Book Title: Man Sthirikaran Prakaranam
Author(s): Vairagyarativijay, Rupendrakumar Pagariya
Publisher: Shrutbhuvan Sansodhan Kendra

View full book text
Previous | Next

Page 84
________________ मन:स्थिरीकरणप्रकरणम् शीतोष्णस्पर्शरूपा सा शरीराद्बहिः त्वङ्मात्रेणैव संवेद्या स्पर्शनेन्द्रियविषया अपरैवेति । यद्येवमुदरकोष्टकाभ्यन्तरे कथं शीतोष्णजलान्नादीनां तादृक् तादृक् स्पर्शानुभवः ?, सत्यम्, शरीरमध्ये यत्र यत्र कर्णनासावदनगलोदरकण्ठादिषु शुषिरं तत्र तत्र सर्वशरीराभ्यन्तरतोऽपि स्पर्शनेन्द्रियं वलयाकारं समस्ति, तेन च शीतोष्णस्पर्शसंवेदनेति। अथ प्राणान् पृथिव्यादिष्वाह- एगिंदीत्यादि । सुगमम् ||३२|| [मूल] सरसणवयणा ते छ उ, सघाण सत्त उसनेत ते अट्ठ । ससवण नव विगलमणे, समणा दस पाण सेसेसु ||३३|| ३५ [व्याख्या] त एव पूर्वोक्ताश्चत्वारः प्राणाः रसनेन्द्रियवचनबलसहिताः । विगलमण त्ति। उत्तरपदसम्बन्धाद् द्वीन्द्रियेषु षट् भवन्ति। पुनः षडपि सघ्राणाः सन्तः त्रीन्द्रियेषु सप्त। ते च सप्त चक्षुषा सह चतुरिन्द्रियेष्वष्टौ । तेऽप्यष्टौ श्रोत्रसहिताः अमनस्तिर्यक्पञ्चेन्द्रियेषु नव। तेऽपि नव मनः सहिताः शेषेषु सञ्ज्ञितिर्यङ्नरनारकसुरेषु दश प्राणा भवन्तीति ।। ३३॥ अथायुर्द्वारम्। तच्च जघन्योत्कृष्टत्वाभ्यां द्विविधमपि पृथिव्यादिष्वाह [मूल] पुढवाइकारसेसुं, लहु अंतमुहूत्तहा निरसुराणं । दससमसहस्स लहुयं, तेतीसयराई गुरुमाउं ॥ ३४॥ [व्याख्या] आयात्यागच्छति प्रतिबन्धकतां स्वकृतकर्मावाप्तनरकादिकुगतेर्निःक्रमितुमनसोऽपि जन्तोरित्यायुः। अस्य च बन्धे लघुसङ्ग्रहणीसूत्रवृत्त्योर्विधेरियं (विधिरयम्) बंधंति देवनारय, असंखतिरिनर छम्माससेसाऊ । परभवियाउं सेसा, निरुवक्कम तिभाग सेसाऊ ।। (बृहत्सङ्ग्रहणी-३२७) देवनारका असङ्ख्यातवर्षायुतिर्यङ्नराश्च षण्मासावशेषायुषः सन्तः पारभविकमायुर्बध्नन्ति । शेषाः सङ्ख्यातायुस्तिर्यङ्नरा एकद्वित्रिचतुःपञ्चेन्द्रिया निरुपक्रमायुषो नियमतः स्वजीविततृतीयभागशेषायुषः परभवायुर्बध्नन्ति । सोवक्कमाउया पुण, सेस तिभागेऽहवा नवमभागे । सत्तावीसइमे वा अन्तमुहूत्तंतिमे वा वि ।। (बृहत्सङ्ग्रहणी - ३२८) सोपक्रमायुषः पुनरेत एव एकद्वित्रिचतुःपञ्चेन्द्रियाः स्वायुषस्त्रिभागे शेषे परभवायुर्बध्नन्ति । अथवा नवमभागे, त्रिभागस्य च त्रिभागे इत्यर्थः । सप्तविंशतितमभागे वा नवमभागस्यापि त्रिभागरूपे । तथा च प्रज्ञापनायाम् सिय त्तिभागे। सिय त्तिभागत्तिभागे । सिय त्तिभागत्तिभागत्तिभागे त्ति । (प्रज्ञापना पद - ६, सू. ६८१) तत्रापि बन्धाच्च्युता नियमादन्तिमेऽन्तर्मुहूर्ते बध्नन्ति । केषुचित्सप्तविंशतितमभागादूर्ध्वमपि त्रिभागकल्पनां तावद् वर्णयन्ति यावदन्त्योऽन्तर्मुहूर्त इति मलधारिसङ्ग्रहणिवृत्तौ । भगवतीवृत्तौ पुनः - नवरं नारकादेवाश्च षण्मासावशेषायुषः सन्तो भवप्रत्ययात् तिर्यङ्मनुष्यायुषी एव कुर्वन्ति । मतान्तरेण तु षण्मासावशेषे उत्कर्षतो जघन्यतोऽन्तर्मुहूर्ते शेषे इति । सम्प्रति पृथिव्यादिषु मनुष्यान्तेषु तदेवोत्कृष्टमाह [मूल] बावीस सत्त समसहस, तिदिण तिदससमसहस बारसमा । उणपन्नदिण छम्मासा, पुव्वकोडि तिपल्ल पल्लुतियं ।। ३५ ।। [व्याख्या] अत्र प्राकृतत्वात् सूत्रस्य च सूचामात्रनिबन्धनत्वाद् यथायोगं विभक्तिसम्बन्धं पदसम्बन्धं च

Loading...

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207