SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ मन:स्थिरीकरणप्रकरणम् विविहा व विसिट्ठा वा, विक्किरिया तीए जं भवं तमिह। वेउव्वियं तयं पुण नारगदेवाण पगईए।। (प्रज्ञापना मलवृ.प.४०८) इदं च वैक्रियशरीरं चर्मचक्षुषां प्रायेणाग्राह्यं भवति, कथञ्चिद् ग्राह्यमपि। तथा बाल्य-रोग-जरादीनां पूर्वोक्तापायानां सर्वथैवाविषयः। उक्तं च वैक्रियाहारकतैजसकार्मणानि मारयितुमशक्यानि। ( ) तथा चतुर्दशवि(शादि)पूर्वविदा विशिष्टलब्ध(ब्धि)वशात्तीर्थकरस्फातिदर्शनादितथाविधप्रयोजनोत्पत्तौ सत्यामाहारकसमुद्धातजीवप्रदेशदण्डनिसर्जनक्रमेण आहारकवर्गणात आहारकपुद्गलानादायादायाह्रियते निवर्त्यते इत्याहारकम्। यद्वा आह्रियन्ते = गृह्यन्ते सूक्ष्मा जीवादयः पदार्था केवलिसमीपेऽनेनेति निपातनादाहारकम्। उक्तं चकजंमि समुपन्ने, सुयकेवलिणा विसिट्ठलद्धीए। जं इत्थ आहरिज्जइ, भणियं आहारगं तं तु।। (प्रज्ञापना मलवृ.प.४०९) कार्याणि चामूनिपाणिदयरिद्धिसंदसणत्थ अत्थोवगहणहेउं वा। संसयवोच्छेयत्थं, गमणं जिणपायमूलंमि।। चत्तारि य वारा उ, चउदसपुव्वी करेइ आहारं। संसारमि वसंतो, एगभवे दोन्नि वाराओ।। (प्रज्ञापना मलवृ.प.४०९) तच्च वैक्रियापेक्षयात्यन्तशुभं स्वच्छस्फटिकशिलेव शुभ्रपुद्गलसमूहघटनात्मकं च। तथेदं तथास्वाभाव्यादेवोत्पद्यमानमपि प्रथमतोऽपि देशोनहस्तमेव मिलति, उत्कृष्टं तु सम्पूर्णं हस्तमानम्। तथा जघन्यतोऽपि उत्कृष्टतोऽपि अन्तर्मुहूर्तस्थितिकमेव। तथेदं लोके न सर्वदापि प्राप्यते। यदापि प्राप्यते तदापि जघन्यत एकद्वित्र्यादिकम्, उत्कृष्टतस्तु सहस्रपृथक्त्वमानम्। तथास्यान्तरमपि जघन्यं समयः, उत्कृष्टं तु षण्मासा इति। तथेदं चर्मचक्षुषां प्रायेण [आगम्यम्। शीतातपरोगाद्यविषयश्चेति। तथा तेजोवर्गणान्तःपातिभिराहारपाकतनूष्मादिजनकै(:) तेजोनिसर्गहेतुभिस्तेजःपुद्गलैनिर्वृतं तैजसम्। उक्तं चसव्वस्स उण्हसिद्धं, रसाइआहारपाकजणगं च। तेयगलद्धिनिमित्तं च, तेयगं होई नायव्वं।। (प्रज्ञापना मलवृ.प.४०९) एतच्चाहारकपाक-तनूष्मादिलिङ्गेनातिशयज्ञानेन वा गम्यते, न पुनश्चक्षुरादिभिर्गृह्यते। एतत्प्रकोपे च ज्वरदाह-परितापादयः प्रवर्तन्ते। तथा कर्मणोऽधिकारः (विकारः) कार्मणम्। कर्मपरमाणव एवात्मप्रदेशैः सह क्षीरनीरवद् अन्योन्यानुगताः सन्तः कार्मणं शरीरम्। तदुक्तम्कम्मविगारो कम्मणमट्ठविहविचित्तकम्मनिप्फन्नं। सव्वेसिं सरीराणं, कारणभूयं मुणेयव्वं।। (अनुयोगद्वार हारि.टी.पृ.८७) अत्र सव्वेसिं इति सर्वेषामौदारिकादीनां शरीराणां कारणभूतं = बीजभूतं कार्मणशरीरम्। न खल्वामूलमुच्छिन्ने भवप्रपञ्चप्ररोहबीजभूते कार्मणे वपुषि शेषशरीरसम्भवः। इदं च कार्मणशरीरं
SR No.009261
Book TitleMan Sthirikaran Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Rupendrakumar Pagariya
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages207
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy