्। तच्च चक्षुरग्राह्यं ग्राह्यं च द्विधापि भवति। तत्र सूक्ष्मानां पृथिव्यप्तेजोवायुनिगोदानामौदारिकपुद्गलमयत्वे सत्यपि सूक्ष्मनामकर्मोदयात् बहून्यप्येकत्रावस्थितान्यपि शरीराणि चक्षुर्गोचरे न भवन्ति। बादराणामपि पृथिव्यप्तेजोवायूनामेकैकानि न दृश्यन्ते, किन्तु ।
एगं व दो व तिन्नि व, संखिजाणि व न पासिउं सक्का। दीसंति सरीराइं पुढविजियाणं असंखाई। ()
एवमप्तेजोवायूनामपि। तथा बादरानन्तवनस्पतीनां प्रत्येकतरूणां स्कन्दमूलस्कन्धत्वक्शाखाप्रतिशाखाप्रवालान्यसङ्ख्येयशरीरात्मकानि तालसरलनालिकेरीस्कन्धाः पुनरेकैक शरीरात्मका एव लोचनास्पदीभवन्ति। उक्तं
च
खंधा वि एगजीवा ताल-सरल-नालिएरीणं ति। ()
तथा पद्मनालानि वल्लयो लताश्च काश्चन जलोद्भवा उत्सेधाङ्गुलेन समधिकसहस्रयोजनमाना अपि एकैकशरीरात्मका दृश्यन्त इति। ननु कथमिह अनन्तवनस्पतीनामपि कन्दमूलादिष्वसङ्ख्येयान्येव शरीराण्युक्तानि, न पुनरनन्तानि ? उच्यते, अनन्तकायिकानामनन्तानामपि शरीराण्यसङ्ख्येयान्येव भवन्ति, न त्वनन्तानि। यत उक्तंगोला य असंखेज्जा, असंखनिग्गोय गोलओ भणिओ। एक्केक्कंमि निगोए, अणंतजीवा मुणेयव्वा।।
(बृहत्संग्रहणी-३०१) निगोदोऽनन्तकायिकशरीरम्। तथेदमौदारिकं रोग-पा(बा)ल्य-जरा-शीत-वातातपेप-(तप)चयापचयप्रहार-पाक-शोथ-अस्थिभङ्ग-गतिभङ्गावयवच्छेदेन्द्रियघातापमृत्युप्रभृत्यपायानां विषय इति।।
तथा विविधा विशिष्टा वा क्रिया विक्रिया तस्यां भवं वैक्रियम्। तथाहि- तदेकं भूत्वाऽनेकं भवति, अनेकं भूत्वा एकम्। अणु भूत्वा महद्भवति, महद् भूत्वाणु। तथा खचरं भूत्वा भूचरं भवति, भूचरं भूत्वा खचरम्। अदृश्यं भूत्वा दृश्यं भवति, दृश्यं भूत्वादृश्यमिति। औदारिकापेक्षया वा विशिष्टा विलक्षणा गर्भवासाद विसंवृतगवाक्षकल्पेषु घटिकालयेषु देवशयनीये देवदूष्यान्तरे च उत्पादादिका विसदृशा क्रिया = विक्रिया तस्यां भवं वैक्रियम्। उत्तरवैक्रियं त्वपेक्ष्य विविधा = वैक्रिय-समुद्धातकरण-निजजीवप्रदेशदण्डनिसर्जन-बाह्यपुद्गलग्रहण-शरीरविकुर्वा(व)णादिका क्रिया विक्रिया तस्यां भवं वैक्रियम्। उक्तं च