________________
मन:स्थिरीकरणप्रकरणम्
४३
व्याख्या] पृथिव्यादिके एकस्मिन्नेव विवक्षितकाये एकस्यैव जीवस्य मृत्वा मृत्वा नैरन्तर्येण पुनः पुनस्तत्रैव काये उत्पत्तिः कायस्थितिः। सा च द्विधा- जघन्या उत्कृष्टा च। तत्र लघ्वी पृथव्यप्तेजोवायुवनस्पतिद्वित्रिचतुष्के मनुष्यगृहैवै(हे चै)कादशे अन्तर्मुहूर्तरूपा। भवजुम्म त्ति। भवद्वयगमे सति भवतीति। यतः कायस्थितिर्जघन्यतोऽपि निरन्तरेण भवद्वयेन, उत्कृष्टतस्तु क्रमेण पृथिव्यप्तेजोवायूनां वनस्पतीनां विकलत्रिकस्य असज्ञिनां सज्ञिपञ्चेन्द्रियतिर्यङ्मनुष्याणां च अव्यवहितैरसङ्ख्येयैरनन्तैः सङ्ख्येयैः सप्तभिः सप्ताष्टभिश्च भवैर्वक्ष्यमाणसङ्ख्यास्वरूपा भवतीति।।५२।। अथ तामेवाह[मूल] गुरु भूदगग्गिपवणे, असंख उसप्पिणी उ कायठिई ।
तरुसु अणंता बितिचउरिंदिसु संखिज्जसमसहसा ।।५३।। व्याख्या] इह यथा ‘पञ्चभिरहोभिरिदं कर्तव्यं पञ्चरात्रेण च' इत्युक्ते दिवसरजन्योः परस्परमविनाभावात् पञ्चाहोरात्राणि लभ्यन्ते। एवमत्राणि(पि) सर्वत्र उत्सर्पिण्य इत्युक्ते सहभावादवसर्पिण्योऽपि लभ्यन्त एव। ततोऽयमर्थः- पृथव्युदकाग्निपवनानां चतुर्णामपि पृथक् पृथग् असङ्ख्याता उत्सर्पिण्यवसर्पिण्यः, तथा तरुषु अनन्ताः, द्वित्रिचतुरिन्द्रियेषु प्रत्येकं सङ्ख्यातानि वर्षसहस्राणि उत्कृष्टा कायस्थितिरिति।।५३।।
अथैतासामुत्सर्पिण्यवसर्पिणीनां पृथिव्याद्याश्रितं यदसङ्ख्यातत्वम्, यच्च वनस्पत्याश्रित्यमानन्त्यं तत्रासङ्ख्येयस्यासङ्ख्येयभेदत्वाद् अनन्तस्य चानन्तस्वरूपत्वाच्च कियत्प्रमाणे अत्रैते इत्याह
[मूल] समयपएसवहारे, असंखलोगे हरंति जावइया ।
तत्तिय असंखणंता, ऊऽणंतलोगेऽह ताहिं तु ।।५४।। व्याख्या] एकेकैन समयेन यत्रैकेको नभःप्रदेशोऽपहीयते स समयप्रदेशापहारः। तेन च समयप्रदेशापहारेण यावतीभिरुत्सर्पिण्यवसर्पिणीभिरसङ्ख्येया लोका अपह्रीयन्ते तावत्प्रमाणम् अत्रासामसङ्ख्यातत्वम्। उक्तं च जीवाभिगमद्वितीयदशविधप्रतिपत्तौ
पुढवीकाइएणं भंते ! पुढविकाइय त्ति कालओ केवचिरं होइ ? गोयमा ! जहण्णेणं अंतोमुहत्तं उक्कोसेण असंखेनं कालं। असंखिजाउ उसप्पिणिओ कालओ, खित्तओ असंखेज्जा लोगा। एवं आउकाइए वि, तेउकाइए वि, वाउकाइए वि य। (जीवाभिगम प्र.५, सूत्र-२२८)
वनस्पत्याश्रितं यच्चासामानन्त्यं तदपि समयप्रदेशापहारेण यावतीभिस्ताभिरनन्ता लोका अपह्रीयन्ते तावत्प्रमाणं ज्ञातव्यमिति। अत एवाह- अणंता उ इत्यादि। अनन्ताः पुनस्तावत्प्रमाणा यावत्योऽनन्तान् लोकानपहरन्ति। अथेत्यर्थान्तरसमुच्चये पदम् उत्तरगाथार्द्धन सह सम्बन्ध्य व्याख्यास्यते।।५४।। तच्चेदम्
[मूल] पोग्गलपरट्ट ते पुण, आवलियसमयअसंखभागंमि । व्याख्या] ततोऽयमर्थः- ताभिः पुनरनन्ताभिरुत्सर्पिण्यवसर्पिणीभिः पुद्गलपरावर्ता भवन्ति। ते चावलिकासमया (य)राशेरसङ्ख्येयभागे यावन्तः समयास्तावत्प्रमाणाः। उक्तं च
वणस्सइकाइएणं भंते ! वणस्सइकाइय त्ति कालओ केवचिरं होइ ? जहन्नेणं अंतोमुहत्तं उक्कोसेणं अणंतं कालं। अणंताउ उस्सप्पिणिओसप्पिणीओ कालओ, खेत्तओ अणंता लोगा, असंखिज्जा