________________
मन:स्थिरीकरणप्रकरणम्
पोग्गलपरियट्टा (ते णं पोग्गलपरियट्टा) आवलियाए असंखेज्जइभागे। (जीवाभिगम प्र.५, सूत्र-२२८, जीवाभिगम प्र.१, सूत्र-४३) इति जीवाभिगमे।।५४ पू.।। अथ क्रमप्राप्तामसज्ञिकायस्थितिं गाथोत्तरार्द्धनाह
मूल] असन्नीतिरियाणंय, पुव्वकोडीओ सत्तेव ।।५।। व्याख्या] असज्ञिपञ्चेन्द्रियतिरश्चामुत्कृष्टा कायस्थितिः सप्तैव पूर्वकोटयो, यत उत्कृष्टायाः कायस्थितेर्भण्यमानत्वात्। सप्ताप्यसज्ञिभवा निरन्तरा उत्कृष्टायुष एव गृहीताः। असचिनो ह्युत्कृष्टतोऽपि पूर्वकोट्यायुष एव भवन्ति। तथा यद्यप्युत्कर्षतस्तिर्यक्पञ्चेन्द्रियाणां नैरन्तर्येणाष्टौ भवा भवन्ति तथाप्यष्टमभवोऽवश्य युगलधार्मिकेषु सज्ञिरूप एव भवतीति।।५५।।
तथा
[मूल] सन्निसु तिरिसु नरेसु य, सतिपल्ला सत्तपुव्वकोडीओ ।
भवठिइ जा सुरनरए, दुहावि सच्चेव कायठिई ॥५६।। व्याख्या] इह सञिपञ्चेन्द्रियतिरश्चां मनुष्याणां च ये सप्ताष्टौ भवा कायस्थितिरुक्ता तत्र सप्तसङ्ख्यातायुर्भवाः। तेषु चोत्कृष्टेषु सप्तपूर्वकोटयो अष्टमस्त्ववश्यम् असङ्ख्यातायुर्भवो भवतीति। स चोत्कृष्टस्त्रिपल्य इति। तथा नारकसुराणां यका जघन्या उत्कृष्टा च भवस्थितिः सैव कायस्थितिः, न पुनर्भवद्वितयादिका। यतस्तावनन्तरमेव न निजनिजभवे स्यातामिति।।५६।।
अथ संहननद्वारम्। तल्लक्षणं चेदम्-संहन्यन्ते सह विशेषं प्राप्यन्ते शरीरास्थ्यवयवाः कपाटफलकानीव लोहपट्टिकादिनिचयेन तत्संहननम् अस्थिरचनाविशेषात्मकः शरीरे सन्धेर्बन्धः। स चौदारिकशरीर एव तद्व्यतिरिक्त-शरीरेष्वस्थ्यभावात्। तच्च षोढेत्याह
[मूल] वजरिसहनारायं, पढमं बीयं च रिसहनारायं ।
___ नारायमद्धनाराय, कीलिया तह य छेवटुं ॥५७।। व्याख्या] सुगमा।।५७।। अथास्यैव संहननषट्कस्य स्वरूपव्याख्यानं गाथाद्वयेन सार्द्धनाह[मूल] कीलियपट्टयमक्कडबंधा इह वजरिसहनाराया ।
एयतियजुत्त पढम, बिइयमवजं अरिसहं वा ।।५८।। वजयरिसहदुगूणं, मक्कडबंधदुगसंजुयं तइयं । तुरियमिगपासबद्धं, बिइयंते कीलियाविद्धं ॥५९।।
नाराचं तृतीयम् । एकतो मज़टबन्धबद्धं द्वितीयपाधै कीलिकाविद्धमर्द्ध नाराचं चतुर्थम् । ऋषभनाराचवर्ज कीलिकाविद्धास्थिद्वयसञ्चितं कीलिकाख्यं पञ्चमम् । सेवर्टेति । अस्थिद्वपर्यन्तं स्पर्शलक्षणम् । सैवाङ्कृतं(तदेव ऋतं) गतं निपातनात् सेवार्तम् । अथवा नित्यमपि सेवया स्नेहाभ्यङ्गादिपरिशीलनरूपया ऋतं व्याप्तं निपातनात् सेवार्तम् । च्छेवटुंति पाठे दकारस्य लुप्तस्येह दर्शनात् छेदानामस्थिपर्यन्तानां वृत्तं परस्परसम्बन्धमात्रलक्षणं वर्तनं वृत्तिर्यत्र तच्छेदवृत्तं वज्रादित्रयरहितमस्थिपर्यन्तमात्रसंस्पर्शीत्यर्थः । च्छेवटुंति पाठे छेदाभ्यां स्पृष्टम्-इति शतकसार्द्धशतकलघुसङ्गहिणीवृत्तित्रयसङ्ग्रहः । अथ प्रपञ्चितज्ञानुग्रहायामुमेवार्थं किञ्चित् सविशेषम् गाथाद्वयेन सार्दुनाहकीलियपट्टयमक्कडबंधा इह वज्जरिसहनाराया । एयतिगजुत्त पढम बितियमवज्जं अरिसंह वा ।।५८।।) मूले 'वद्ध' इत्यस्य स्थाने 'जुत्तं' इति दृश्यते । अत्र व्याख्याकृता गाथेयं पूर्वव्याख्यातापि कुतश्चित्कारणात् निष्काषितेति सम्भाव्यते। निष्कासितः पाठश्चायम् ।