________________
मन:स्थिरीकरणप्रकरणम्
जन्तोर्गत्यन्तरसङ्क्रान्तौ साधकतमं करणम्। तथाहि- कार्मणेनैव वपुषा परिकरितो जन्तुर्मरणदेशमपहायोत्पत्तिदेशम-भिसर्पति। ननु यदि कार्मणवपुःपरिकरितो गत्यन्तरं सङ्क्रामति तर्हि स गच्छन्नागच्छन्वा कस्मान्नोपलभ्यते ?, उच्यते, कर्मपुद्गलानामतिसूक्ष्मतया चक्षुरिन्द्रियागोचरत्वात्। आह च प्रज्ञाकरगुप्तोऽपि
अन्तराभवदेहोऽपि सूक्ष्मत्वान्नोपलभ्यते। निःक्रामन् प्रविशन्वापि नाभावोऽनीक्षणादपि।। ()
ननु कार्मणाख्याया नामकर्मण उत्तरप्रकृते(:) कार्मणशरीरस्य च कः प्रतिविशेषः ? उभयोरपि कार्मणवर्गणानिष्पन्नत्वा (त्) चक्षुराद्यग्राह्यत्वाच्चेति, सत्यम्, एतस्मिन् साम्ये सत्यपि महान् विशेषोऽस्ति। तथाहि- येयं कार्मणाख्या नामकर्मोत्तरप्रकृतिः सा एकैव सती कार्मणशरीरस्य कारणं भवति, कार्मणशरीरं तु तदुदयसम्भवित्वात् तत्कार्यम्, तच्च निःशेषकर्मणां प्ररोहभूमिराधारो वा, सर्वसंसारिणां च गत्यन्तरसङ्क्रमणे साधकतमं करणमित्यनयोर्विशेषः। अयं चौदारिकादिक्रमो यथोत्तरं सूक्ष्मत्वात् प्रदेशबाहुल्याच्चेति।
अर्थतेषां पञ्चानामपि शरीराणां परस्परं कारण-प्रदेशसङ्ख्या -स्वामि-विषय-प्रयोजन-प्रमाण-स्थितिअल्पबहुत्वकृतो भेदः प्रदर्श्यते।
तत्र कारणकृतो भेदो यथा- औदारिकवर्गणया स्थूलपरिणामवत्पुद्गलस्कन्धवत्या निष्पन्नमौदारिकं शरीरम्। एवं वैक्रियाहारकतैजसकार्मणवर्गणाभिः परं परं सूक्ष्ममिति (तत्त्वार्थ २.३८) वचनाद् यथोत्तरं सूक्ष्मसूक्ष्मतरपरिणामवद् बहु-बहुतरप्रदेशपुद्गलस्कन्धवतीभिः क्रमेण निष्पन्नानि वैक्रियाहारकतैजसकार्मणशरीराणीति।
प्रदेशसङ्ख्याकृतो भेदो यथा- प्रदेशतः परं परमसङ्ख्येयगुणं प्राक् तैजसात्, ततः परमनन्तगुणे तैजसकार्मणे इति।
स्वामिकृतो भेदो यथा- औदारिकं सर्वेषामपि तिर्यङ्मनुष्याणाम्, भवधारिवैक्रियं देवनारकाणाम्, उत्तरवैक्रियमपि देवनारकाणां वैक्रियलब्धिमतां केषाश्चिद् बादरवायुसज्ञिपञ्चेन्द्रियतिर्यङ्मनुष्याणां च, आहारकं चतुर्दशपूर्वविदाम्, तैजसकार्मणे सर्वसंसारिणामिति।
विषयकृतो भेदो यथा- औदारिकस्य तिर्यगुत्कृष्टो विषयो विद्याधरानाश्रित्य आनन्दीश्वरात्, जङ्घाचारणान् प्रति आरुचकाद्रेः। ऊर्द्धमुभयान् प्रति आपाण्डुकवनात्। वैक्रियस्यासङ्ख्येया द्वीपोदधयः। आहारकस्य महाविदेहाः। तैजसकार्मणयोः सर्वलोक इति।
प्रयोजनकृतो भेदो यथा- औदारिकस्य धर्माधर्म-सुख-दुःख-केवलज्ञानावाप्त्यादि प्रयोजनम्, वैक्रियस्य स्थूलसूक्ष्मैकानेकत्वव्योमक्षितिगमनाद्यनेकरूपा विभूतिः। आहारकस्य चतुर्दशपूर्वविदाम् अप्कायादिप्राणिरक्षणार्थं वा,तीर्थकरस्फातिदर्शनार्थं वा, अपूर्वापूर्वसूक्ष्मसूक्ष्मतरार्थश्रवणार्थं वा, संशीतिव्यवच्छेदार्थं वा, निष्पादितं सन्(त्) महाविदेहादिष्वपि तीर्थकृत्या(दा)देर्मूले गत्वा समवसरणादितीर्थकरद्धिमवलोक्य (अ)पूर्वापूर्वार्थान् समाकर्ण्य सर्वप्रश्ननिर्णयं च विधाय पुनरिह समेतीति। तैजसस्याहारपाकः शापानुग्रहशक्तिस्तेजोलेश्यानिसर्गश्चेति। कार्मणस्य भवान्तरे गतिः।
प्रमाणकृतो भेदो यथा- औदारिकशरीरं सर्वेषामपि पृथिव्यादीनां मनुष्यान्तानां जघन्यमङ्गलासङ्ख्येयभागमात्रम्, उत्कृष्टन्तु विचित्रम्। तथाहि- पृथिव्यप्तेजोवायुनिगोदानां सूक्ष्मानां बादराणां चाङ्गुलास
ख्येयं भागमानम्, प्रत्येकतरुषु पद्मनालानि वल्यो(ल्लयो) लताश्च काश्चन जलोद्भवा उत्सेधाङ्गुलेन योजनसहस्रं समधिकम्।
अत्र प्रश्नतदुत्तरसाधिका विशेषणवतीगाथा इमा(:)जोयणसहस्सग (म)हियं, वणस्सई देहमाणुमुद्दि(क्कि)टुं। तं च किल समुद्दगयं, जलरुहनालं हवइ नन्नं।।
(प्रवचनसारोद्धार-१०९९)