Book Title: Man Sthirikaran Prakaranam
Author(s): Vairagyarativijay, Rupendrakumar Pagariya
Publisher: Shrutbhuvan Sansodhan Kendra

View full book text
Previous | Next

Page 61
________________ मन:स्थिरीकरणप्रकरणम् अथ निवृत्तिबादराः। तत्र युगपदेतद्गुणस्थानं प्रविष्टानां बहूनां जीवानां परस्परसम्बन्धिनोऽध्यवसायस्थानस्य व्यावृत्तिः = वैलक्षण्यं निवृत्तिरिहाभिप्रेता। तथाविधानिवृत्तिरेषामित्यनिवृत्तयः। अयमभिप्राय:समकालमेवैतद्गुणस्थानकं प्रविष्टस्यैकस्य विवक्षितप्रथमाद्यन्यतरसमये यदध्यवसायस्थानम्, अन्योऽपि विवक्षितः कश्चित् तदा तदध्यवसायवयैवेति। सम्परेति = पर्यटति संसारमनेनेति सम्परायः = कषायोदयः, बादरः = सूक्ष्मसम्परायापेक्षया स्थूर: सम्परायो येषां ते बादरसम्परायाः। अनिवृत्तयश्च ते बादरसम्परायाश्चानिवृत्तिबादरसम्पराया:। एतेऽपि द्विधाः-क्षपका उपशमकाश्च। तत्र क्षपका मोहस्य अष्टाविंशतेर्मध्यात् सप्तकक्षयस्य पूर्वं कृतत्वात् सज्वलनलोभस्य चाग्रतोऽपि गामित्वात् शेषा विंशतिप्रकृती: स्त्यानर्द्धित्रिकम्, त्रयोदश नामप्रकृतीश्चेत्येवं प्रकृतिषट्कत्रिंशतं क्षपयन्ति। कथमिति चेदुच्यते- प्रथमं तावदप्रत्याख्यानप्रत्याख्यानावरणाख्यानष्टौ कषायान् युगपदेव क्षपयितुमारभन्ते। तेषु चार्द्धक्षपितेष्वेवातिविशुद्धिवशाद् अन्तराल एव स्त्यानर्द्धित्रिकं नाम्नश्चेतास्त्रयोदशप्रकृतिरुच्छादयन्ति। तद्यथा- नरकद्विकम्, तिर्यग्द्विकम्, एकद्वित्रिचतुरिन्द्रियजातयः, आतपम्, उद्योतम्, स्थावरम्, साधारणम्, सूक्ष्ममिति। एतासु च षोडशसु प्रकृतिषु क्षपितासु पुनः कषायाष्टकस्य क्षपितशेष क्षपयन्ति। ततो नपुंसकवेदम्, ततोऽपि स्त्रीवेदम्, तदनन्तरमपि च हास्यादिषट्कम्, ततोऽपि पुरुषवेदम्, तत ऊर्ध्वं सज्वलनं क्रोधम्, ततो मानम्, ततोऽपि मायां क्षपयन्ति। इत्येवं मोहस्य विंशतिप्रकृती: क्षपयन्ति। लोभमपि बादरं क्षपयन्ति। सूक्ष्मस्य सूक्ष्मसम्पराय एव क्षपणात्। दर्शनसप्तकं तु प्रागेव अविरताद्यप्रमत्तान्तावस्थायां क्षपितमिति क्षपकव्यापारो दर्शितः। ये तूपशमकास्तैः पूर्वमविरताद्यप्रमत्तान्तावस्थायां दर्शनसप्तकमुपशमितमस्ति। ततोऽत्रानिवृत्तिबादरावस्थायां तथाविधपरिणामशुद्ध्या प्रथमं नपुंसकवेदमुपशमयन्ति। ततः स्त्रीवेदम्, ततोऽपि हास्यादिषट्कम्, ततः पुरुषवेदम्, ततो युगपदप्रत्याख्यानावरणप्रत्याख्यानावरणौ क्रोधौ, ततः सज्वलनक्रोधम, ततः समकालमेव द्वितीयतृतीयौ मानौ, ततः सज्वलनं मानम्, ततो हेलयैव द्वितीयतृतीये माये, ततः सज्वलनां मायाम्, ततश्चैकदैव द्वितीयतृतीयौ लोभावुपशमयन्ति। सज्वलनलोभोपशमस्तु दशमगुणे भणिष्यते। तदेवं नवमगुणे मोहस्य विंशतिप्रकृतीरुपशमयन्ति। कोऽर्थः ? अपवर्तनादिकरणानां सर्वेषामप्ययोग्यां कुर्वन्तीति। तदुक्तम् उवसंतं जं कम्मं न तओ कड्ढेइ न देइ उदए वि। न य गमइ परप्पगई, न चेव उक्कड्डए तं तु।। () सर्वोपशमेन यदुपशान्तं मोहनीयकर्म, अन्यस्य सर्वोपशमायोगात्। सव्वोवसमो मोहस्सेव' इति वचनादिति न तदपकर्षयति-न तदपवर्तनाकरणेन स्थितिरसाभ्यां हीनं करोतीत्यर्थः। अपिशब्दस्य भिन्नक्रमत्वान्नाप्युदये तद्ददाति, नापि तद्वेदयतीत्यर्थः। उपलक्षणत्वात्तदविनाभाविन्यामुदीरणायामपि न ददातीत्यपि मन्तव्यमिति। न च तद् बध्यमानसजातीया(य)रूपां परप्रकृति सङ्क्रमकरणेन गमयति। न च तत्कर्मोपशान्तं सदुत्कर्षयत्युद्वर्तनाकरणेन स्थितिरसाभ्यां वृद्धि नयति। निधत्तनिकाचनयोस्तु प्रागपूर्वकरणकाल एव निवृत्तत्वान्नेहोपशान्तत्वेन तनिषेधः क्रियते इति दर्शनत्रिकं मुक्त्वा उपशान्तस्य मोहनीयकर्मण: स्वरूपमन्यत्रापि भावनीयम्। दर्शनत्रिकस्य तु सङक्रमकरणमेकं प्रवर्तत एवेति। तस्य क्षपकस्य उपशमकस्य वा बादरसम्परायस्य गुणस्थानम्। अथ सूक्ष्मसम्परायः तत्र सूक्ष्मः सम्परायः = किट्टीकृतलोभकषायोदयरूपो येषां ते सूक्ष्मसम्परायाः। तेऽपि १ एतद्वाक्यं कर्मप्रकृत्याः ३१५ गाथायाः संवादि । शतकनामा पंचमकर्मग्रंथ-पत्र १३१, स्वो.टी.गा.-९८, संपा.-महेन्द्र जैन ।

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207