________________
मन:स्थिरीकरणप्रकरणम्
शीतोष्णस्पर्शरूपा सा शरीराद्बहिः त्वङ्मात्रेणैव संवेद्या स्पर्शनेन्द्रियविषया अपरैवेति । यद्येवमुदरकोष्टकाभ्यन्तरे कथं शीतोष्णजलान्नादीनां तादृक् तादृक् स्पर्शानुभवः ?, सत्यम्, शरीरमध्ये यत्र यत्र कर्णनासावदनगलोदरकण्ठादिषु शुषिरं तत्र तत्र सर्वशरीराभ्यन्तरतोऽपि स्पर्शनेन्द्रियं वलयाकारं समस्ति, तेन च शीतोष्णस्पर्शसंवेदनेति। अथ प्राणान् पृथिव्यादिष्वाह- एगिंदीत्यादि । सुगमम् ||३२||
[मूल]
सरसणवयणा ते छ उ, सघाण सत्त उसनेत ते अट्ठ । ससवण नव विगलमणे, समणा दस पाण सेसेसु ||३३||
३५
[व्याख्या] त एव पूर्वोक्ताश्चत्वारः प्राणाः रसनेन्द्रियवचनबलसहिताः । विगलमण त्ति। उत्तरपदसम्बन्धाद् द्वीन्द्रियेषु षट् भवन्ति। पुनः षडपि सघ्राणाः सन्तः त्रीन्द्रियेषु सप्त। ते च सप्त चक्षुषा सह चतुरिन्द्रियेष्वष्टौ । तेऽप्यष्टौ श्रोत्रसहिताः अमनस्तिर्यक्पञ्चेन्द्रियेषु नव। तेऽपि नव मनः सहिताः शेषेषु सञ्ज्ञितिर्यङ्नरनारकसुरेषु दश प्राणा भवन्तीति ।। ३३॥
अथायुर्द्वारम्। तच्च जघन्योत्कृष्टत्वाभ्यां द्विविधमपि पृथिव्यादिष्वाह
[मूल] पुढवाइकारसेसुं, लहु अंतमुहूत्तहा निरसुराणं । दससमसहस्स लहुयं, तेतीसयराई गुरुमाउं ॥ ३४॥
[व्याख्या] आयात्यागच्छति प्रतिबन्धकतां स्वकृतकर्मावाप्तनरकादिकुगतेर्निःक्रमितुमनसोऽपि जन्तोरित्यायुः। अस्य च बन्धे लघुसङ्ग्रहणीसूत्रवृत्त्योर्विधेरियं (विधिरयम्)
बंधंति देवनारय, असंखतिरिनर छम्माससेसाऊ । परभवियाउं सेसा, निरुवक्कम तिभाग सेसाऊ ।। (बृहत्सङ्ग्रहणी-३२७)
देवनारका असङ्ख्यातवर्षायुतिर्यङ्नराश्च षण्मासावशेषायुषः सन्तः पारभविकमायुर्बध्नन्ति । शेषाः सङ्ख्यातायुस्तिर्यङ्नरा एकद्वित्रिचतुःपञ्चेन्द्रिया निरुपक्रमायुषो नियमतः स्वजीविततृतीयभागशेषायुषः परभवायुर्बध्नन्ति । सोवक्कमाउया पुण, सेस तिभागेऽहवा नवमभागे । सत्तावीसइमे वा अन्तमुहूत्तंतिमे वा वि ।।
(बृहत्सङ्ग्रहणी - ३२८)
सोपक्रमायुषः पुनरेत एव एकद्वित्रिचतुःपञ्चेन्द्रियाः स्वायुषस्त्रिभागे शेषे परभवायुर्बध्नन्ति । अथवा नवमभागे, त्रिभागस्य च त्रिभागे इत्यर्थः । सप्तविंशतितमभागे वा नवमभागस्यापि त्रिभागरूपे । तथा च प्रज्ञापनायाम्
सिय त्तिभागे। सिय त्तिभागत्तिभागे । सिय त्तिभागत्तिभागत्तिभागे त्ति । (प्रज्ञापना पद - ६, सू. ६८१)
तत्रापि बन्धाच्च्युता नियमादन्तिमेऽन्तर्मुहूर्ते बध्नन्ति । केषुचित्सप्तविंशतितमभागादूर्ध्वमपि त्रिभागकल्पनां तावद् वर्णयन्ति यावदन्त्योऽन्तर्मुहूर्त इति मलधारिसङ्ग्रहणिवृत्तौ । भगवतीवृत्तौ पुनः - नवरं नारकादेवाश्च षण्मासावशेषायुषः सन्तो भवप्रत्ययात् तिर्यङ्मनुष्यायुषी एव कुर्वन्ति । मतान्तरेण तु षण्मासावशेषे उत्कर्षतो जघन्यतोऽन्तर्मुहूर्ते शेषे इति ।
सम्प्रति पृथिव्यादिषु मनुष्यान्तेषु तदेवोत्कृष्टमाह
[मूल] बावीस सत्त समसहस, तिदिण तिदससमसहस बारसमा । उणपन्नदिण छम्मासा, पुव्वकोडि तिपल्ल पल्लुतियं ।। ३५ ।।
[व्याख्या] अत्र प्राकृतत्वात् सूत्रस्य च सूचामात्रनिबन्धनत्वाद् यथायोगं विभक्तिसम्बन्धं पदसम्बन्धं च