________________
मन:स्थिरीकरणप्रकरणम्
सामग्गिअभावाउ, ववहारियरासिअप्पवेसा उ। भव्वावि ते अणंता, जे सिद्धिसुहं ण पाविंति।।
(गाथासहस्री-१२१, सङ्ग्रहशतकम्-७१) अल्पबहत्वकृतस्तु भेदो यथा- सर्वस्तोकमाहारकं कादाचित्कत्वात्। यदा च सम्भवति तदापि जघन्येन एकं द्वे वा उत्कर्षतः सहस्रपृथक्त्वम्। अन्तरं चाहारकस्य जघन्यमेकः समय उत्कृष्टं षण्मासाः। यथोक्तम्
आहारगाणि लोगे, छम्मासे जा न हंति विक्कियाई। उक्कोसेणं नियमा, एक्को समओ जहन्नेणं।। ताई य जहन्नेणं, एक्कं दो तिन्नि पंच व हवंति। उक्कोसेणं जुगवं, पुहुत्तमित्तं सहस्साणं।। ()
आहारकशरीरेभ्यो वैक्रियाण्यसङ्ख्येयगुणानि सुरनारकाणामसङ्ख्यातत्वात्। तेभ्य औदारिकशरीराण्यसङ्ख्येयगुणानि, सकलतिर्यड्नराणां तत्सम्भवात्। इह च द्विधा तिर्यश्च:- प्रत्येकशरीराः साधारणशरीराश्च। तत्र प्रत्येकशरीराणामसङ्ख्यातानां जीवं जीवं प्रत्येकैकशरीरभावादसङ्ख्यातानि शरीराणि। ये तु साधारणशरीरा अनन्तास्तेषामप्यनन्तानामनन्तानामेकैकशरीरभावादसङ्ख्यातान्येव शरीराणि। ततो यद्यप्यनन्तास्तिर्यश्चस्तथापि सर्वाण्यप्यसखेयान्येवौदारिकशरीराणि। तेभ्योऽनन्तगणानि तैजसकार्मणानि, सर्वसंसारिजीवेष प्रत्येकं तयोरवश्य भावात्।।२५।। अर्थतास्तनूः पृथिव्यादिगृहेषु सङ्केपार्थं व्यतिक्रमेणापि किञ्चिदधिकेन पादचतुष्टयेनाह
मूल] नरि पणवि कम्मोरलतेयतिगं अ वाउएगिदिविगलमणे ।।२५।।
___ मरुतिरि तं सविउव्वं, वेउव्वियतेयकम्म सुरनिरए। दारं। व्याख्या] नरि पणवी त्ति। पञ्चापि पूर्वोक्तस्वरूपास्तनवो मनुष्यगृहे भवन्ति। तथा कार्मणतैजसौदारिकरूपं तनुत्रिकं वायुरहितेष्वेकेन्द्रियेषु विकलामनस्केषु च।। २५।।
तथा- मरु तिरीत्यादि। मरुत्सु सज्ञिपञ्चेन्द्रियतिर्यक्षु च तदेव पूर्वोक्तं तनुत्रिकं वैक्रियसहितं चतुष्टयं भवति। अयमभिप्रायो- वायूनां सञ्जितिरश्चां वैक्रियलब्धिरहितानां पूर्वोक्तमेव तनुत्रयम्, वैक्रियलब्धिमतां तु वैक्रियेण सहितं तच्चतुष्टयमपीति। तथा वैक्रियतैजसकार्मणरूपं त्रिकं नारकेषु सुरेषु च।।२६।। अथ लेश्याद्वारम्। तासां नामानि सङ्ख्यां च गाथोत्तरार्द्धनाह
मूल] किण्हा नीला काऊ, तेऊ पम्ह सुक्क छल्लेसा ।। २६।। व्याख्या] तत्र लिष्यते श्लिष्यते कर्मणा सहात्मानयेति लेश्या। कृष्णादिद्रव्यसाचिव्यादात्मनः शुभाशुभरूपः परिणामविशेषः। यदुक्तं
कृष्णादिद्रव्यसाचिव्यात्परिणामो य आत्मनः। स्फटिकस्येव तत्रायं लेश्याशब्दः प्रवर्तते इति।। ()
अत्र केचिद्वदन्ति- कषायनिष्यन्दो लेश्या इति। अन्ये तु- अष्टप्रकारकर्मपरिणामो लेश्या इति। अपरे पुनः- योगपरिणामो लेश्या इति। योगत्रयजनकस्य पर्याप्तिनामकर्मणः परिणाम इत्यर्थः। परमत्र कषायाभावेऽपि क्षीणकषायादिषु शुक्ललेश्यायाः सद्भावात्, तथा अयोगिकेवलिनि कर्मचतुष्टयसद्भावेऽपि लेश्याया अभावाच्च मतद्वयम् अप्रमाणम्। तृतीयं त्वन्वयव्यतिरेकाभ्यां निर्वहति। तथाहि- यावद्योगाः सन्ति तावल्लेश्या अप्यनुवर्तन्ते सयोगिकेवलिनं यावद्, योगाभावे तु लेश्यानामप्यभावो यथा अयोगिगुणस्थाने। उक्तं च प्रतिक्रमणभाष्ये
जोगपरिणामो लेसा जं सेलेसी अलेसओ। (प्रतिक्रमणभाष्यम् ?) तासां च स्वरूपं जम्बूफलखादकपुरुषषट्कदृष्टान्तेन ग्रामघातकचौराधिपतिषट्कनिदर्शने(न) च।