________________
अञ्चलगच्छीय आचार्यश्रीमहेन्द्रसूरिकृतं
स्वोपज्ञवृत्तियुतं
॥ मन:स्थिरीकरणप्रकरणम्।।
।।श्री।। नमः श्रीमद्देवगुरुपदपङ्कजेभ्यः।।
प्रणिपत्य जिनं वीरं मन:स्थिरीकरणदुर्गमपदानाम्। पर्यायमात्रलिखनं विदधे स्वपरोपकाराय।।
इह मन:स्थिरीकरणप्रकरणप्रारम्भे शिष्टसमयपरिपालनार्थं मङ्गलाभिधेयप्रयोजनसम्बन्धप्रतिपादिका तावदादाविमां गाथामाह
[मूल] नमिऊण वद्धमाणं, चलस्स चित्तस्स किंचि थिरकरणं ।
सपरोवयारहेडं, गुरूवएसेण वोच्छामि ।।१।। व्याख्या] नमिऊणत्ति। नत्वा श्रीवर्धमानं = श्रीसिद्धार्थभूपालनन्दनं चतुर्विंशतितमजिनम्। चलेत्यादि। इह हि समदकरिकर्णाघात इव, निजरङ्गरङ्गत्तुङ्गतुरङ्गवालधिरिव महाकल्लोलिनीहृदयदयितकल्लोलमालेव, प्रासादोच्चस्तरशिखरशिरोऽग्रभागप्रतिष्ठितध्वजदण्डाग्रावस्थिताखण्डवैजयन्तीपटप्रान्त इव प्रायेण सर्वस्यापि चञ्चलस्वभावं चेतः। कपिवच्च बहिर्विषयव्यापार विना कदाचिदपि स्थिरं न भवति। ततः तज्जिनोपदेशरज्जुभिः सम्यग् नियम्य शुभध्यानारामे रमयितव्यमिति श्रुतोपदेशः। ततोऽत्रापि तस्यैव सदैव चञ्चलस्वभावस्य विषयव्यापरणशीलस्य चेतसः, किञ्चिदिति अल्पाल्पं न पुनर्विस्तरेण स्थिरीकरणमिति स्थैर्यहेतुं उपदेशं स्वपरोपकारहेतवे गुरूपदेशेन वक्ष्यामीति सम्बन्धः। यस्माच्च मन:स्थिरतया सद्ध्यानवृद्धिस्तया च क्रमेण दुष्टाष्टकर्मक्षयः तस्माच्च नित्यानन्दमयमहानन्दपदप्राप्तिरित्यतो भवति मन:स्थिरीकरणप्रकरणं स्वपरोपकारकारणमिति।
अत्र च प्रथमपादेन विघ्नव्रातविघातनिमित्तेनेष्टदेवतास्तवनेन मङ्गलमुक्तम्। द्वितीयेन प्रेक्षावत्प्रवृत्त्यर्थमभिधेयमभ्यधायि। तृतीयेन तु प्रयोजनम्, तच्च द्विधा-कर्तृगतं श्रोतृगतं च। द्विविधमपि अनन्तरपरम्परभेदात् पुनर्द्विधा। तत्र कर्तुरनन्तरप्रयोजनं सत्त्वानुग्रहः। श्रोतुश्च मन:स्थिरीकरणप्रकरणार्थाधिगमः। परम्परन्तु द्वयोरपि मन:स्थिरताहेतूनां प्रकाशनपरिज्ञानाभ्यां परमपदप्राप्तिरिति। चतुर्थांशेन पुनरागमानुसारिणः प्रति गुरुपर्वक्रमलक्षणः सम्बन्धः साक्षादाख्यातः, तर्कानुसारिणः प्रति तु प्रकरणप्रयोजनयोरुपायोपेयलक्षणः प्रकरणाभिधेययोश्च वाच्यवाचकस्वरूप: स्वत एव भणनीय इति गाथार्थः।।१।।
इह हि अति गम्भीरापारसंसारपारावारविहारिणा भव्यजन्तुना कथमपि चोल्लकादिभिर्दर्शभिर्दृष्टान्तैरतिनिबिड - शैवलवलयाच्छादितमहाहृदविवरविनिर्गतग्रीवकच्छपेनेव निरवकरकरनिकरप्रसरविधुरितान्धकारतारतारकनिकर-परिकरितकौमुदीशशाङ्कमण्डलदर्शनमिवावाप्यातिदुःप्रापां जिनधर्मान्वितां मानुषत्वादिकां समग्रसामग्री सपदि नित्या-नन्दपरमानन्दपदप्राप्तये कर्मक्षपणाय यतितव्यम्। तस्य च यद्यपि