________________
मन:स्थिरीकरणप्रकरणम्
जह जंबुपायवेगो (संबोधप्रकरणम्-१२८३) इत्यादिगाथाभिः प्रतिक्रमणभाष्यादवगन्तव्यम्। अथवा सङ्घपाद् दृष्टान्तद्वयमप्येवम्
मूलं साह पसाहा, गुच्छफले पडियजंबु भक्खणया। सव्वं माणुस पुरिसे साउह जुझंत धणहरणा।। इति
(दर्शनशुद्धिप्रकरणम्-२२६, संबोधप्रकरणम्-१२९०) अथैताः पृथिव्यादिषु दर्श्यन्ते[मूल] आइचउ भूदगवणे, सिहिमरुविगलेसु अमणनिरएसु ।
आइतिगं तह सन्नी, तिरिमणुदेवेसु छल्लेसा ।। २७।। व्याख्या] आद्याश्चतस्रः कृष्णनीलकापोततेजोलेश्यारूपाः भूदगवनेषु त्रिष्वपि भवन्ति। तत्र सामान्येन सर्वेष्वप्येकेन्द्रियेषु सूक्ष्मबादरपर्याप्तापर्याप्तभेदेष्वाद्यं लेश्यात्रयं भवप्रत्ययादेव भवति।
केषुचित् पुनर्बादरशुभेषु रत्नक्षीरोदजलकमलादिषु भूदकवनेषु लब्ध्या पर्याप्तेषु करणतोऽपर्याप्तेषु क्षणमेकं पारभविकी भवनपत्यादि-ईशानान्तदेवसम्बन्धिनी चतुर्थ्यपि तेजोलेश्या भवति। यतो भवनवनज्योतिःसौधर्मेशानदेवाः केचिन्मिथ्यादृष्टयस्तेजोलेश्यावन्त एतेष्वप्युत्पद्यन्ते। उक्तं चपुढवी आउ वणस्सइ, गब्भे पज्जत्त संखजीवीसु। सग्गभुयाणं वासो, सेसा पडिसेहिया ठाणा इति।।
(प्रवचनसारोद्धार-११७४) तथा तेजोवायुद्वित्रिचतुरिन्द्रियासज्ञिपञ्चेन्द्रियतिर्यड्नारकेषु भवस्वभावादेवाद्यं लेश्यात्रयं भवति, न पुनस्तेजोलेश्यापि, यतस्तेषां सा नेहभविकी तथाविधविशिष्टपरिणामासम्भवात्। नाप्यपर्याप्तावस्थायां पारभविकी, तेजोलेश्यावतां जन्तूनामेतेषूत्पादाभावादिति। तथा सझिपञ्चेन्द्रियतिर्यङ्मनुष्याणां परिणामवैचित्र्याद् अन्तर्मुहूर्तान्तर्मुहर्तस्थितयः षडपि भवन्ति। देवानां चतुर्विधानामपि समुदितानामवस्थिता द्रव्यलेश्याः षडपि भवन्ति। भावपरावृत्त्या पुनरेकैकस्यापि षडपि भवन्ति। उक्तं चकिण्हा नीला काऊ, तेऊ लेसा य भवणवंतरिया। जोइस-सोहम्मीसाण तेउलेसा मुणेयव्वा।।
(प्रवचनसारोद्धार-११५९, बृहत्सं.-१७६, त्रैलोक्यदी.-२८२) कप्पे सणंकुमारे, माहिंदे चेव बंभलोगे य। एएसु पम्हलेसा, तेण परं सुक्कलेसा उ।।
(प्रवचनसारोद्धार-११६०, त्रैलोक्यदी.(बृहत्सं.)-२८३, प्र.पृ.-४०९) तथादेवाण नारयाण य, दव्वा लेसा हवंति एयाओ। भावपरावत्तीए, सुरनेरइयाण छल्लेसा।।
(त्रैलोक्यदी.(बृहत्सं.)-४०५, जीवसमासः-७४) अथ दृष्टिद्वारम्[मूल] सम्म मिच्छं मीसं, दिट्ठितिगं तत्थ सुत्तआएसा ।
पुढवाइ पंच मिच्छा, भूदवणे दिट्ठिदुग कम्मा ।।२८।। व्याख्या] सम्यग्दृष्टिर्मिश्रदृष्टिर्मिथ्यादृष्टिश्चेति दृष्टित्रयं भवतीति सम्बन्धः। तत्र दर्शनं दृष्टिर्वस्त्ववबोधः। तत्र सम्यग् = अविपरीता यथावस्थितैव जिनप्रणीतवस्तुतत्त्वानां सम्यक्त्वपुञ्जस्य उदयेन वा, उपशमेन वा, क्षयेण वा क्रमेणाविशुद्ध-विशुद्धतर-विशुद्धतमावबोधरूपा दृष्टिः सम्यग्दृष्टिः। तथा मिश्रस्य = अर्द्धविशुद्धस्य दर्शनमोहनीय