Book Title: Man Sthirikaran Prakaranam
Author(s): Vairagyarativijay, Rupendrakumar Pagariya
Publisher: Shrutbhuvan Sansodhan Kendra

View full book text
Previous | Next

Page 81
________________ मन:स्थिरीकरणप्रकरणम् अथ प्रसङ्गतः करणापर्याप्त-पर्याप्त-लब्ध्यपर्याप्तानां क्रमेण स्वरूपमाह- तत्र ये एकेन्द्रिया, ये च द्वित्रिचतुरिन्द्रियासझिनो, ये च सझिनो यथास्वमाहारादिचतुःपञ्चषट्पर्याप्तीर्न समापितवन्तः किं त्वद्यापि समापयन्तः सन्ति समापयिष्यन्ति च ते लब्ध्या पर्याप्ताः करणतोऽपर्याप्ता उच्यन्ते। यदा पुनस्त एव एकेन्द्रियादयो यथास्वं चतुःपञ्चषट्पर्याप्तीनां पर्यन्तं गतास्तदा ते पर्याप्ता भण्यन्ते। ते च जघन्यतोऽन्तर्मुहूर्त कालम् उत्कृष्टतस्तु अन्तर्महर्मोनानि त्रयस्त्रिंशदतराणीति। ये पनरपर्याप्ता एव सन्तो नियन्ते, न पुनः स्वस्वयोग्याः पर्याप्ती: सर्वा अपि समर्थयन्ते ते लब्ध्यापर्याप्तकाः। परं तेऽपि नियमादाहारशरीरेन्द्रियरूपं पर्याप्तित्रयं परिसमाप्य ततोऽन्तर्मुहूर्तेन परभवायुर्बद्धा तदनन्तरमबाधाकालरूपमन्तर्मुहूर्तं जीवित्वैव च म्रियन्त इति। एतेन च पर्याप्तित्रयसमापनआयुर्बन्धन-अबाधाकालरूपेण अवस्थात्रयेणाप्येकमेवान्तर्मुहूर्तम्, किन्तु पूर्वेभ्यः सविशेषम्। एताश्च पर्याप्तयः सर्वा अप्यत्पत्तिप्रथमसमय एव यथास्वं यगपज्जन्तना निष्पादयितमारभ्यन्ते क्रमाच्च निष्ठामपयान्ति। तद्यथा- प्रथममाहारपर्याप्तिस्ततः शरीरपर्याप्तिरित्यादि। आहारपर्याप्तिश्च प्रथमसमय एव निष्पद्यते. शेषास्तु पञ्चापि औदारिकशरीरिणां प्रत्येकमसङ्ख्यातसमयप्रमाणेनान्तर्मुहूर्तेन निष्पद्यन्ते। तथेह अन्तर्मुहूर्तानामसङ्ख्येयभेदत्वात् षण्णामप्यासां परिसमाप्तिकालोऽप्यन्तर्मुहूर्तमेव, परमेतत्पूर्वेभ्यः किञ्चिद् गुरुकमिति। वैक्रियाहारकशरीरिणां तु आहारपर्याप्तिस्तथैव प्रथमसमयेन शरीरपर्याप्तिरन्तर्मुहूर्तेन शेषाः चतस्रोऽपि यथोत्तरं पृथक् पृथक् समयेनेति।।२९।। अर्थताः पृथिव्यादिषु योज्यन्ते [मूल] एगिदिसु आइचउ, पंच उ विगलेसु अमणे य ।।३०।। व्याख्या] एकेन्द्रियेषु पृथिव्यादिषु पञ्चसु आद्याश्चतस्रः पर्याप्तयो भवन्ति। तथा विगलेषु अमनःपञ्चेन्द्रियतिर्यक्षु च आद्या एव पञ्च भवन्ति। तथा च सङ्ग्रहणिमूलटीकायां हरिभद्रसूरिः सम्मुच्छिमाण वि पंच हवंति असन्नित्तणओ। जं पुण सम्मुच्छिममच्छा महल्लप्पमाणा समुद्दे आहारनिमित्तं मुग्घाडणं समिळणं च करिति। सा आहारसन्नेव तेसिं। अहवा थोवमणोदव्वलद्धिमत्तणओ असन्निणो पवुच्चंति त्ति।। (सङ्ग्रहणीमूलटीका?) ।।३०।। तथा[मूल] पण पजति सुरेसुं, भासमणा जुगव होति जं तेसिं । तिरिमणुनिरए छप्पिअय, जीवाभिगमाइ भणियमियं तु ।।३१।।(गीतिः) व्याख्या] ननु सुरेषु किं मानसी षष्ठी पर्याप्तिर्न भवति? येनोच्यते पञ्चपर्याप्तयः सुरेष्वेति, उच्यते, देवा अपि पर्याप्तिषट्कमपि सममेव प्रारम्भ(भ)ते। ततः समयमात्रेण आहारपर्याप्तिः प्रमाणीभवति, ततोऽनन्तरमन्तर्मुहूर्तेन शरीरपर्याप्तिः, ततो समयेन तृतीया, ततोऽपि च समयेन चतुर्थी, तत ऊर्ध्वम् एकेनैव समयेन युगपदेव द्वे अपि भाषामनःपर्याप्ती समाप्तिमुपगच्छतः। तत एकसमयसाध्यत्वाद् द्वे अपि पर्याप्ती एकत्वेन गणयित्वा देवेषु पञ्च पर्याप्तयो भवन्तीत्युक्तम्, न पुनस्तेषां मनःपर्याप्तिर्न भवतीति। शेष सुगमम्। नवरं देवानां पर्याप्तिपञ्चक नारकाणां च तत् षट्कं जीवाभिगमसूत्रे। तद्यथा इत्थिवेया वि पुरिसवेया वि नो नपुंसगवेया वि । पज्जत्ती पज्जत्तीओ पंच दिट्ठी तिविहा। (जीवाभिगम प्र.१, सू.४२) इत्यादि देवदण्डके। नैरयिकदण्डके तु- नपुंसकवेयगा छपज्जत्तीओ। छअपजत्तीओ। तिविहा दिट्ठी। (जीवाभिगम प्र.१, सू.३२) इत्यादि प्रथमप्रतिपत्तौ। तथा

Loading...

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207