________________
मन:स्थिरीकरणप्रकरणम्
पुञ्जस्योदयात् जिनप्रणीततत्त्वानां अर्द्धविशुद्धप्रतिपत्तिरूपा दृष्टिः मिश्रदृष्टिः। तथा मिथ्यात्वपुञ्जोदयात् भक्षितहृत्पूरपुरुषस्येव सिते पीतप्रतिपत्तिवत् मिथ्या = विपर्यस्ता यथावस्थितजिनप्रणीतवस्तुतत्त्वविपरीतप्रतिपत्तिरूपा दृष्टिर्मिथ्यादृष्टिः। __अर्थताः पृथिव्यादिषु योजयन्नाह- तत्थेत्यादि। तत्रेति दृष्टित्रये। सूत्रादेशात् पञ्चापि पृथिव्यादयो मिथ्यादृष्टय एव। उक्तं च प्रज्ञापनायां सम्यक्त्वाभिधाने एकोनविंशतितमपदे
पुढविकाइयाणं पुच्छा गोयमा ! पुढविक्काइया नो सम्मट्टिी, मिच्छदिट्ठी, नो सम्मामिच्छदिट्ठी। एवं जाव वणप्फइकाइया इति।
(प्रज्ञापना पद-१९, सूत्र-१४०२) कार्मग्रन्थिकाः पुनः बादरभूदगवनेषु लब्ध्या पर्याप्तेषु करणतोऽपर्याप्तावस्थायां क्षणमेकं पारभविकेन सास्वादनभावेन सम्यक्त्वस्यापि सद्भावाद् दृष्टिद्वयमपि भूदगवनेषु त्रिषु मन्यन्ते। ते ह्येवमाहुः
भूदगतरुसु दो दो, इगमगणिवाउसु चउदस तसेसु। (षडशीतिकनामा चतुर्थप्राचीनकर्मग्रन्थः-२८) षडशीतिके। गुणस्थानकानीति सम्बन्धः।।२८।। तथा -
[मूल] मिच्छं सासण सम्मं, दिविदुगं विगलअमणतिरिएसु ।
___ सन्नितिरिमणुयनारयदेवेसुं होइ दिट्ठितिगं ।।२९।। व्याख्या] मिथ्यात्वं तावद्विकलामनसां सर्वेषामपि सामान्येन सुप्रतीतमेव। सासादनसम्यक्त्वं पुनः केषाञ्चिदेव विकलामनसां लब्ध्या पर्याप्तानां करणतः पुनरपर्याप्तानां क्षणमेकं पारभविकेन सास्वादनभावे भवतीति। उक्तं चावश्यके- विगलेसु दुज उववन्नो ( ) इति। पूर्वप्रतिपन्नसास्वादनस्य उपलक्षणत्वादसञ्जिष्वपि। शेष सुगमम्।।२९।। अथ पर्याप्तिद्वारम्। ताश्च षट् पादद्वयेनाह
[मूल] आहार तणू इंदिय ऊसासे वय मणे छ पजत्ती । व्याख्या] तत्र पर्याप्तिराहारादिपुद्गलदलिकग्रहणपरिणमनहेतुः पुद्गलोपचयजः शक्तिविशेषः। सा च साध्यभेदात् षोढा। तत्राहारपर्याप्तिर्यया शक्त्या करणभूतया जन्तुराहारमादाय खलरसरूपतया परिणमयति। शरीरपर्याप्तिर्यया रसीभूतमाहारमौदारिकवैक्रियाहारकशरीरत्रययोग्यपुद्गलरूपं रसासृङ्मांसमेदो(दा)ऽस्थिमज्जाशुक्ररूपसप्तधातुतया यथासम्भवं परिणमयति। इन्द्रियपर्याप्तिर्यया धातुरूपतया परिणमितादाहारादेकस्य द्वयोस्त्रयाणां चतुर्णां पञ्चानां वा इन्द्रियाणां योग्यान् पुद्गलानादाय स्वस्वेन्द्रियरूपतया परिणमय्य च स्वं स्वं विषयं परिज्ञातुं प्रभुर्भवति। प्राणापानपर्याप्तिर्ययोच्छासनिश्वासयोग्यं दलिकमादाय तथा परिणमय्यालम्ब्य च निस्रष्टुं समर्थो भवति। भाषापर्याप्तिर्यया भाषायोग्यं दलिकमादाय भाषात्वेन परिणमय्यालम्ब्य च मुश्चति। मनःपर्याप्तिस्तु यया मनोवर्गणादलिकमादाय मनस्त्वेन परिणमय्यालम्ब्य च मननसमर्थो भवति। तदुक्तम्आहारसरीरिदिय, ऊसासवओमणोभिनिव्वत्ती। होइ जओ दलियाओ, करणं पड़ सा उ पज्जत्ती।।
(विचारसप्ततिकाः-४२, बृहत्सं.-३३९) आहारशरीरेन्द्रियोच्छ्वासवचोमनसामभिनिर्वृत्तिः निष्पत्तिर्भवति यतो दलिकाद् = आहारशरीरादीनां निष्पत्तियोग्यवर्गणापुद्गलसमूहरूपात् तस्य दलिकस्य गृहीतस्य तामेवाहाराद्यभिनिर्वृत्तिस्वस्वविषयपरिणमनरूपां प्रति यत्करणं जीवसम्बन्धिशक्तिरूपं सा पर्याप्तिः।