________________
मन:स्थिरीकरणप्रकरणम्
सम्प्रति कुलानि। तानि च योनिप्रवहानि। तथा ह्येकस्यामपि योनावनेकानि कुलानि भवन्ति। यथा छगणयोनौ कृमिकुलम्, कीटककुलम्, वृश्चिककुलमित्यादि। बृहल्लघुसङ्ग्रहणिवृत्त्योरेतावदेव योनिकुलयोर्लक्षणमुक्तम्, परमेतदतिसङ्क्षिप्तमिति कृत्वा व्युत्पन्नमतीनां सङ्क्षिप्तरुचीनां चोपकारि ततः प्रपञ्चितज्ञशिष्यावबोधाय अयमेवाऽत्र किश्चित् सविस्तरः सयुक्तिकः सदृष्टान्तश्चतुर्भङ्गीसहितश्च गाथाचतुष्टयेन प्रदर्श्यते
[मूल] उप्पत्तिठाण जोणी, कुलाणि उप्पज्जमाण तणुभेया ।
__ जोणेगत्तपुहत्तं, वन्नाइचउविसेसेहिं ।।३९।। व्याख्या] इह येषामेकेन्द्रियादिजीवानां यस्मिन् यस्मिन्नाधारद्रव्ये कृमीणामिवच्छगणादौ उत्पत्तिर्भवति तत्तदाधारद्रव्यं तेषां योनिः। येषामपि च सूक्ष्मपृथिव्यादीनां बादराणामपि च जलवायुविधुदुल्कादीनामुत्पातवृष्ट्यादौ मत्स्योदरादीनां च तथाविधोपलक्ष्यमाणद्रव्याधारत्वं न दृश्यते, परं तेषामपि निजनिजाधारक्षेत्रे यानि तान्यपि पुद्गलद्रव्याण्यवश्यंभावेन सन्ति तान्येव तेषां योनिर्भवत्येवेति। अत एवोक्तम्
अञ्जनचूर्ण-पूर्ण-समुद्रकवन्निरन्तरं पुद्गलद्रव्यनिचितो लोक इति। ()
अत एव च शीतोष्णद्व(ष्णोभ)यस्पर्शवता योनित्रयेण सर्वजीवोत्पत्तिस्थानसङ्ग्रहः,सर्वत्र शीतादिस्पर्शवत्पुद्गलसद्भावात्।
अथ कुलस्वरूपमाह- कुलाणीत्यादि। इह पूर्वोक्तस्वरूपासु योनिषु जीवा उत्पद्यन्ते तेषां ये तनुभेदास्तानि कुलानि। अत्रार्थे निदर्शनम्- यथा एकस्मिन्नपि छगणे उत्पद्यमानानां जीवानां एकेन्द्रियेषु नानाविधानां तृणप्ररोहाणां विचित्राणां च धान्याकुराणाम्, द्वीन्द्रियेषु च कृमिगड्डरकेलिक(का)मेहरकप्रभृतीनाम्, त्रीन्द्रियेषु च कीटिकागर्दभकोद्देहिकाघृततैलिकागुल्मीमर्कोटकमटककुन्थुकीटकादीनाम्, चतुरिन्द्रियेषु वृश्चिककुत्तिकादंशम-शकभ्रमरककंसारिकाप्रमुखाणाम्, पञ्चेन्द्रियेषु गृहगोधिकाम्रक्षणिकाहिरूपादीनां प्रतिजाति ये तनूनां नानाविधैर्वर्ण-गन्धरसस्पर्शेर्विशेषिता नानाप्रकारा आकृतिविशेषास्ते सर्वेऽपि पृथक् पृथक् कुलानीति।
अथ योनीनामेव कञ्चिद्विशेषमाह-जोणे इत्यादि। योनीनां पूर्वोक्तस्वरूपाणां कासाञ्चित् पृथक्त्वं कासाञ्चित बह्वीनामप्येकत्वं भवतीति। कथमित्याह- वन्नेत्यादि। परस्परविभिन्नैर्वर्णादिभिर्वयोविशेषैश्च योनीनां पृथक्त्वम्। समानरूपैः पुनर्वर्णादिभिरेकत्वमिति।।३९।। अत्रार्थे मनुष्यीस्त्रीदृष्टान्तमाह
[मूल] एत्तो च्चिय बहुगीण वि, एगा जोणी इगित्थिए णेगा ।
___ जोणिकुले चउभंगो, इगबहुवन्नाइजाइकओ ।।४०।। व्याख्या] यतः पूर्वोक्तयुक्त्या योनीनामेकत्वबहुत्वे अत एव बह्वीनामपि मनुष्यीणां समानवर्णादिका एकैव योनिर्गण्यते। तत एव च समयक्षेत्रवर्तिनीनां अनेककोटीकोटिसङ्ख्यानामपि स्त्रीणां चतुर्दशैव लक्षा योनीनामुक्ता। अपरं च न केवलं वर्णादिभेदाद् बह्वीनां बहुयोनित्वं किन्तु कदाचिदेकस्या अपि सरुक्-नीरुक्सौस्थ्य-दौस्थ्यतारुण्यार्द्धजरतीत्वादिविशेषाद् बहुयोनित्वमपि स्यादिति। तथा योनिकुलयोश्च चतुर्भङ्गी। एका योनिरेकं कुलमित्यादि। कथमित्याह- एगेत्यादि। एकबहुभिर्वर्णादिभिरेकबह्वीभिश्च जातिभिः कृत इति।।४।।
अथ चतुर्भङ्गीमेवोदाहरन्नाह