________________
२०
मन:स्थिरीकरणप्रकरणम्
तीर्थप्रभावनादिकारिणा शुद्धव्यवहारिणा सदाचारिणा भवितव्यम्' इत्यादिका सर्वापि प्रज्ञापनी । न चैवमुपदिश्यमाने करणकारणानुमत्यादिकं किमपि साधूनां स्यात् । यदि पुनरेवमपि तदभविष्यत् तत्कथमिदमेवमुक्तमावश्यकचूर्णिकृता
बंधो दुविहो दुपयाणं चउप्पयाणं च अट्ठाए अणट्ठाए य । अणट्ठाए न वट्टइ। अट्ठाए साविक्खो निरविक्खो य। निरविक्खो निच्चलं धणियं जं बज्झइ । सावेक्खो न ( जं) संसरपासएणं आली - वणगाइसु य। जं सक्केइ मुचियं वा छिंदिउं वा दामगंठिणा एवं चउप्पयाणं । दुप्पयाणं दासो दासी वा चोरो वा पु वा न पढंतओ। तेण सविक्कम्माणि बंधेयव्वाणि रक्खियव्वाणि जहा अग्गिभयाइसु न विणस्संति । तारिसयाणि किर दुपय- चउप्पयाणि सावएण गिण्हियव्वाणि जाई अबद्धाणि चेव अच्छंतीति । व इत्यादि जाव सावेक्खो पुव्वं भीयपुरिसेण होयव्वं । जड़ न करेज्जा ताहे मम्मं मुत्तूणं लयाए दारेण वा एगं दो तिन्नि वा वारे ताडेज्जा एवमाइ विभासा । छविछेउ अणट्ठाए इत्यादि । जाव सावेक्खो गंडं वा अरई वा छिंदिज्ज दहेज्ज वा इत्यादि जाव दुपओ जं सयं उक्खिवेइ ओयर । एवं वाहिज्जइ बइल्लाइणं जहा साभावियाओ वि भाराओ ऊणओ कीरइ हलसगडेसु वि वेलाए मुयइ इत्यादि । भत्तपाणवोच्छेओ न काव्वो इत्यादि जाव सावेक्खो रोगनिमित्तं वायाए वा भणेज्ज-अज्ज ते न देमि, संतिनिमित्तं वा उववासं कारविज्जा। (आवश्यकचूर्णि भाग - २ पृ. ८४)
इत्यादि कियदुच्यतेऽत्रेति ? तदत्र तात्पर्यमिदं - प्रयोजने उपस्थिते साधुभिः श्रावकान् प्रति सावद्यं धर्मकृत्यमपि नोपदेष्टव्यं यत् श्रुत्वा श्राद्धस्तदात्व एव तत्र प्रवर्तते । यदा तु शास्त्रं व्याख्यायते सामान्येन वा श्रावकधर्मकृत्यमुपदिश्यते तदा द्रव्यस्तवविषयमपि धर्मकृत्यं शुद्धव्यवहारसदाचारादिकं च प्ररूपयितं प्रज्ञापनीभाषात्वे न दोषः। यतो यद्यत्किमपि धर्मविषये विधेयं वस्तु श्रावकाणां तत्सर्वमपि सद्गुरूपदेशेनैव ज्ञायत इति ।
प्रत्याख्यानी यथा अन्यं याचमानं निराकरोति- 'मा मां याचस्व, न मम दातुमिच्छा' इति ।
इच्छानुलोमा यथा प्रतिपादय ( यि ) तुर्या इच्छा तदनुलोमा = तदनुकूला इच्छानुलोमा । यथा कार्ये प्रेरितस्य 'एवमस्तु ममाप्यभिप्रेतमेतद्' इति वचः । यथा वा केनचित् कश्चिदुक्तः 'साधुसकाशं गच्छामः । स प्राह 'शोभनमिदं ममाप्यभिप्रेतम्' इत्येवंरूपा ।
यथा अनभिगृहीता यथा अर्थानभिग्रहेण योच्यते, स डित्थ आदिवत् । यस्यां वा भाष्यमाणायां न कोऽप्यर्थनिश्चयो, यथा बालग्रहिलमदिरामत्तादीनाम् ।
अभिगृहीता याऽर्थनिश्चयं करोति । यथा 'एष घटः पटः' इत्यादि ।
संशयकरणी अनेकार्थसाधारणी । यथा - सैन्धवमानय इति । सैन्धवशब्दो हि पुरुषवस्त्रलवणवाजिषु वर्तते। यथा वा ‘नवकम्बलो देवदत्तः । अत्र हि नवशब्दः प्रत्यग्रवचनः सङ्ख्यावचनश्चेति।
व्याकृता स्पष्टाक्षरा । यथा देवमनुष्यशुकसारिकादीनाम् । 'देवदत्त ! एष ते भ्राता समेति' इत्यादिका । स्पष्टार्था वा 'धम्मो मंगलमुक्किट्ठ' (दशवैकालिक १.१) इत्यादि ।
अव्याकृता अस्पष्टाक्षरा। मम्मनलल्लुरवचनादिका । द्वीन्द्रीयादितिरश्चां वा सर्वेषामपि ये केचन शब्दविशेषाः अथवा अस्पष्टार्था व्यासकष्टादिका । यथा
अदृश्वला जनपदाः शिवश्वलाश्चतुष्पथाः । वनीताः केशशूलिन्यो भविष्यन्ति कलौ युगे । ( )
इत्यादि।