________________
मन:स्थिरीकरणप्रकरणम्
जीवाजीवोभयाश्रितं मिश्रम् । यथा तस्मिन्नेव जीवन्मृतकृमिराशौ प्रमाणनियमेन ‘एतावन्तो जीवन्त्येतावन्तश्च मृताः' इत्यभिदधतस्तन्न्यूनाधिकत्वे मिश्रता।
अथवा जीवमिश्रम्। यथा- शुलितेषु कणेषु ‘कीटका एव केवलाष्टलवलन्तः सन्ति' इति क्रायिकवचः?
अजीवमिश्रम्। यथा धान्यस्वामी वदति- तन्दुलेषु स्वल्पविशोधितकतिपयजीवेषु तन्दुला एव एते केवला, नास्ति अत्र एकोऽपि त्रसजीवः' इति।
जीवाजीवोभयमिश्रम्। यथा तस्मिन्नेव शुलितधान्ये ‘अर्द्धप्रमाणा कीटकाः' इति वदतः प्रमाणस्य न्यूनाधिकत्वे उभयमिश्रता।
अनन्तमिश्रम्। यथा मृष्टवणस्य पत्राणि अनन्तकायिकानि, न तु स्कन्धादिस्ततः ‘सर्वोऽपि वणो अनन्तकायः' इति वदतः।
प्रत्येकमिश्रम्। यथा सर्वोऽपि ‘वणः प्रत्येकः' इति।
अद्धामिश्रम्। अद्धा = दिवसरजनीलक्षणः कालस्तद्विषये मिश्रं सत्यासत्यरूपम्। यथा कश्चित् परं प्रेरयन् घटिकाद्वयशेषेऽपि दिने ‘रात्रिः पतिता' इत्यादि।
अद्धाद्धामिश्रम्। अद्धा = दिवसो रजनी वा तदैकदेशः = प्रहरादिरद्धाद्धा तद्विषयं सत्यासत्यम्। यथा कश्चित् परं प्रेरयन्नुदितमात्रेऽपि सूर्ये ‘घटिकाद्वयं चटितम्' इति, प्रहरमात्रे वाप्यह्नि मध्याह्नः समजनि' इत्यादि।
असत्यामृषा द्वादशधा। आमंतणी गाहाद्वयम्। तत्र आमन्त्रणी हे ! देवदत्त !' इत्यादिका। एषा च किल वस्तुनोऽविधायकत्वादनिषेधकत्वाच्च सत्यादिभाषात्रयलक्षणवियोगतश्च असत्यामृषेति।
आज्ञापनी कार्ये परस्य प्रवर्तनम्। यथा ‘कटं कुरु'। याचनी वस्तुविशेषस्य ‘देहि' इत्येवं मार्गणरूपा।
पृच्छनी अविज्ञातस्य सन्दिग्धस्य वा अर्थस्य ज्ञानार्थम्। यथा- 'कीदृशो जीवो मोक्षो वा ?' 'कथं वा धर्मो भवति ?' इत्यादि प्रश्नरूपा।
प्रज्ञापनी विनेयस्योपदेशदानरूपा। यथापाणवहाउ नियत्ता, भवंति दीहाउया अरोगा य। एमाई पन्नवणी, पण्णत्ता वीयरागेहिं।। नियदव्वमउव्व जिणिंदभवणवरपइट्ठासु। वियरइ पसत्थ पोत्थयसु तित्थयरपूयासु।। (रत्नसञ्चय-३३२) तथापरिसुद्धजलग्गहणं, दारु य धण्णाइयाण तह चेव। गहियाण य परिभोगो, विहीए तसरक्खणट्ठाए।।
(श्रावकप्रज्ञप्ति-२५९) जिणभवणकारणविही, सुद्धा भूमि दलं च कट्ठाई। भयगाऽनतिसंधाणं, आसयवुड्डी तहच्चेव।।
(पञ्चाशक-३०३) तथा- 'सति विभवे श्रावकेण श्रीभरतचक्रिन्यायेन गगनतलावलम्बिशिखरध्वजकलशपर्यन्तं जिनभवन विधाप्य, तत्र च मणिरत्नकनकस्फटिकरजतविद्रुमादिभिः सुप्रमाणसल्लक्षणप्रासादनीयाप्रतिमाः प्रतिमाः प्रतिष्ठाप्य, तासाञ्च प्रतिदिनमपि त्रिसन्ध्यं कण्ठस्नानं देशस्नानं वा विधाय, अनुपहतसितवासांसि परिधाय, यथाविभवं सम्पद्यमानसर्वसामग्या प्रधानप्रधानतरैर्मृगमद-कर्पूर-मलयज-काश्मीरज-पुष्प-माल्य-गन्ध-वस्त्राक्षत-धूपादिभिः श्रेणिकमहानुपतिवत् सप्तदशप्रकारोऽर्चनाविधिविधेयः। तथा तीर्थयात्रा-साधर्मिकवात्सल्य-पुस्तकलेखन