________________
४६
च्छेवट्ट संघयणी (जीवाभिगम प्र. १, सूत्र - २८,३५)
इत्येक एव आलापकः। तथा गर्भजजलचरादिपञ्चकदण्डकेषु
तेसि णं भंते ! जीवा णं कइसंघयणा पन्नत्ता ? गो/यमा ] ! छसंघयणा पण्णत्ता । तं जहावइरोस भनारायसंघयणे, रिसहनारायसंघयणे, नारायसंघयणे, अर्द्धनारायसंघयणे, कीलियासंघयणे, छेवट्ठसंघयणे। (जीवाभिगम प्र. १, सूत्र - १३ )
तथा मनुष्यदण्डके
छच्चेव संघयणा (जीवाभिगम प्र. १, सूत्र - ४१ ) इति ।
तथा नैरयिकदण्डके देवदण्डके च
तेसि णं जीवाणं सरीरा किंसंघयणी (णा) पन्नता ? गो/यमा ] ! छण्हं संघयणाणं असंघयणी । नेवट्ठी नेवसिरा नेव हारुं १ नेव संघयणमत्थि त्ति । ( जीवाभिगम प्र. १, सूत्र - ३२,४२)
मनःस्थिरीकरणप्रकरणम्
अथ गाथोत्तरार्द्धं- संघयणीत्यादि । तत्र लघुसङ्ग्रहण्याम्
छग्गब्भतिरिनराणं, संमुच्छपणिदिविगल छेवट्ठे । सुरनेरइया एगिंदिया य सव्वे असंघयणा ।। (लघुसङ्ग्रहणी ?, बृहत्सङ्ग्रहणी - १६१ )
सुरनारकैकेन्द्रिया अस्थ्यभावादसंहननाः । यत्तु क्वचिदेकेन्द्रियाणां सेवार्त्तं क्वचिच्च देवानां वज्रऋषभनाराचमुक्तं तदौपचारिकम् । तथाहि - अस्थ्यात्मनः संहननाद्यः शक्तिविशेषः सोऽप्युपचारात्संहननम्। शक्तिविशेषश्चात्यन्तमल्पीयानेकेन्द्रियाणामप्यस्ति । जघन्या च शक्तिः सेवार्तविषयः इति तेषां सेवार्तमुक्तम् । देवानां तु चक्रवर्त्यादिभ्योऽप्यत्यन्तमहती शक्तिः । सा चाद्यसंहननविषय इति तेषामाद्यमुक्तम् इति तद्वृत्तिभावार्थः।
ननु यो विकलेन्द्रियाणां पिपीलिकादीनां च्छेदवृत्तसंहननोदयोऽभ्युपगतः सोऽस्थ्यभावे कथं सङ्गच्छते ? इत्यत्रोच्यते, योऽयमस्थिविन्यासप्रयत्नोऽभिहितोऽसौ बलप्रकर्षख्यापकोऽत एव सूत्रे शक्तिविशेषः संहननमुक्तम्, अन्यथोभय-मर्कटग्रहपट्टकीलिकाप्रयत्ने सति गात्रसङ्कोचविकाशा (सा) भावो भाव्येत, अतः पिपीलिकादीनां क्षुद्रसत्त्वानां यद्यप्यस्थीनि न भाव्यन्ते तथापि कायबलम (धि) कृत्य संहननमुच्यते । तथाहि लोकेऽस्थिसद्भावेऽप्यल्पबलः पुरुषोऽसंहनन एव व्यपदिश्यते। अतः शक्तिमपेक्ष्य तेषां संहननं वेदितव्यम् । अथवा शङ्खादीनां द्वीन्द्रियाणामपि दृश्यन्त एवास्थीनि, पिप्पीलिकादीनां तु सूक्ष्मत्वात् केवलिगम्यानीति न कश्चिद्विरोध इति पञ्चसङ्ग्रहाभिप्रायः सार्द्धशतकवृत्तौ ।
तथा - कम्मगंथि त्ति ।
सुत्ते सत्तिविसेसो संघयणमिहट्ठिनिचउ त्ति । सार्द्धशतके । । ६१ ।।
१
अथ संस्थानद्वारम्। तत्र सन्तिष्ठन्ते प्राणिन एतेष्वाकारविशेषेष्विति संस्थानानि । अवयवरचनात्मकशरीराकृतिस्वरूपाणि शरीरेषु त्रिष्वपि स्युरिति सण्टङ्कः । तानि च किमभिधानानि कति सङ्ख्यानि च भवेयुरिति गाथापादत्रयेणाह -
हारु=स्नायुः ।
[मूल] समचउरंसे नग्गोहमंडले साइखुज्जवामणए । हुंडित्ति छ संठाणा