________________
मन:स्थिरीकरणप्रकरणम्
३९
[मूल] पढमो जह इगछगणे, जीवा इगजाइ एगवन्नाई ।
बितिओ' तम्मि वि बितिचउबहुजाई बहुगवण्णाई ॥४१।। व्याख्या] सुगमा। नवरं द्वितीयो भङ्गः तस्मिन्नेव छगणे द्वित्रिचतुरिन्द्रियाणां बढ्यो जातयः प्रतिजाति च बहवो वर्णगन्धरसस्पर्शाकृतिभेदाः।।४१।।
[मूल] विविहछगणेसु तइओ समवन्नाई समाणजाइजीया ।
तुरिओ तेसु वि णेगे बहुजाई णेगवण्णाई ।।४२।।। व्याख्या] सुगमा। नवरं णेगे इति। अनेके जीवाः। अथ योनिप्रसङ्गात् संवृतादिको द्वादशविधोऽपि योनिभेदो लघुसङ्ग्रहणीतः प्रदर्श्यते।
संवुडजोणि सुरेगिदिनारया वियड विगलगब्भुभया। (लघुसङ्ग्रहणी)
सुराश्चतुर्विधाः, एकेन्द्रिया पृथिव्यप्तेजोवायुवनस्पतयो, नारकाश्च पृथ्वीसप्तकवर्तिनः संवृतयोनयः। तत्र देवानां संवृता योनिः, देवशयनीये देवदूष्यान्तरितानां तेषामुत्पादात्। एकेन्द्रियाणां संवृता योनिः स्पष्टमनुपलक्ष्यमाणत्वात्। नारकाणां तु संवृता योनिः। संवृतगवाक्षकल्पेषु घटिकालयेषूत्पादात्। विकलाः द्वित्रिचतुरिन्द्रियसम्मूर्च्छिमपञ्चेन्द्रिया तिर्यड्नरा विवृतयोनयः, तेषामुत्पत्तिस्थानस्य जलाशयादेः स्पष्टमुपलक्ष्यमाणत्वात्। गर्भजाः पञ्चेन्द्रियतिर्यड्नराः संवृतविवृतोभययोनयः। गर्भस्य संवृतविवृतरूपत्वात्। गर्भो ह्यन्तः स्वरूपतो नोपलभ्यते बहिस्तूदरवृद्ध्यादिनोपलक्ष्यत इति। तथा
अचित्तजोणि सुरनिरय, मीसं गब्भे तिभेय सेसाणं। सीउसिण निरयसुर गब्भमीस ते उसिण सेस तिहा।। (बृहत्सङ्ग्रहणी-३२४)
सुराणां नैरयिकाणां च योनिरचित्ता = सर्वथा जीवप्रदेशविप्रमुक्ता। यद्यपि च सूक्ष्मैकेन्द्रियाः सकललोकव्यापिनस्तथापि न तत्प्रदेशैरुपघातपुद्गला अन्योन्यानुगमेन सम्बद्धा इत्यचित्तैव तेषां योनिः।
___ गब्भे त्ति। गर्भजतिर्यड्नराणां योनिः मिश्रा सचित्ताचित्तरूपा। तथाहि- ये शुक्रमिश्राः शोणितपुद्गला योन्याऽऽत्मसात्कृतास्ते सचित्ता, अन्ये त्वचित्ताः। शेषाणां देवनारकगर्भजतिर्यड्नरव्यतिरिक्तानां एकद्वित्रिचतुरीन्द्रियसम्मूर्च्छिमतिर्यड्नराणां योनिस्त्रिभेदा सचित्ता अचित्ता मिश्रा च। तत्र जीवति गवादावुत्पद्यमानानां कृम्यादीनां सचित्ता। अचित्ते काष्ठे घुणादीनामचित्ता। सचित्ताचित्ते काष्ठे गोक्षतादौ घुणकृम्यादीनामेव मिश्रेति।।
तथा नैरयिकाणां योनिः शीता उष्णा च तत्राद्यासूष्णवेदनासु तिसूषु पृथ्वीषु शीता। चतुर्थ्यां बहुषूपरितनेषूष्णवेदनेषु नरकावासेषु शीता, अधः स्तोकेषु शीतवेदनेषूष्णा। पञ्चम्यां बहुषु शीतवेदनेषूष्णा स्तोकेषूष्णशीता। षष्ठी-सप्तम्योश्च शीतवेदनयो रकानां योनिरूष्णैव शीतयोनिकानां घुष्णवेदनाऽत्यन्तदुःसहा उष्णयोनिकानां तु शीतवेदनेति।
तथा सुराणां गर्भजतिर्यड्नराणां मिश्रा शीतोष्णरूपोभयस्वभावास्तदुत्पादक्षेत्रस्य शीतोष्णस्पर्शपरिणतत्वादिति। नैकान्तेन शीतं नाप्युष्णं किन्त्वनुष्णशीत(ष्णाशीतं) तदुत्पादक्षेत्रमिति भावः। तेजस्कायिकानामुष्णा,
१ बीओ तम्मि वि इति मूले । २ व्याख्याकर्तुः टिप्पणी - नरकनिःकुटा (निष्कुटाः) संवृतगवाक्षकल्पास्तेषु च जातास्ते वर्द्धमानमूर्तयो, तेभ्यः पतन्ति शीतेभ्यो
निःकुटेभ्य (निष्कुटेभ्यः) उष्णेषु नरकेषु उष्णेभ्यस्तु शीतेष्विति ।भ.श.३२।