SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ३६ मन:स्थिरीकरणप्रकरणम् विधाय समुदायार्थः प्रदर्श्यते। तद्यथा-बावीस त्ति। अत्र समासहस्रशब्दस्य प्रत्येकमभिसम्बन्धाद् द्वाविंशतिसमासहस्राणि पृथिवीकायस्योत्कृष्टमायुः। एवं सप्तसमासहस्राणि जलस्य। त्रीणि दिनानि तेजसः। तिदस त्ति। अत्रापि समासहस्र शब्दस्य प्रत्येकमभिसम्बन्धात् त्रीणि समासहस्राणि वायोः। दशसमासहस्राणि तरूणाम्। द्वादशवर्षाणि द्वीन्द्रियाणाम्। एवमुत्तरार्द्धऽपि त्रिचतुरेन्द्रियासञिसझितिर्यङ्मनुष्याः क्रमेण उत्कृष्टस्यायुषः स्वामित्वेन वाच्याः।।३५।। अथागतिद्वारम्। तत्रागतेस्तत्सहचारित्वाद् गतेश्च स्वरूपं तावत्प्रथमं पादद्वयेनाह[मूल] पुढवाइ इंति जत्तो, सा इह आगइ गई उ जहिं जंति । निरयाइ आगइ चऊ, सन्नितिरिनराण चउरो वि ।।३६।। भूदगतरवो तिरिनरसुरेहिं सेस? तिरियमणुएहिं । गइ पंचह निरतिरिमणुसुरसिवरूवा पण वि मणुए ।।३७।। व्याख्या] इह नानागतिगता अपि जीवाः बद्धागामिपृथिव्यादिभवायुषः सन्तो भविष्यत्पृथिव्यादिपर्याया अप्युपचारात् पृथिव्यादय उच्यन्ते। ततोऽयमर्थः- ये पृथिव्यादयो भविष्यत्पृथिव्यादिपर्याया यस्माद् यस्माद् भवान्तरादागत्य साक्षात् पृथिव्यादित्वेनोच्य(त्पद्य)न्ते तेषां पृथिव्यादीनां तत्तत्पूर्वभवागमनरूपा इहागतिरभिधीयत एव। तथा- गई उ जहिं जंति त्ति। गतिः पुनः त एव पृथिव्यादयो वर्तमानं पृथिव्यादिपर्यायं विमुच्य यस्मिन् यस्मिन् भवान्तरे गच्छन्ति तत्तद्भवान्तरगमनरूपेति। अथ किमभिधानाः कति सङ्ख्याश्चागतयः ? इत्याहनिरयाइ आगइ चऊ त्ति। निरयेभ्य आगतिर्निरयागतिः। एवं तिर्यङ्मनुष्यदेवागतयोऽपि। सम्प्रत्यागतीः पृथिव्यादिषु योजयन् सङ्केपार्थं व्यतिक्रमेणाप्याह- सन्नितिरिनराण चउरो वि। यस्माच्चतसृभ्योऽपि नारकादिगतिभ्य आगत्य जीवाः सझितिर्यक्त्वेन नरत्वेन चोत्पद्यन्ते, पृथिव्यब्वनस्पतिकायिकाः तिर्यनरदेवेभ्य आगत्योत्पद्यन्ते। सेस? त्ति। शेषा अष्टौ तेजोवायुद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियअसझितिर्यक्पञ्चेन्द्रियनरकदेवरूपाः तिर्यग्भ्यो मनुष्येभ्यश्चागत्योत्पद्यन्त इति आगतिरुक्ता। अथ गतिमाह- गइ त्ति। इह गतिर्नारकतिर्यङ्मनुष्यदेवमोक्षभेदेन पञ्चधा। ननु मोक्ष आगतिद्वारे कस्मान्नोक्त ? उच्यते, मोक्षात्पुनरागमनाभावादागतिर्नास्तीति तत्र नोक्तः। पण वि त्ति। मनुष्या मृत्वा पञ्चस्वपि गतिषु गच्छन्तीति पूर्वोक्ताः पञ्चापि गतयो मनुष्ये भवन्तीति गाथार्थः।।३७।। तथा[मूल] सिहिमरवो तिरिगईया, चउगइया सन्नसन्निणो तिरिया । भूदगतरुविगलनारयसुरा य जंति तिरिनरेसुं ।।३८।। व्याख्या] तेजसो वायवश्च तिर्यक्ष्वेव गच्छन्तीत्येकगतिकाः। तथा सझिनोऽसज्ञिनश्च पञ्चेन्द्रियतिर्यञ्चो मृताः सन्तश्चतसृष्वपि गतिषु गच्छन्तीति चतुर्गतिकाः। तथा भूदगतरुविकला नारकाः सुराश्च क्रमेण मृत्वोद्वर्त्य च्युत्वा चाष्टावपि तिर्यक्षु वा मनुष्येषु वा गच्छन्तीति द्विगतिकाः। ननु के जीवा मनुष्यादयः सुरादिषु गच्छन्ति ? के वा सुरादि गतिभ्य उद्वृत्त्येह मनुष्यादिषु समागच्छन्तीति ? बृहत्सङ्ग्रहणिवृत्तौ मलयगिरिणोक्तात् तथा मलधारिसङ्ग्रहणिवृत्तौ च के जीवा देवादिषु गच्छन्तीति? देवादयो वा च्युताः केषु जीवेष्वागच्छन्ति ? १ नरत्वेन इत्यारभ्य तथा पर्यन्तः पाठः भ्रष्ट इति तत्स्थाने प्रपूरितोऽयं पाठः ।
SR No.009261
Book TitleMan Sthirikaran Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Rupendrakumar Pagariya
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages207
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy