________________
मन:स्थिरीकरणप्रकरणम्
उस्सेहंगुलओ तं, होइ पमाणंगुलेण य समुद्दो। अवरोप्परओ दोन्निवि कहमविरोहीणि होज्जा हु।।
(विशेष-णवतिः-६) पुढवीपरिणामाई, ताई किर सिरिनिवासपउमं च। गोतित्थेसु वणस्सइ परिणामाई तु होजाहि(णामाई पि होज्ज ननु)।
(विशेष-णवतिः-७) जत्थुस्सेहंगुलओ, सहस्समवसेस एसु य जलेसु। वल्लीलयादओ वि य, सहस्समायामओ होंति।।
(विशेष-णवतिः-८, स्थानांग-२६५) द्वि-त्रि-चतुरिन्द्रियाणां क्रमेण द्वादशयोजनानि, गव्यूतत्रयम्, योजनं चेति। गर्भजानां जलचराणां योजनसहस्रम्, स्थलचराणां गव्यूतषट्कम्, उर:सर्पिणां योजनसहस्रम्, भुजसर्पिणां क्रोशपृथक्त्वम्, पक्षिणां धनुःपृथक्त्वम्, सम्मूर्च्छजानां त्वेतेषां क्रमेण योजनसहस्रम्, गव्यूतपृथक्त्वम्, योजनपृथक्त्वम्, धनुःपृथक्त्वम्, पुनर्धनुःपृथक्त्वं चेति। मनुष्याणां गव्यूतित्रयमानम्। वैक्रियं देवनारकयोर्भवधारि जघन्यमङ्गुलासङ्ख्येयभागमानम्, उत्कृष्टं तु देवानां सप्तहस्तमानम्। नारकाणां पञ्चधनुःशतीमानम्, उत्तरवैक्रियं तु वैक्रियलब्धिमतां वायुवर्ज सर्वेषामपि जघन्यमङ्गुलसङ्ख्येयभागमानम्, उत्कृष्टं तु नारकाणां धनुःसहस्रम्, देवतानां योजनलक्षम्, सञ्जिपञ्चेन्द्रियतिरश्चां योजनशतपृथक्त्वम्, नृणां समधिकं योजनलक्षम्, वायोर्जघन्यमुत्कृष्टं चाङ्गुलासङ्ख्येयभागमानम्। उक्तं च
लक्खं सुराण अहियं, नराण तिरियाण सयपहुत्तं तु। नरएसु सतणुदुगुणं भाए अंगुलअसंखंसो।। ( )
आहारकं तु तथाविधस्वाभाव्याजघन्यतोऽपि प्रथममेव देशोनरत्निप्रमाणमेव भवति। उत्कृष्टतस्तु सम्पूर्णरत्निप्रमाणमिति। उक्तं च प्रज्ञापनासूत्रे -
__आहारगसरीरस्स णं भंते ! केमहालीया सरीरोगाहणा पं०(पण्णत्ता) ? गो० (गोयमा!) जहन्नेणं देसूणा रयणी उक्कोसेणं पडिपुन्ना रयणि त्ति।। (प्रज्ञापना पद-२१, सूत्र-१५३५)।
अत्र वृत्तिः- तथाविधप्रयत्नविशेषतस्तदारम्भकद्रव्यविशेषतश्च प्रारम्भकालेऽप्युक्तप्रमाणभावादिति। तथा तैजसकार्मणे जघन्येऽङ्गुलासङ्ख्येयभागमाने उत्कृष्टे तु केवलिसमुद्धाते प्रतिप्रदेशव्याप्त्या समस्तलोकाकाशव्यापके।
स्थितिकृतो भेदो- औदारिकस्य स्थितिर्जघन्यार्मुहूर्तमुत्कृष्टा त्रीणि पल्योपमानि। वैक्रियस्य भवधारणीयस्य जघन्या दशवर्षसहस्राण्युत्कृष्टा त्रयस्त्रिंशत्सागराणि। उत्तरवैक्रियस्य जघन्यान्तर्मुहूर्तम्, या पुनर्वैक्रियतदुभयमाश्रित्योक्ता
संघायणपरिसाडो, जहन्नओ एक्कसमइओ होइ। () इत्यादिका सात्र स्वल्पत्वान्न विवक्षिता। उत्कृष्टा पुनरेवं जीवाभिगमेऽभिहिताअंतमुहत्तं नरएसु होइ चत्तारि तिरियमणुएसु। देवेसु अद्धमासो, उक्कोस विउव्वणाकालो।।
(रत्नसञ्चय-१७, जीवाभिगम, प्रवचनसारोद्धार-१३१०) भगवत्यां तु वायुकायिकस्य पञ्चेन्द्रियतिर्यङ्मनुष्याणां चोत्कर्षतोऽप्यन्तर्मुहूर्तप्रमाणैवोक्तेति। आहारकस्योभयथाप्यन्तर्मुहूर्तम्। तैजसकार्मणे प्रवाहतः सर्वेषामनादी। भव्यानां केषाञ्चित् सपर्यवसाने तथा केषाञ्चिद्भव्यानां शिवगमा(मना)योग्यानामप्यभव्यानां च सर्वेषामपर्यवसाने। उक्तं च'१ अत्र ‘भवंति संति' इति पाठो दृश्यते।