SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ मन:स्थिरीकरणप्रकरणम् अथैतानेव योगान् पृथिव्यादिषु गाथाद्वयेनाह[मूल] कम्मोरल दुगजोगा, तिन्नेगिंदिसु विउव्विदुगजुत्ता । पण मरुसु बिविगलमणे, कम्मुरलदुगं वई तुरिया ।।१८।। आहारदुगं वज्जिय, तेरस तिरिएसु पनरस नरेसु । उरलदुगाहारदुर्ग, वजिय एक्कार निरयसुरे ।।१९।। व्याख्या] कम्मि त्ति। कार्मणः। उरलदु त्ति। औदारिकद्विकं औदारिक औदारिकमिश्ररूपमिति। त्रयो योगा एकेन्द्रियगृहपञ्चके स्युः। पुनस्त एव त्रयो योगा वैक्रियतन्मिश्रद्वययुक्ताः सन्तः पञ्च मरुत्सु वैक्रियलब्धिमद्बादरपर्याप्तपवनेषु, तथा विकलामनस्केषु प्रत्येकं कार्मणौदारिकद्विकम्, तुर्या वाक् तु सत्यामृषाभाषारूपेति चत्वारो योगा भवन्तीति।। आहारगाथा तु सुगमा।।१८-१९।। अथोपयोगद्वारम्, ते च द्वादशेत्याह [मूल] नाणं पंचविहं तह, अन्नाणतिगं च अट्ठ सागारा । ___ चउदसणमणगारा, बारस जियलक्खणुवओगा ।।२०।। व्याख्या] उपयोजनमुपयोगः = बोधरूपो जीवव्यापारः। अथवा उपयुज्यते = वस्तुपरिच्छेदं प्रति व्याप(पा)र्यते यः स उपयोगः। यद्वा उपयुज्यते = वस्तुपरिच्छेदं प्रति जीवोऽनेन करणभूतेनेत्युपयोगः। सर्वत्र जीवस्वतत्त्वभूतो बोध एवोपयोगो मन्तव्यः। स च द्विधा साकारोऽनाकारश्च। तत्र वस्तूनां विशेषरूपग्राहकः साकारोपयोगः, सह विशिष्टाकारेण वर्तत इति कृत्वा। सामान्यरूपविषयस्तु अनाकारोपयोगः, सामान्याकारयुक्तत्वे सत्यपि विशिष्टव्यक्ताकाररहितत्वादिति। तत्र प्रथमो ज्ञानपञ्चकाज्ञानत्रिकभेदादष्टधा। द्वितीयस्तु चक्षुरादिदर्शनच्च(च)तुष्टय भेदाच्चतुर्द्धा, मिलिता द्वादश। जियलक्खण त्ति। जीवस्य लक्षणभूता जीवलक्षणाः। उपयोगलक्षणो जीव (तत्वार्थाधिगमसूत्रम्-२/८) इति वचनात्। लक्ष्यते जीव एभिरिति कृत्वा।। २०।। अथोपयोगान् पृथिव्यादिषु गाथाद्वयेनाह [मूल] अन्नाणदुगमचक्खुदंसण एगिदि तिन्नि उवओगा । ___ मइसुयनाणअनाणा, अचक्खु इय पंच दुतिकरणे ।।२१।। व्याख्या] मत्यज्ञानश्रुताज्ञानद्विकम् अचक्षुर्दर्शनं चेत्युपयोगास्त्रयः एकेन्द्रियगृहेषु पञ्चसु। तथा मतिश्रुतज्ञाने द्वे, मत्यज्ञानश्रुताज्ञाने च द्वे, अचक्षुर्दर्शनं चेति पञ्चोपयोगा द्विकरणेषु त्रिकरणेष्वपीति।।२१।। तथा [मूल] एए सचक्खुदंसा, चउरिंदि असन्निएसु छच्चेव ।। नरि' बारस केवलदुगमूण नव तिरियनिरयसुरे ।।२२।। व्याख्या] एत एव पूर्वोक्ता पञ्चोपयोगाश्चक्षुर्दर्शनसहिताश्चतुरिन्द्रियेषु असज्ञिपञ्चेन्द्रियेष्वपि च षडेव भवन्ति। नरेषु द्वादशापि। तथा त एव द्वादश केवलज्ञानकेवलदर्शनमनःपर्यायैरूना नव नव सञिपञ्चेन्द्रियतिर्यक्षु नारकेषु देवेषु च भवेयुरिति।।२२।। १ मूलगाथायां 'नरि' इत्यस्य स्थाने 'नवरि' इति पाठो दृश्यते।
SR No.009261
Book TitleMan Sthirikaran Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Rupendrakumar Pagariya
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages207
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy