________________
मन:स्थिरीकरणप्रकरणम्
३७
इत्येवंरूपात् चतुस्त्रिंशद्वारव्याख्याने सामान्यतयोक्ताद् गत्यागतिलक्षणाद् इहत्यं पुढवाइ इंति जत्तो सा इह आगइ गई उ जहि जंति इत्येवंरूपमागतिगतिलक्षणमन्यथेति तदेतत्कथम् ?, अत्रायमभिप्रायः- इह वृत्तिद्वयेऽपि देवादिभवने गतिर्देवादिच्यवने त्वागतिरभ्यधायि। इह पुनर्देवादिभवने आगतिर्देवादिच्यवने तु गतिरुक्तेति तत् कथमयं न विरोध ? इति, सत्यम्, इहत्यं लक्षणं जीवाभिगमानुरोधादुक्तम्। तथा च तत्प्रथमप्रतिपत्तौ बादरपृथ्वीकायदण्डके
ते णं जीवा कइगइया ? कइआगइया ? गोयमा ! दुगइया तिआगइया। (जीवाभिगम प्र.१, सू.१५) तथा बादर-अप्कायदण्डकेऽपिनवरं थिवुगसंठिया पन्नत्ता। सेसं तं चेव जाव दुगइया तिआगइया। (जीवाभिगम प्र.१, सू.१६) तथा बादरवनस्पतिकायदण्डकेऽपिठिई जहन्नेणं अंतोमुहत्तं उक्कोसेणं दसवाससहस्साइं जाव दुगइया तिआगइया।
(जीवाभिगम प्र.१, सू.२१) तथा तेजसां वायूनां च सूक्ष्मबादरदण्डकद्वयेऽपि- एक्कगइया दुआगइय त्ति।
(जीवाभिगम प्र.१, सू.२५,२६) तथा द्वित्रिचतुरिन्द्रियदण्डकेषु- दुगईया दुआगइय त्ति। (जीवाभिगम प्र.१, सू.२८,२९,३०) तथा सम्मूर्च्छजपञ्चेन्द्रियतिर्यग्योनिदण्डकेषु पञ्चस्वपि जलचरादिषु- चउगइया दुआगइया।
(जीवाभिगम प्र.१, सू.३५,३६) तथा सञिपञ्चेन्द्रियजलचरादि दण्डकपञ्चकेऽपि- चउगइया चउआगइय त्ति। (जीवाभिगम प्र.१, सू.३८) तथा मनुष्यदण्डकेऽपिते णं भंते ! जीवा कइगइया? कइआगइया? गोयमा! चउआगइया पंचगइया।
(जीवाभिगम प्र.१, सू.४२) तदत्र यदुक्तम्- भूदगतरूणां द्वे गती तिस्र आगतयः, तेजोवायूनां च एका गतिर्दै आगती, तथा सझिनां चतस्रो गतयो द्वे आगती, तथा मनुष्याणां पञ्च गतयश्चतस्र आगतय इत्यादिकं तवृत्तिद्वयस्यापि व्याख्यानेन सह विरुद्ध्यते। यतो वृत्तेरभिप्रायेण अत्राप्येवं व्याख्येयं स्याद्- यदुत के जीवाः पृथिव्यादिषु गच्छन्तीति गतिस्तथैते पृथिव्यादयः पृथिव्यादित्वं विहाय क्वागच्छन्तीत्यागतिस्ततश्चैवं व्याख्यायमाने पृथिव्यादीनां त्रिगतित्वं द्विआगतित्वं च प्राप्नोति। अथ चैतेषां जीवाभिगमे द्विगतित्वं त्रि-आगतित्वं भणितमस्तीति स्फुट एव विरोधस्तस्मादत्रेत्थं सङ्ग्रहणिवृत्त्योर्विपर्ययेण गत्यागत्योर्लक्षणं प्रोक्तमिति।।३८।।
अथ कुलद्वारम्। परं लाघवार्थं योनिकुलद्वयस्यापि प्रथमं तावल्लक्षणमाह- युवन्ति तैजसकार्मणशरीरवन्तः सन्तो जीवा औदारिकादिशरीरप्रायोग्यपुद्गलस्कन्धैर्मिश्रीभवन्त्यास्विति योनय = उत्पत्तिस्थानानि। ताश्च प्रतिजीवराशि वर्णगन्धरसस्पर्शभेदादनेकविधास्ता अपि व्यक्तिरूपा न गृह्यन्ते। व्यक्तीनामानन्त्येन परिगणयितुमशक्यत्वात्, किन्तु जातिरूपाः। ततोऽनन्ता अपि व्यक्तयः समानवर्णगन्धरसस्पर्शा एका योनिजातिः। उक्तं चसमवन्नाइ समे या, बहवो वि हु जोणिभेयलक्खा उ। सामण्णा धिप्पंतीह, एक्कगजोणीए गहणेणं।।
(प्रवचनसारोद्धार-९७०)