________________
मन:स्थिरीकरणप्रकरणम्
उष्णस्पर्शपरिणत एव क्षेत्रे तेषामुत्पत्तेः। शेषाणां पृथिव्यम्बुवायुवनस्पतिविकलेन्द्रियसम्मूर्च्छिमतिर्यड्नराणां त्रिधा। तत्र केषाञ्चिच्छीतस्पर्शपरिणतक्षेत्रोत्पन्नानां शीता। केषाञ्चिदुष्णस्पर्शवत्प्रदेशजातानां तूष्णा, केषाश्चिच्छीतोष्णस्पर्शान्वित-स्थानसम्भूतानां पुनः शीतोष्णा योनिरिति।
अथ मनुष्याणां योनिविशेषमाहहयगब्भसंखवत्ता, जोणि कुम्मुन्नयाए जाणंति। अरिह हरि चक्कि रामा, वंसीपत्ताए सेसनरा।।
(बृहत्सङ्ग्रहणी-३२८) त्रिविधा योनिर्मनुष्याणाम्। तद्यथा- शावर्ता कूर्मोन्नता वंशीपत्रा च। तत्र शङ्खस्येवावर्तो यस्यामिति शङ्खावर्ता। कूर्मपृष्ठिमिवोन्नता कूर्मोन्नता। शङ्खयुक्तवंशीपत्रद्वयाकारत्वाद् वंशीपत्रा। तासु च शङ्खावर्ता हतगर्भा, नियमादस्यामुत्पन्नोऽपि गर्भो निष्पत्तिं न याति, अतिप्रबलकामाग्निपरितापतो ध्वंसत इति वृद्धि(द्ध)वादः। इयं च योनिः स्त्रीरत्नस्य बोद्धव्या। तथा च प्रज्ञापना
संखावत्ता णं जोणी इत्थिरयणस्स। (प्रज्ञापना पद-९, सू.१५३, म.पृ.-२२८)
तथाऽर्हन्तो वासुदेवाश्चक्रवर्त्तिनो बलदेवाश्च कूर्मोन्नतायामेव जायन्ते, वंशीपत्रायां तु शेषनराः सामान्यमनुष्या एव जायन्त इत्यर्थः।।४२।। अथ कुलानां सर्वसङ्ख्यां पृथिव्यादिषु तद्योजनां चाहमूल] कुलएगकोडि कोडीसनवई कोडिलक्खपन्नासं ।
कोडिसहस्सा तत्थिगविगलेसुं कोडिलक्खकमा ।।४३।। व्याख्या] कुलानां पूर्वोक्तस्वरूपाणां सर्वसङ्ग्रहेण एका कोटाकोटीः सप्तनवतिकोटिलक्षाणि पञ्चाशच्च कोटिसहस्राणि। १९७५ शून्य ११(१९७५०००००००००००)। तथेत्यादि। तत्रेति तेषां कुलानां विषयविभागे क्रियमाणे एकेन्द्रियेषु पञ्चसु विकलेषु च त्रिषु कुलकोटिलक्षा क्रमेण उत्तरगाथार्दोक्तसङ्ख्याका भवन्तीति।।४३।। ताने(मे)व सङ्ख्यामाह
मूल] बारस सत्त ति सत्तग, अडवीस सत्त अट्ठ नव चेव ।
___मुच्छियरतिरिसु दोसु, सड्डतिपन्ना जओ सुत्ते ।।४४।। व्याख्या] पूर्वार्द्धं सुगमम्। मुच्छीत्यादि। सम्मूर्च्छिमेषु इतरेषु च गर्भजेषु तिर्यक्षु दोसु वि त्ति। द्विविधेष्वपि सार्द्धास्त्रिपञ्चाशत् कुलकोटिलक्षा भवन्तीति। नन्वत्र कुलकोटिलक्षाणां उत्तरत्रापि योनिलक्षाणाम् असचिसञ्चितिर्यक्षु किमिति विषयविभागो न प्रदर्श्यते ? इत्याह- जओ इत्यादि। यस्मात् सूत्रे = प्रज्ञापनायां न दृष्ट इति।।४४।। एतदेवाह[मूल] कुलकोडिजोणिलक्खा, गब्भियरतिरीण पिहु पिहु न उत्ता ।
तेणेह वि न विसेसो, घडंति पुण दोण्हवि सव्वे ।।४५।। व्याख्या] कुलानां योनीनां च गर्भजेतरतिर्यक्षु न कोऽपि प्रज्ञापनायां पृथक् पृथग् विभागः। किन्त्वेतावदेव तत्राभाणि जलचरदण्डकपर्यन्ते