Book Title: Man Sthirikaran Prakaranam
Author(s): Vairagyarativijay, Rupendrakumar Pagariya
Publisher: Shrutbhuvan Sansodhan Kendra

View full book text
Previous | Next

Page 93
________________ मन:स्थिरीकरणप्रकरणम् पोग्गलपरियट्टा (ते णं पोग्गलपरियट्टा) आवलियाए असंखेज्जइभागे। (जीवाभिगम प्र.५, सूत्र-२२८, जीवाभिगम प्र.१, सूत्र-४३) इति जीवाभिगमे।।५४ पू.।। अथ क्रमप्राप्तामसज्ञिकायस्थितिं गाथोत्तरार्द्धनाह मूल] असन्नीतिरियाणंय, पुव्वकोडीओ सत्तेव ।।५।। व्याख्या] असज्ञिपञ्चेन्द्रियतिरश्चामुत्कृष्टा कायस्थितिः सप्तैव पूर्वकोटयो, यत उत्कृष्टायाः कायस्थितेर्भण्यमानत्वात्। सप्ताप्यसज्ञिभवा निरन्तरा उत्कृष्टायुष एव गृहीताः। असचिनो ह्युत्कृष्टतोऽपि पूर्वकोट्यायुष एव भवन्ति। तथा यद्यप्युत्कर्षतस्तिर्यक्पञ्चेन्द्रियाणां नैरन्तर्येणाष्टौ भवा भवन्ति तथाप्यष्टमभवोऽवश्य युगलधार्मिकेषु सज्ञिरूप एव भवतीति।।५५।। तथा [मूल] सन्निसु तिरिसु नरेसु य, सतिपल्ला सत्तपुव्वकोडीओ । भवठिइ जा सुरनरए, दुहावि सच्चेव कायठिई ॥५६।। व्याख्या] इह सञिपञ्चेन्द्रियतिरश्चां मनुष्याणां च ये सप्ताष्टौ भवा कायस्थितिरुक्ता तत्र सप्तसङ्ख्यातायुर्भवाः। तेषु चोत्कृष्टेषु सप्तपूर्वकोटयो अष्टमस्त्ववश्यम् असङ्ख्यातायुर्भवो भवतीति। स चोत्कृष्टस्त्रिपल्य इति। तथा नारकसुराणां यका जघन्या उत्कृष्टा च भवस्थितिः सैव कायस्थितिः, न पुनर्भवद्वितयादिका। यतस्तावनन्तरमेव न निजनिजभवे स्यातामिति।।५६।। अथ संहननद्वारम्। तल्लक्षणं चेदम्-संहन्यन्ते सह विशेषं प्राप्यन्ते शरीरास्थ्यवयवाः कपाटफलकानीव लोहपट्टिकादिनिचयेन तत्संहननम् अस्थिरचनाविशेषात्मकः शरीरे सन्धेर्बन्धः। स चौदारिकशरीर एव तद्व्यतिरिक्त-शरीरेष्वस्थ्यभावात्। तच्च षोढेत्याह [मूल] वजरिसहनारायं, पढमं बीयं च रिसहनारायं । ___ नारायमद्धनाराय, कीलिया तह य छेवटुं ॥५७।। व्याख्या] सुगमा।।५७।। अथास्यैव संहननषट्कस्य स्वरूपव्याख्यानं गाथाद्वयेन सार्द्धनाह[मूल] कीलियपट्टयमक्कडबंधा इह वजरिसहनाराया । एयतियजुत्त पढम, बिइयमवजं अरिसहं वा ।।५८।। वजयरिसहदुगूणं, मक्कडबंधदुगसंजुयं तइयं । तुरियमिगपासबद्धं, बिइयंते कीलियाविद्धं ॥५९।। नाराचं तृतीयम् । एकतो मज़टबन्धबद्धं द्वितीयपाधै कीलिकाविद्धमर्द्ध नाराचं चतुर्थम् । ऋषभनाराचवर्ज कीलिकाविद्धास्थिद्वयसञ्चितं कीलिकाख्यं पञ्चमम् । सेवर्टेति । अस्थिद्वपर्यन्तं स्पर्शलक्षणम् । सैवाङ्कृतं(तदेव ऋतं) गतं निपातनात् सेवार्तम् । अथवा नित्यमपि सेवया स्नेहाभ्यङ्गादिपरिशीलनरूपया ऋतं व्याप्तं निपातनात् सेवार्तम् । च्छेवटुंति पाठे दकारस्य लुप्तस्येह दर्शनात् छेदानामस्थिपर्यन्तानां वृत्तं परस्परसम्बन्धमात्रलक्षणं वर्तनं वृत्तिर्यत्र तच्छेदवृत्तं वज्रादित्रयरहितमस्थिपर्यन्तमात्रसंस्पर्शीत्यर्थः । च्छेवटुंति पाठे छेदाभ्यां स्पृष्टम्-इति शतकसार्द्धशतकलघुसङ्गहिणीवृत्तित्रयसङ्ग्रहः । अथ प्रपञ्चितज्ञानुग्रहायामुमेवार्थं किञ्चित् सविशेषम् गाथाद्वयेन सार्दुनाहकीलियपट्टयमक्कडबंधा इह वज्जरिसहनाराया । एयतिगजुत्त पढम बितियमवज्जं अरिसंह वा ।।५८।।) मूले 'वद्ध' इत्यस्य स्थाने 'जुत्तं' इति दृश्यते । अत्र व्याख्याकृता गाथेयं पूर्वव्याख्यातापि कुतश्चित्कारणात् निष्काषितेति सम्भाव्यते। निष्कासितः पाठश्चायम् ।

Loading...

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207