________________
मन:स्थिरीकरणप्रकरणम्
[व्याख्या] गाथाद्वयमपि सुगमम् ।।।४७।।४८।। अथ वेदद्वारम्[मूल] इत्थी पुरिस नपुंसग, वेया तिन्नी कमेण तेसुदए ।
इत्थीए पुरिसोवरि, अभिलासो फुफुयग्गिव्व ।।४९।। इत्थिं पड़ पुरिसस्स वि, रागो सुक्खतणपूलजलणसमो ।
महनगरदाहसरिसो, उभयभिलासो नपुंसस्स ।।५०।। व्याख्या] वेद्यत इति वेदः। तत्र यदुदये स्त्रियः पुंस्यभिलाषः पित्तोदये मधुरद्रव्याभिलाषवत् स फुम्फुकाग्निसमः स्त्रीवेदः। यदुदयाच्च पुंसः स्त्रियामभिलाषः श्लेष्मोदयेऽम्लाभिलाषवत् स शुष्कतृणपूलज्वालासमानः पुंवेदः। यदुदये नपुंसकस्योभयोरपि स्त्रीपुरुषयोरभिलाषः श्लेष्म-पित्तयोरुदये मज्जिका (मद्यका)भिलाषवत् स महानगरदाहाग्निसदृशः सर्वावस्थासु सर्वप्रकारं तीव्रमदनदाहद(क)त्वात् नपुंसकवेद इति।।५।।। अथ वेदान् पृथिव्यादिषु योजयन् व्यतिक्रमेणाप्याह[मूल] सन्नितिरिनर तिवेया, असन्नि संठागिइ तिवेया वि ।
देवा पुमित्थिवेया, नपुवेया निरयइगविगला ।।५१।। व्याख्या] प्रथमांद्भि(प्रथमार्द्धः) सुगमः। असन्नीत्यादि। इह प्रज्ञप्त्यादिसूत्रेष्वसज्ञिनः सर्वेऽपि सामान्येन नपुंसकवेदा एवोक्ताः। कार्मग्रन्थिकैः पुनराकृत्या = बहिःशरीरावयवापेक्षया त्रिवेदा अप्यभिधीयन्ते। तथा च तद्वचः
पुमित्थवेए चरिमचउरो त्ति। पुरिसवेए इत्थीवेए चरमचउरो। असन्नी सन्नी य। पजत्तापजत्तभेएण चउरो। असन्नि-पजत्तापज्जत्तगाण कह पुरिसित्थिवेय संभवो? जओ नपुंसगा एव सुत्ते पढिया, भण्णइ, आकारमात्रमाश्रित्य। इति षडशीतिकचूर्णिः।
तथा- यद्यपि च सिद्धान्तेऽसझिपर्याप्तोऽपर्याप्तो वा सर्वथा नपुंसक एवोक्तः; तथा चोक्तं प्रज्ञप्तौ
ते णं भंते! असञि(असन्नि)पंचेंदियतिरिक्खजोणिया किं इत्थिवेयगा पुरिसवेयगा नपुंसगवेयगा? गोयमा! नो इत्थिवेयगा नो पुरिसवेगा नपुंसगवेयग त्ति।
तथापीह स्त्रीपुंसलिङ्गाकारमात्रमङ्गीकृत्य स्त्रीवेदे पुंवेदे च असज्ञि निर्दिष्ट इत्यदोषः। तदुक्तं पञ्चसङ्ग्रहमूलटीकायाम्-यद्यपि चासज्ञिपर्याप्तापर्याप्तौ नपुंसकौ तथापि स्त्रीपुंसलिङ्गाकारमात्रमङ्गीकृत्य स्त्री-पुंसायु(यु)क्ताविति। (षडशीतिकबृहद्वृत्तिः, पञ्चसङ्ग्रहमूलटीका) इति षडशीतिकबृहद्वृत्तिः। शेषं गाथापादद्वयं सुगमम्।।५१।। अथ कायस्थितिद्वारम्[मूल] पुढवाइएगकाए, पुण पुण उप्पत्ति एस कायठिई ।
सा लहु तिरिगिहदसगे, नरे य अंतमुहुभवजुम्मे ।।५२।।
१ व्याख्याकर्तुः टिप्पणी - नवरं प्रथमगाथायां सप्तसप्तेति वीप्साभिधायि ततो पृथिव्यप्तेजोवायुचतुःष्वपि प्रत्येकं सप्तसप्तेति कार्यम्, ततः पृथिव्यबग्निवायुचतुर्ध्वपि प्रत्येकं सप्त सप्तेति । २ व्याख्याकर्तुः टिप्पणी, परिमलनदाहरत्वात्। ३ व्याख्याकर्तुः टिप्पणी-अवाच्या।