________________
मन:स्थिरीकरणप्रकरणम्
अथ द्वित्रिचतुरिन्द्रियासचिषु उपयोगविषये सैद्धान्तिककार्मग्रन्थिकयोर्मतभेदमाह[मूल] सुत्ते दुतिकरणाणं, पण पण छ छच्च अमण चउकरणे ।
कम्म इगा ति ति चउ चउ, नाणदुगुणा जओ तेसिं ।।२३।। व्याख्या] सूत्रे प्रज्ञापनादौ द्वित्रिचतुरेन्द्रियासझिनां क्रमेण पञ्च पञ्च षट् षट् उपयोगाः समभिदधिरे। तथाहि
जेणं बेंदिया आभिणिबोहियनाणसुयनाणमइअन्नाणसुयअन्नाणोवउत्ता तेणं बेइंदिया सागारोवउत्ता। जेणं बेंदिया अचक्खुदंसणोवउत्ता तेणं बेंदिया अणागारोवउत्ता। से तेणटेणं एवं वुच्चइ०। एवं जाव चउरिदिया नवरं चक्खुदंसणं अब्भहियं। (प्रज्ञापनापद-२९, सूत्र-१९३२) प्रज्ञापनापदे २९। अयं चार्थो जीवाभिगमेऽपि। तथाहिते णं भंते जीवा किं नाणी अन्नाणी ? गोयमा ! नाणी वि अन्नाणी वि, जे नाणी ते नियमा दुनाणी। तं जहा- आभिणिबोहियनाणी य सुयनाणी य। जे अन्नाणी ते नियमा दुअन्नाणी। तं जहा-मइअन्नाणी सुयअन्नाणी य। (जीवाभिगम प्र.१, सूत्र-२८) इति। द्वि-त्रि-चतुरिन्द्रियदण्डकेषु तथादो दिट्ठी दो दंसणा दो नाणा दो अन्नाणा दुविहे जोगे य। (जीवाभिगम प्र.१, सूत्र-३५)
इत्यादि सम्मूर्च्छिमतिर्यक्पञ्चेन्द्रियदण्डके जीवाभिगमे प्रथमप्रतिपत्तौ। कार्मग्रन्थिकास्त्वेतेषां चतुर्णामपि एतानेव पञ्च पञ्च षट् षट् ज्ञानद्विकेन मतिज्ञानश्रुतज्ञानलक्षणेन ऊनान् त्रीन् त्रीन् चतुरश्चतुरश्च प्रतिपादयन्ति। जओ तेसिं ति। यतस्तेषां मतमिदमस्तीति शेषः। तदेवाह
[मूल] सासणभावे नाणं, विउव्वाहारगे उरलमिस्सं ।
नेगिंदिसु सासाणो, नेहाहिगयं सुयमयंपि ।।२४।। व्याख्या] सूत्रे = प्रज्ञापनादौ मतिश्रुतरूपं ज्ञानद्वयं भवतीत्युक्तम्। तथौदारिकशरीरिभिर्वैक्रिय आहारके च शरीरे प्रारभ्यमाणे उभयत्राप्यौदारिकं मिश्रं भवति, वैक्रिये च मुच्यमाने वैक्रियं मिश्रम्, आहारके च मुच्यमाने आहारकमिति। तथा एकेन्द्रियेष न सास्वादनमित्येतदिदतयं सत्रोक्तमपीह कार्मग्रन्थिका नाभ्यपगच्छन्ति. किं त्वेवमाहुः- सास्वादनभावेऽज्ञानमेव। तथा वैक्रियस्य प्रारम्भे मोचनेऽपि वैक्रियमिश्रमेव। आहारकस्यापि प्रारम्भे मोक्षे चाहारकमिश्रमिति। तथा एकेन्द्रियेषु सास्वादनं भवतीति गाथास पार्थः। विस्तरार्थः पुनरयम्षडशीतिकबृहद्वृत्तौ परं(रि)तात्पर्यवृत्या सासादनसम्यग्दृष्टित्वे मतिज्ञानं मतिश्रुतरूपं भवति, न पुनरज्ञानमिति। तथाहि
बेइंदियाणि भंते किं नाणी अन्नाणी? गोयमा ! णाणी वि अन्नाणी वि। जे नाणी ते नियमा दुनाणी। तं जहा- आभिणिबोहियनाणी सुयनाणी। जे अन्नाणी ते नियमा दुअन्नाणी तं जहामइअन्नाणी सुयअन्नाणी य।
(भगवतीशतक-८३.२, सूत्र-२७) इत्यादिसूत्रे यद् द्वीन्द्रियादीनां ज्ञानित्वमुक्तं तत्सास्वादनापेक्षमेव, न पुनरन्यथा। उक्तं च प्रज्ञापनाटीकायाम्