Book Title: Kuvalayamala Part 2
Author(s): Udyotansuri, A N Upadhye
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
-I. § 13 : Verse 36 ]
कुवलयमालाकथा १
* 7
1 क्षमापरिवृढो दृढवर्मा दृढप्रतिज्ञ आस्थानादुत्थाय देव्यै वृत्तान्तमचीकथत् । देव्यपि हृष्टमानसा समज - 1 निष्ट । राज्ञा समग्रे ऽपि नगरे वर्धापनमहोत्सवश्चक्रे । इतश्च धर्माशुरपि कर निकर प्रसरेण तमःसमूहं 3 निराकृत्यास्तसमस्त किरणदण्डो ऽस्ताचलचूलावलम्बी बभूव ।
6
सति प्रभापताव न प्रभा तनयस्य मे । इति ध्यात्वास्तदम्भेन रविग्रस्तः सरस्वता ॥ २८ विना जीवितनाथं तं किमन्यैरवलोकितैः । इतीव नलिनी जज्ञे निद्राणनलिनेक्षणा ॥ २९ तदन्धकारं समभूद्भैरवादपि भैरवम् । यत्र वर्णश्रियां लोपो ज्ञायते स्वः परश्च न ॥ ३० ततः शय्यागृहान्तर्धौतधवलपदप्रच्छादिते मन्दाकिनी पुलिनत लिने तलिनोदरी प्रियङ्गुइयामा समाराधितदेवगुरुचरणकमला प्रमीलामीलितचारुलोचना पाश्चात्ययामिनीयामे स्वप्ने ज्योत्स्नाप्रवाहसंभृतदि१ क्वक्रममन्दकुमुदानन्दप्रदं कलङ्कविकलं बहल परिमलाकर्षितालिकुलकलितया कुवलयमालया परिवृतं 9 कलाभृतमद्राक्षीत् । तावत्प्राभातिकप्रहतमङ्गलमृदङ्गसंगत संरावेण प्रबुद्धा । ततः स्वभावानुसदृशस्वप्नदर्शनरसवश प्रहर्ष समुच्छलद्रोमाञ्चकवचितया देव्या विनयावनतोत्तमाङ्गया यथादृष्टः स्पष्टः स्वप्नः 12 क्षभिर्तुः पुरो न्यवेदि । राजा तद्वाक्यमाकर्ण्य विस्मयस्मेरमनाः सुधासागरान्तस्थमिवात्मानं मन्य - 12 मानः प्रोवाच । 'प्रिये, यो राज्यलक्ष्म्या पुत्रवरः प्रदत्तः स सांप्रतं फलिष्यति ।' ततो देवी 'देवताना - मनुग्रहेण राज्यश्रियो वरप्रभावेन गुणगुरूणां गुरूणामाशीर्वादेन च वाञ्छितं भवतु' इति जल्पन्ती 15 कवीनामप्यगोचरं प्रमोदं प्रतिपेदे |
36
१२ ) अथो महीनेता कृतावश्यकः समस्तसचिवाधीशैरलंकृतां स्वप्नपाठकैरन्वितां राजहंस इव सरसी सभामलंकृत्य देव्या दृष्टं स्वप्नं निवेद्येति पप्रच्छ 'को ऽमुष्य फलविपाकः' । ततः 18 स्वप्नपाठकैरुक्तम् । 'यथा किल महाराज, महापुरुषजनन्यः शशिसूर्यवृषभहरिगजप्रभृतीन् स्वप्नान् 18 पश्यन्ति । तेन तस्येदृशस्य सकलकलाभृद्दर्शनस्य प्रधानपुरुषजन्म सूच्यते ।' राज्ञा भणितम् । 'देव्याः पुत्रजन्मफलं राज्यश्रिया वरेणैव निवेदितम् । यः पुनः शशी कुवलयमालया कलितस्तद्वयं पृच्छामः ।' 21 ततो गदितं स्वप्नकोविदैः । 'देव, नूनमेषा तव दुहिता भविष्यति' इति । अथ देवगुरुणा मन्त्रिणा 21 भणितम् | 'देव, युज्यत एतत् । यदि कुवलयमालैव चन्द्रतो विभिन्ना भवति ततः संभाव्यत एतत् । एषा पुनस्तमेव मृगाङ्कमवगृह्य स्थिता । तेनैषा काप्येतस्य राजपुत्रस्य पूर्वजन्मस्नेहप्रतिबद्धा कुवलयमालेव 24 सर्वजनमनोहरा प्रियतमा भाविनी' इति । भणितं भूपेन 'संगतमेतत्' । ततः किंचित्कालं विद्वगोट्या - 24 सुपविश्य विशांपतिर्दिवसकृत्यकृते कृत्यवेदी समुदतिष्ठत् । अथ देवी तद्दिनमारभ्य लावण्यपुण्यावयवा परिजनस्य बहुमता साधुजनस्यानुकूला सर्वप्राणिगणे सानुकम्पा संपूरितदोहद सौहृदा सामोदा गर्भ 27 द्यौरवोद्वहन्ती विरराज ।
27
1 ) B also दृढधर्मा. 2 ) B महोत्सवश्च चक्रे. 4) B प्रभावतावत्र न. 6 ) B has a marginal note (on भैरवादपि ) thus : ईश्वरादपि । ईश्वरपक्षे वर्णा ब्राह्मणादयस्तेषां श्रियस्तासां लोपः । अंधकारपक्षे वर्णा नीलपीतादयः ।. 7 ) P पट्टप्रच्छादिते, P पुलिनवदत लिने, Cadds देवी after प्रियङ्गुश्यामा 9 ) B बहुल 14 ) P गुणगुरूणां आशी 16 ) 0 कृतावश्यकः प्रभाते सचिवैः समं सभामुपविश्य स्वप्नपाठकानाहूय तेभ्यः स्वप्नफलं पप्रच्छ कोऽमुष्य. 19) og ततोऽनेन स्वप्नेन प्रधान for तेन etc. 21 ) B देवगुरुमन्त्रणा. 22 ) P कुवलयमाला चैव चंद्रतो, B adds on the margin कदाचित् between कुवलयमाला and चन्द्रतो. 23) P मृगांगकमवगदा स्थिता. 25 ) B has a marginal gloss कार्यस्थानं on कृत्यवेदी. 26 ) P संपूरितदेहसोहदा, Bhas a gloss मेद्यं गर्भ on गर्भ. 34 ) cg वर्ध्यते, B इत्युक्त्वा नृपति 35 ) PB C दृढधर्मा or दृढधर्म्मा, but the spelling दृढवर्मा is uniformly adopted here. (36) P भवेद्वर्ष: प्रकर्ष भाक्
3
$ १३ ) अथ कियति काले व्यतीते तिथिकरणनक्षत्रसुन्दरे वासरे शुभे लग्ने होरायामूर्ध्वमुख्यामुच्चस्थानस्थिते ग्रहच वृद्धाङ्गनाभिरनेकाभिः सततं रक्षाभिरुपचर्यमाणा, ताम्रपर्णीव मौक्तिकम्, रोहण30 भूरिव रत्नम्, वैडूर्यभूमिरिव वैडूर्यम्, प्राचीव चित्रभानुम्, मलयाचलाचलेव चन्दनपादपम्, वारि- 30 धिवेलेव विधुम, राजहंसीव विशदच्छदम्, प्रभापहतप्रदीपप्रभम्, विकस्वरवदनकमलम्, कुवलयदललोचनयुगलम्, सा पवित्रं पुत्रमसूत ।
33 ततो देव्यनुजीविन्यो हर्षोत्फुल्लदृशो भृशम् । अहंपूर्विकया श्रीमदृढवर्मान्तिकं ययुः ॥ ३१ 33 वर्ध्य से सुतरत्नस्य जन्मना देव संप्रति । इत्युक्त्वा भूपतिस्तासामभूत् प्रमोदमेदुरः ॥ ३२
वर्मा महीपालस्तदा दानमदान्मुदा । तथा ताभ्यो यथा तासां दारिद्र्ये ऽभूद्दरिद्रता ॥ ३३ यथा प्राप्य निधि को ऽपि भवेद्वर्षप्रकर्षभाक् । तथा तदा तनूजन्मजन्म भूपतिरप्यभूत् ॥ ३४ भूपः प्रवर्तयामास निःसामान्यं महोत्सवम् । महार्हा मर्हता मह कारयामास च स्वयम् ॥ ३५ तन्मात्रा युवती जातिस्तथोत्कर्षमनीयत । यथा दूर्वा नरेशो ऽपि शिरसा तृणमप्यधात् ॥ ३६
Jain Education International
6
For Private & Personal Use Only
15
36
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/eecc8f482b3eab8845de2db84d405a94fcec6ba722b6ed812a46d2b82cd06081.jpg)
Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368