________________
मन:स्थिरीकरणप्रकरणम्
इत्युक्तो द्विचत्वारिंशद्भेदभिन्नो मनोयोगो वाग्योगश्च । सम्प्रति सप्तविधं काययोगमाह - उरलेत्यादि । उदारं = प्रधानम्, प्राधान्यं च तीर्थकरगणधरशरीरापेक्षया द्रष्टव्यम्; ततोऽन्यस्यानुत्तरसुरशरीरस्याप्यनन्तगुणहीनरूपत्वाद्; उदारं वा सातिरेकयोजनसहस्रमानत्वात् सहजशेषशरीरापेक्षया बृहत्प्रमाणम्; उदारं वा स्फारनामात्रसारं वैक्रियादिशरीर - पुद्गलापेक्षया स्थूलमित्यर्थः । उदारमेव औदारिकम्। चीयत इति कायः, औदारिकमेव कायस्तेन सहकारिकारणभूतेन तद्विषयो वा योग औदारिककाययोगः । तथा औदारिकापेक्षया विविधा = नानाप्रकारा विशिष्टा वा विलक्षणा वा क्रिया विक्रिया तस्यां भवं वैक्रियम्। उत्तरवैक्रियं त्वपेक्ष्य विविधा वैक्रिया समुद्धातकरण - निजजीवप्रदेशदण्डनिसर्जन-बाह्यपुद्गलग्रहणशरीरविकुर्वा (र्व) णादिका क्रिया विक्रिया तस्यां भवं वैक्रियम् । वैक्रियं चासौ कायश्च तेन तद्विषयो वा योगः स तथेति। तथा चतुर्दशपूर्वविदा तीर्थकरस्फातिदर्शनादितथाविधप्रयोजनोत्पत्तौ सत्यां विशिष्टलब्धिव-शादाह्रियते = निर्वर्त्यत इति निपातनादाहारकम्, तदेव कायस्तेन तद्विषयो वा योग इति।
२१
तम्मिस्सतिगं च (चे) त्ति । तेषां औदारिकवैक्रियाहारकाणां मिश्रत्रिकम् । तद्यथा - औदारिकमिश्रो वैक्रियमिश्र आहारकमिश्रश्चेति । तत्र औदारिकं मिश्रं यत्र कार्मणेन स तथा । स च औदारिकशरीरिणाम् अपर्याप्तावस्थायाम्, केवलिनां च केवलिसमुद्घातावस्थायां च भवतीति । तत्र उत्पत्तिदेशे पूर्वभवादनन्तरमागतो जीवः प्रथमसमये कार्मणेनैव केवलेनाहारयति, ततः परमौदारिकस्याप्यारब्धत्वादौदारिकेण कार्मणमिश्रेण यावच्छ-रीरस्य निष्पत्तिरिति । उक्तं च
जोएण कम्मएणं, आहारेई अणंतरं जीवो। तेण परं मीसेणं, जाव सरीरस्स निप्फत्ती ।।
(सूत्रकृदङ्गनिर्युक्ति-१७७)
तथा केवलिसमुद्धातावस्थायामपि द्वितीयषष्ठसप्तमसमयेषु कार्मणेन मिश्रमौदारिकं प्रतीतमेव । उक्तं चमिश्रौदारिकयोक्ता सप्तम - षष्ठ-1 - द्वितीयेषु । ( प्रशमरतिः - २७६ ) इति कर्मग्रन्थाभिप्रायः ।
सिद्धान्ताभिप्रायेण तु- औदारिकमिश्रं चतुर्द्धा । तत्र भेदद्वयं पूर्वोक्तमेव, तृतीयं तूत्तरवैक्रियप्रारम्भे उत्तरवैक्रियेण, चतुर्थं त्वाहारकप्रारम्भे आहारकेणापि । एतच्चानन्तरमेवोपयोगद्वारे व्यक्तीकरिष्यते । तत औदारिकमिश्रमेव कायस्तेन तत्र वा योग इति । तथा वैक्रियं मिश्रं यत्र कार्मणेन औदारिकेण वा तत् तथा । तत्र कार्मणेन मिश्रं देवनारकाणामपर्याप्तावस्थायां प्रथमसमयादनन्तरं द्रष्टव्यम्। बादरपर्याप्तक ( कानां) तथा केषाञ्चित् वायूनां सञ्ज्ञिपञ्चेन्द्रियतिरश्चां मनुष्याणां च वैक्रियलब्धिमतां वैक्रियं कृत्वा तत्परित्यजतामौदारिकं च गृह्णतां वैक्रियमिश्रमौदारिकेणेति। षडशीतिकचूर्णौ तु पुनरेवमभाणि -
सव्वेसिं' वा उत्तरवैक्रियारम्भकाले कम्मणा सह जओ ते विउव्वियकरणकाले विउव्वियसमुग्घायं समोहन्नंति समुग्धाए य कम्मणसरीरेण वेउव्वियपोग्गले आदायंति। आदाइएसु वि जाव सरीरपज्जत्ती न पूरड़ ताव वेउव्वियमिस्स सन्निस्स लब्भइ । (षडशीतिकचूर्णिः ) तदेव कायस्तेन तत्र वा योगः।
आहारगमिस्स त्ति । आहारकं मिश्रं यत्र औदारिकेणेति गम्यते । तच्च सिद्धप्रयोजनस्य चतुर्दशपूर्वविद आहारकं परित्यजत औदारिकमुपाददानस्येति । तदेव कायस्तेन तत्र वा योगः ।
कम्मण त्ति। कर्मैव कर्मणां वा विकारः कार्मणम् । संसार्यात्मनां गत्यन्तरसङ्क्रमणकाले साधकतमं करणम् । कार्मणमेव कायस्तेन तद्विषयो वा योगः कार्मणकाययोगः ।। १७।।
१ ग्रन्थकृतः देवनारकतिर्यग्मनुष्यवायूनाम् ।