Book Title: Kuvalayamala Part 2
Author(s): Udyotansuri, A N Upadhye
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 200
________________ -II.§ 33 : Verse 149 ] कुवलयमालाकथा २ 1 (३१) अस्ति समस्त कुशल जनावृतग्रामाभिरामः कोशलाभिधो जनपदः । तत्र परचक्रदुर्लङ्घया 1 कामिनीमुखचन्द्रचन्द्रिकात्यन्तधौतधवलगृहा कोशलाख्या नगरी । 3 स्वर्नदीसंगतैर्यत्र मरुल्लोलैर्ध्वजाञ्चलैः । मार्जयन्तीव शशिनः कलङ्कममरालयाः ॥ १३४ रमारामाभिरखिलैः सुभगंभावुकैर्गुणैः । मात्राधिकतया यत्र पराभूयन्त भूरिशः ॥ १३५ वातावधूतप्रासाद धवलध्वजवेलनैः । यत्र त्रिपथगा व्योम्नि सहस्रपथगाभवत् ॥ १३६ तत्र क्षत्रशिरोरत्नं पवित्रमतिभाजनम् । कोशलः कुशलः क्षोणीपालः प्रत्यर्थिकोशलः ॥ १३७ वाहिनी प्रसरविस्फुरद्रजोमण्डलेन रविरस्तदीधितिः । यस्य विक्रमगुणकवर्णने न क्षमः फणभृतामपीश्वरः ॥ १३८ यदश्वीक्षुण्णक्षितिविततरेण्वा रविरपि क्षतज्योतिर्यत्सिन्धुरनिकरदानोदकभरैः । प्रसस्रुर्वाहिन्यः प्रतिपथममन्दैः प्रतिरवैरहो निःश्वासनामजनि किल गर्जिर्जलभृताम् ॥ १३९ यस्य प्रयाणे पृथिवीश्वरस्य निःश्वासनादाः किल ये प्रसस्रुः । 12 तएव विद्वेष महीपतीनां पलायनोत्साहकरा बभूवुः ॥ १४० यद्यत्रास्वपि दुर्गलङ्घनलसन्निःश्वासनादैः स्फुरत्सैन्योद्धूतरजो भरैरविरतं प्रत्यर्थिपृथ्वीभृताम् । aft वष्वथान्ध्यमभवन्नेत्रेषु तस्य स्तुतिं कर्तुं न क्षमते सहस्ररसनो ऽप्युर्वीभृतो विक्रमे ॥ १४१ ९३२) अथ तस्य महीशक्रस्य मूर्त्या जयन्त इव परं नाकुलीनः सिंह इव विक्रमी न नखरायुधः, 15 सवितेव प्रकाशकरो न कठोरः, चन्द्र इव सर्वाह्लादकरो न कलङ्कितः, तोसलाख्यः संख्यावतां मुख्यस्तनूभवः समभवत् । एवंविधविविधगुणसंपूर्णेन तेनानिवारितप्रसरेण निजनगर्यां परिभ्रमता कदाचि18 त्कस्यापि महतो नगरश्रेष्ठिनो हर्म्यरम्यगवाक्षविवरविनिर्गतं धाराधरपटलप्रकटीभूतपूर्णिमाकुमुदबा- 18 न्धवमिव बालिकाया वदनकमलं कुवलयदलदीर्घलोचनयुगलं ददृशे । सापि तमालोक्य साक्षादिव मनोभवमुद्दामानुरागसागरान्तर्निमग्नमानसा तदात्वमेव समजायत । तद्दर्शनेन तस्यापि चेतः पञ्चशरेण 21 परदारावलोकनेन जनितकोपेनेव तितउरिव पञ्चभिः शरैः शतच्छिद्रं व्यधायि । ततस्तेन निर्दयविषम- 21 शरप्रहार प्रसूतिवेदनाविवशेनेव दक्षिणकरेण वक्षःस्थलं पस्पृशे, वामेन नाभिपार्श्वे तर्जन्यङ्गुली चोङ्खकृता, तया च तन्निरीक्षणपरवशया वामेतरपाणिना कृपाणप्रतिकृतिः प्रकटिता । ततः कुमारस्तच्चेष्टित24 मालोक्य स्वावासं प्रति प्रचलितो व्यचिन्तयदिति । 6 9 15 27 * 25 36 यतः, 3 'यस्य मुखेन लावण्य पुण्येन द्विजनायकः । न्यक्कृतो ऽङ्कच्छलात्तुन्दे चिक्षेप क्षुरिकां निजे ॥ १४२ दादूदयालुलास लावण्यवारिधिः । यत्रामृतायितं वाचा दृष्टिभ्यां शफरीयितम् ॥ १४३ प्रवालायित मोठाभ्यां मुक्तापङ्कीयितं द्विजैः । कूर्मायितं कुचाभ्यां च दोर्भ्यां वेत्रलतायितम् ॥ १४४ 27 इयं शृङ्गारसर्वस्वं राजधानी मनोभुवः । उद्दामयौवनप्राग्रहरा लावण्यदीर्घिका ॥ १४५ अहो अस्या वालिकायाः सर्वरूपातिशायिरूपं, अहो अद्भुता कापि सौभाग्यभङ्गी, अहो विदग्धत्वम्, 30 अहो निरुपमा लावण्यलक्ष्मीः' इति व्यायन्नेव निजावासमासदत् । साथ क्रमेण नयनपथातीते ऽपि 30 तस्मिन्नराधीश्वरनन्दने इभ्यतनया विषमबाणबाणप्रहार प्रसर्जर्जरशरीरसर्वावयवा मुक्तदीर्घोष्णनिःश्वासधूमध्यामलीकृतशय्यागृहविचित्रचित्तभित्तिः शयनीये लुलोठ । 12) P पलायिनोत्साह. 15 ) B has a marginal gloss ( on नखरायुध:) thus : नखरा नखा एवायुधं स्यादस्य स नखरायुधः कुमारः पुनर्न नखरायुधः कोऽर्थः खरायुध तीक्ष्णायुधः । तेन प्रकृत्यर्थवाचकौ ।. 16 ) Badds करः after कठोरः. 20 ) P सागरांतर निर्मन. 21 ) P लोकनजनित. 26 ) P यदास्येहृदयादु . 38) PB दहनतप्त. Jain Education International 6 For Private & Personal Use Only 9 33 इष्टं मन्त्रमिव स्वान्ते स्मरन्ती तं नृपात्मजम् । सा तस्थौ सुकुमाराङ्गी कुरङ्गीनयना चिरम् ॥ १४६३३ न शय्यायां न च ज्यायां न जने न वने रतिः । तस्या न चन्द्रे नो चन्द्रे वियोगिन्याः कदाप्यभूत् ॥ १४७ शीतांशुरपि धर्माशुश्चन्दनं च हुताशनः । निशापि वासरस्तस्या वैपरीत्यं तदाभवत् ॥ १४८ 12 24 'योगिनां चन्दनाद्यैर्यैः शीतैः प्रीतिः प्रजायते । तनुज्र्ज्वलति तैरेव सततं विप्रयोगिणाम् ॥ १४९ ९३३ ) स कुमारो यावदन्यदा तस्या हृदयहारिण्याः संगमोपायतोयेन दुस्सहविरहदहनोत्तप्तदेह39 निर्वापणमभिलषन्नस्ति तावत्पर्यस्तकिरणदण्डश्चण्ड किरणः पश्चिमाचलचूलिकावलम्बी बभूव । तदा - 39 ऽतिप्रसृते संतमसे कुसुमशरशरप्रसरव्यथितो 'दुःखेन विना सौख्यं नास्ति' इत्यवगम्य कुमारः समुद्तिष्ठत् । ततस्तोसलो निजं वसनं गाढं नियन्य कुवलयदलश्यामलां यमजिह्वाकरालां क्षुरिकां कटीतटे 36 www.jainelibrary.org

Loading...

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368