Book Title: Man Sthirikaran Prakaranam
Author(s): Vairagyarativijay, Rupendrakumar Pagariya
Publisher: Shrutbhuvan Sansodhan Kendra

View full book text
Previous | Next

Page 96
________________ मन:स्थिरीकरणप्रकरणम् व्याख्या] समचतुरस्रं न्यग्रोधपरिमण्डलं सादि कुब्जं वामनं हुण्डं चेति षट् संस्थानानि भवन्ति। तत्र समा = शरीरलक्षणशास्त्रोक्तप्रमाणलक्षणाविसंवादिन्यः, अस्रयश्चेह चतुर्दिग्विभागोपलक्षिताः शरीरावयवास्ततः समाश्चतस्रोऽस्रयो यस्येति समासान्तात्प्रत्यये समचतुरस्रमिति। किमुक्तं भवति ? यस्य शरीरस्य सर्वेऽप्यवयवाः शास्त्रोक्तलक्षणप्रमाणाव्यभिचारिणो, न तु न्यूनाधिकप्रमाणा अपलक्षणा कुलक्षणा वा तत्समचतुरस्रम्। यद्वा सम नाभेरुपरि अधश्च सकललक्षणोपेतावयवतया तुल्यं तच्च तच्चतुरस्रं च प्रधानं समचतुरस्रम्। अत एव सर्वावयवेषु लक्षणादिभिस्तुल्यत्वात् तुल्यमपीदमुच्यते। अथवा अस्रयः पर्यड्कासनोपविष्टस्य जानुनोरन्तरम्, आसनस्य ललाटोपरिभागस्य चान्तरम्, दक्षिणस्कन्धश्च(स्य) वामजानुनश्च अन्तरम्, वामस्कन्धस्य दक्षिणजानुनश्चान्तरमिति। ततः समा अन्यूनाधिकाश्चतस्रोऽपि अस्रयो यत्र तत्र() समचतुरस्रमिति। तथा न्यग्रोधवत्परिमण्डलं न्यग्रोधमण्डलम्। यथा न्यग्रोधो = वटवृक्ष उपरि सम्पूर्णावयवोऽधस्तनभागे तु न तथा, तथेदमपि नाभेरुपरि विस्तरबहुलं सम्पूर्णलक्षणादिभागम्, अधस्तु हीनाधिकप्रमाणमिति। ___ आदिरिहोत्सेधाख्यो नाभेरधस्तनो देहभागो गृह्यते। तेनादिना शास्त्रोक्तशरीरलक्षणप्रमाणभाजा सह वर्तते यच्छरीरं तत्सादि। सर्वमेव शरीरमविशिष्टेनादिना सह वर्तते इति सादित्वविशेषणान्यथानुपपत्तेरधस्तनकायस्य समचतुरस्रलक्षणं वैशिष्ट्यं लभ्यते। सा हि उत्सेधबहुलं चोच्यते। इदमुक्तं भवति- नाभेरधः परिपूर्णलक्षणादियुतोत्सेधं, नाभेस्तूपरि प्रमाणलक्षणविसंवादीति। कुब्जं मडहकोष्ठम्। यत्र पाणिपादशिरोग्रीवं यथोक्तलक्षणादियुक्तम्, शेषं तु कोष्ठ शरीरमध्यमुरउदरपृष्ठादिरूपं मडह लक्षणादिरहितं न्यूनाधिकप्रमाणं च भवति तत् कुब्जमिति। वामनम् अधस्तनकायमडहम्। यत्र पाणिपादादिकोऽधस्तनकाय उपलक्षणत्वादुपरितनश्च शिरोग्रीवादिको मडहो लक्षणादिविसंवादी भवति, शेषं तु मध्यकोष्ठं यथोक्तलक्षणादियुक्तं तद्वामनम्। अन्ये तु सादि वामनं कुब्जमिति क्रममभिमन्यमानाः कुब्जवामनयोः प्रदर्शितं लक्षणं मडहकोष्ठं वामनमधस्तनकायमडहं कुब्जमिति व्यत्ययेन योजयन्ति। हुण्डं सर्वावयवेषु प्रायो लक्षणादिविनिर्मुक्तं यस्यैकोऽप्यवयवः प्रायो लक्षणादियुक्तो न भवति तत्सर्वत्रासंस्थितं हुण्डमिति। अथ संस्थानमाश्रित्य पर्यायगाथेयम्तुल्लं वित्थडबहुलं, उस्सेहबहुलं च मडहकोठें च। हेडिल्लकायमडहं, सव्वत्थासंठियं हुंडं।। (त्रैलोक्यदीपिका,बृहत्सङ्ग्रहणी-२६४) इति।। ६२ [पू.]।। तदेवं संस्थानषट्कस्याभिधानमाश्रित्य व्युत्पत्तिः प्रादर्शि। सम्प्रति पुनस्तस्यैवाव्युत्पन्नविनेयानुग्रहाय सङ्घपादेकैकमर्थमात्रं पादपञ्चकेनाह [मूल] सव्वत्थ सलक्खणं पढमं ।।६२।। नाभुवरि नाभिअहो, उरपुट्ठिउयरवज्जवयवेसु । करपयसिरगीवविणा, सलक्खणं कत्थवि न छटुं ।।६३।। व्याख्या] सव्वथि त्ति। यत् सर्वशरीरस्य पूर्वापरवामेतरोर्ध्वाधोभागव्यवस्थितेषु समग्रावयवेषु सामुद्रिकशास्त्रोक्तैः प्रमाणैर्लक्षणैर्व्यञ्जनैश्च युक्तं सर्वत्र सलक्षणं तत्प्रथमं समचतुरस्रमिति।। ६२।। नाभु गाहा। इह चतुर्णामपि संहननानां गाथाचतुर्थपादोक्तं सल्लक्षणशब्दं संयोज्य व्याख्या क्रियतेनाभुवरि ति। यन्नाभेरूपरि सर्वावयवेषु सम्पूर्णैः लक्षणैः प्रमाणैश्च युक्तं न पुनर्नाभेरधो विभागेषु (तद्) द्वितीय न्यग्रोधपरिमण्डलम्।

Loading...

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207