________________
मन:स्थिरीकरणप्रकरणम्
४१
से तं सुंसुमारा जे यावन्ने तहप्पगारा ते समासओ दुविहा पन्नत्ता। तं जहा- संमुच्छिमा य गब्भवक्कंतिया य। तत्थ णं जे ते संमुच्छिमा ते सव्वे नपुंसगा। तत्थ णं जे ते गब्भवक्वंतिया ते तिविहा पन्नत्ता। तं [जहा-] इत्थी पुरिसा नपुंसगा। एएसि णं एवमाइयाणं जलचरपंचेंदियतिरक्खजोणियाणं पज्जत्तापज्जत्ताणं अद्धतेरसजाइकुलकोडिजोणिप्पमुहसयसहस्सा भवंतीति मक्खायं।
(प्रज्ञापना पद-१, सूत्र-६७/६८) तथा स्थलचरदण्डकपर्यन्तेऽपि
से तं सणप्फया जे यावन्ने तहप्पगारा ते समासओ दुविहा पन्नत्ता। तं जहा- समुच्छिमा य गब्भववंतिया य। तत्थ णं जे ते संमुच्छिमा ते सव्वे नपुंसगा। तत्थ णं जे ते गब्भवक्वंतिया ते तिविहा पन्नता। तं जहा-] इत्थी पुरिसा नपुंसगा। एएसि णं एवमाइयाणं थलयरपंचेंदियतिरक्खजोणियाणं पज्जत्ताणं दसजाइकुलकोडिजोणिप्पमुहसयसहस्सा भवंतीति मक्खायं।
(प्रज्ञापना पद-१, सूत्र-७४) अयं च जे यावन्ने तहप्पगारा। (प्रज्ञापना पद-१, सूत्र-७४) इत्यादिरालापकः समग्रोऽपि उर:परिसर्पसूत्रेऽपि भुजपरिसर्पसूत्रेऽपि खचरसूत्रेऽपि सम्मूञ्जेजगर्भजमिश्रीभावेन एकरूप एव समस्ति, न पुनः किमपि पार्थक्यमुक्तम्। नवरं कुलकोटिसङ्ख्यायां दशनवद्वादशरूपो विशेष एवोक्तः प्रज्ञापनाप्रथमपदे। (प्रज्ञापना पद-१, सूत्र-६९-९१) ___अथ प्रस्तुतम् उच्यते। तेणेह वीत्यादि। यस्मात् कारणात् प्रज्ञापनायां गर्भजेतरतिर्यक्षु कुलकोटीनां योनिलक्षाणां च सङ्ख्यायां न पार्थक्यमुक्तं तेन कारणेनेहापि प्रकरणे विशेषो नाभाणीति। घटन्ते पुनः सर्वे कुलकोटिलक्षाः योनिलक्षाश्च यथास्वमुक्ताः पश्चेन्द्रियतिर्यगाश्रिताः द्वयेषामपि गर्भजानां सम्मूर्च्छजानां च तिरश्चामिति।।४५।। अथ यथैते सार्द्धास्त्रिपञ्चाशत् कुलकोटिलक्षाः पञ्चेन्द्रियतिरश्चां भवन्ति तथाह[मूल] अधतेर बार दस दस, नव जलविथलोरुभुज त्ति वण्णेयं ।
सड्डाह मणुनिर सुरे, बारस पणवीस छव्वीसा ।।४६।। व्याख्या] अत्र सूचकत्वात् सूत्रस्य प्राकृतत्वाच्च पदैकदेशेऽपि पदसमुदायोपचाराच्च यथायोग्यं पदान्तरसम्बन्धं विभक्तिसम्बन्धं च कृत्वार्थोऽभिधीयते। अर्द्धत्रयोदश-द्वादश-दश-दश-नवकुलकोटिलक्षा यथासङ्ख्येन भवन्तीति सम्बन्धः। केषामित्याह- जल त्ति। जलचारिण(णाम्)। वि त्ति। वियच्चारिणं(णाम्)। थल त्ति। स्थलचारिणाम्। उर त्ति। उर:परिसर्पाणाम् । भुज त्ति। भुजसाणाम्। एतेषां च मीलने सड्ड इत्युत्तरपदसंयोजने च सा स्त्रिपञ्चाशत् कुलकोटिलक्षा तिरश्चामेवं भवन्तीति सण्टकः। सड्डाह त्ति। अत्र सार्द्धति पदं पूर्वार्द्ध योजितमेव। अथेत्युत्तरवाक्योपक्षेपे मणु (इ)त्यादि। मनुजनारकसुरेषु क्रमेण द्वादशपञ्चविंशतिषड्विंशतिकुलकोटिलक्षा भवन्तीति।।४६।। अथ योनिद्वारम्। तासां च स्वरूपं पूर्वं कुलद्वारे वर्णितम्। अथ तासां सर्वसङ्ख्यां पृथिव्यादियोजनां चाह[मूल] चुलसीइ जोणिलक्खा, सग सग पुढवीजलग्गिपवणेसु ।
तरुसु चउवीस जं दस, चउदस पत्तेयइयरेसु ॥४७॥ बितिचउरिंदिसु दो दो, चउरो दुह तिरिसु चउदस नरेसु । चउरो चउरो नारय, देवेसुं जोणिलक्खा उ ।।४८।।