________________
मन:स्थिरीकरणप्रकरणम्
पंचममबद्धपट्टं, सकीलियं छट्टमं तदुगपुट्ठे ।
[व्याख्या] इह कीलिकापट्टकमर्कटबन्धशब्दैर्वज्रऋषभनाराचाः समभिधीयन्ते । ततोऽयमर्थः- इह सन्धिबन्धकारिणो मूलस्थ ऊर्ध्वाधोभावेन व्यवस्थितस्योभयपार्श्वयोरेकैकास्थिपर्यन्ते द्विधाभूताभ्यामस्थ्यवयवाभ्यां निजनिजद्वितीयास्थ्योर्यः संदंशकाकारेण सङ्ग्रहः स नाराचापरपर्यायो मर्कटबन्धः । यश्च तस्यैव मूलास्थिद्वयस्य ऊर्ध्वाधोभावेन व्यवस्थितस्य पूर्वोक्तस्वरूपाभ्यां मर्कटबन्धाभ्यामुभयतो बद्धस्य मध्यविभागे च वलयाकारेण वेष्टकविधायी योऽस्थिविशेषः ऋषभापरपर्यायः स पट्टकः । यश्च तस्यैवास्थिद्वयस्योभयतो मर्कटबन्धबद्धस्य पूर्वोक्तस्वरूपेण पट्टकेन मध्ये वेष्टितस्य तदस्थित्रयस्य भेदकारी कीलिकापरपर्यायोऽस्थिविशेषः स वज्राभिधः । एतैश्च त्रिभिर्विशेषैर्युगपद् विशेषितं वज्रर्षभनाराचम्, वज्रऋषभाभ्यां युक्तो नाराचो यत्रेति कृत्वा । बीयेत्यादि । यत्र []देवास्थिद्वयम् उर्ध्वाधोभावेन व्यवस्थितं वज्ररहितम् ऋषभनाराचाभ्यां सहितं तद् ऋषभनाराचाभिधं द्वितीयम् । अथवा ऋषभरहितं वज्रनाराचाभ्यां सहितं वज्रनाराचसञ्ज्ञम्। तथा यत्र तदेव मूलास्थिद्वयं वज्रऋषभद्विकोनं केवलेनैव मर्कटबन्धद्विकेनोभयपार्श्वयोः संयुक्तं तन्नाराचाभिधानं तृतीयम्। यत्र पुनस्तदेव मूलास्थिद्वयं वज्रऋषभाभ्यां रहितम् एकस्मिन् पर्यन्ते मर्कटबन्धेन बद्धं द्वितीयपर्यन्ते च कैवलयैव कीलिकया विद्धं तदर्द्धनाराचाख्यं चतुर्थम् ।। ५९ ।।
तथा यत्र तदेव मूलास्थिद्वयमूर्ध्वाधोभावेन स्थितं मर्कटबन्धद्वयेन पट्टकेन च रहितं मध्यभागे च केवलकीलिकाविद्धं तत्कीलिकाख्यं पञ्चमम्। यत्र पुनः सन्धिबन्धकारिणोऽस्थिद्वयस्योर्ध्वाधोभावाभावेन निजनिजविभागयोरेवावस्थितस्य पर्यन्तभागमात्राभ्यां स्पृष्टं स्पर्शनमात्रमेवास्ति तत्षष्ठम्। तथेह षष्ठं सेवट्टं छेवट्टं छेवट्टं चाभिधीयते। तत्रास्थिद्वयपर्यन्तसंस्पर्शलक्षणां सेवाम् ऋतं गतं निपातनात् सेवार्तम्। अथवा नित्यमपि सेवया स्नेहाभ्यङ्गादिपरिशीलनरूपया ऋतं व्याप्तं निपातनात् सेवार्तम्। छेवट्टं ति पाठे दकारस्य लुप्तस्येह दर्शनात् छेदानामस्थिपर्यन्तानां वृत्तं परस्परसम्बन्धलक्षणं वर्तनं वृत्तिर्यत्र तत् छेदवृत्तं वज्रादित्रयरहितमस्थिपर्यन्तमात्रसंस्पर्शीत्यर्थः। छेवट्टं ति पाठे छेदाभ्यां स्पृष्टम् ||६० [पू.]।।
अथ संहननानि पादचतुष्टयेन पृथिव्यादिषु दर्शयति
[मूल] चरिममिगविगलअमणे, सन्नीतिरि माणवा छद्धा ।।६०।।
४५
[व्याख्या] चरमं षष्ठसंहननं छेदस्पृष्टाख्यमेकेन्द्रियेषु पृथिव्यादिषु पञ्चसु विकलेषु त्रिषु अमन च सम्मूर्च्छजजलचरादिपञ्चके च भवति । तथा सञ्ज्ञितिर्यञ्चो गर्भजजलस्थलखचरोरःपरिसर्पभुजपरिसर्परूपाः पञ्चापि, तथा मानवाश्च। छद्ध त्ति । षड्विधसंहनना भवन्ति ।।६०।।
=
[मूल] सुरनिरय असंघयणी, जीवाभिगमम्मि भणियमेयं तु । संघयणि कम्मगंथे, इगिंदिया वि असंघयणा ।। ६१ ।।
[व्याख्या] तथा सुरा नारकाश्च अस्थ्यभावात् षड्विधेनापि संहननेन रहिताः । अयं च पृथिव्यादीनां सुरान्तानां यः संहननविभागः स जीवाभिगमप्रथमप्रतिपत्तौ। तथाहि
तेसि णं भंते ! जीवा णं सरीरा किं संघयणा पन्नत्ता ? गो/यमा ] ! च्छेवट्ठसंघयणा पन्नत्ता ।
( जीवाभिगम प्र. १, सूत्र - १३ )
अयं चालापकः पञ्चानामप्येकेन्द्रियाणां सूक्ष्मबादररूपदण्डकदशकेऽपि । तथा द्वित्रिचतुरिन्द्रियसम्मूर्च्छजजलचरादिदण्डकेषु