________________
-II.§ 33 : Verse 149 ]
कुवलयमालाकथा २
1 (३१) अस्ति समस्त कुशल जनावृतग्रामाभिरामः कोशलाभिधो जनपदः । तत्र परचक्रदुर्लङ्घया 1 कामिनीमुखचन्द्रचन्द्रिकात्यन्तधौतधवलगृहा कोशलाख्या नगरी ।
3 स्वर्नदीसंगतैर्यत्र मरुल्लोलैर्ध्वजाञ्चलैः । मार्जयन्तीव शशिनः कलङ्कममरालयाः ॥ १३४ रमारामाभिरखिलैः सुभगंभावुकैर्गुणैः । मात्राधिकतया यत्र पराभूयन्त भूरिशः ॥ १३५ वातावधूतप्रासाद धवलध्वजवेलनैः । यत्र त्रिपथगा व्योम्नि सहस्रपथगाभवत् ॥ १३६ तत्र क्षत्रशिरोरत्नं पवित्रमतिभाजनम् । कोशलः कुशलः क्षोणीपालः प्रत्यर्थिकोशलः ॥ १३७ वाहिनी प्रसरविस्फुरद्रजोमण्डलेन रविरस्तदीधितिः ।
यस्य विक्रमगुणकवर्णने न क्षमः फणभृतामपीश्वरः ॥ १३८ यदश्वीक्षुण्णक्षितिविततरेण्वा रविरपि क्षतज्योतिर्यत्सिन्धुरनिकरदानोदकभरैः । प्रसस्रुर्वाहिन्यः प्रतिपथममन्दैः प्रतिरवैरहो निःश्वासनामजनि किल गर्जिर्जलभृताम् ॥ १३९ यस्य प्रयाणे पृथिवीश्वरस्य निःश्वासनादाः किल ये प्रसस्रुः । 12 तएव विद्वेष महीपतीनां पलायनोत्साहकरा बभूवुः ॥ १४० यद्यत्रास्वपि दुर्गलङ्घनलसन्निःश्वासनादैः स्फुरत्सैन्योद्धूतरजो भरैरविरतं प्रत्यर्थिपृथ्वीभृताम् । aft वष्वथान्ध्यमभवन्नेत्रेषु तस्य स्तुतिं कर्तुं न क्षमते सहस्ररसनो ऽप्युर्वीभृतो विक्रमे ॥ १४१ ९३२) अथ तस्य महीशक्रस्य मूर्त्या जयन्त इव परं नाकुलीनः सिंह इव विक्रमी न नखरायुधः, 15 सवितेव प्रकाशकरो न कठोरः, चन्द्र इव सर्वाह्लादकरो न कलङ्कितः, तोसलाख्यः संख्यावतां मुख्यस्तनूभवः समभवत् । एवंविधविविधगुणसंपूर्णेन तेनानिवारितप्रसरेण निजनगर्यां परिभ्रमता कदाचि18 त्कस्यापि महतो नगरश्रेष्ठिनो हर्म्यरम्यगवाक्षविवरविनिर्गतं धाराधरपटलप्रकटीभूतपूर्णिमाकुमुदबा- 18 न्धवमिव बालिकाया वदनकमलं कुवलयदलदीर्घलोचनयुगलं ददृशे । सापि तमालोक्य साक्षादिव मनोभवमुद्दामानुरागसागरान्तर्निमग्नमानसा तदात्वमेव समजायत । तद्दर्शनेन तस्यापि चेतः पञ्चशरेण 21 परदारावलोकनेन जनितकोपेनेव तितउरिव पञ्चभिः शरैः शतच्छिद्रं व्यधायि । ततस्तेन निर्दयविषम- 21 शरप्रहार प्रसूतिवेदनाविवशेनेव दक्षिणकरेण वक्षःस्थलं पस्पृशे, वामेन नाभिपार्श्वे तर्जन्यङ्गुली चोङ्खकृता, तया च तन्निरीक्षणपरवशया वामेतरपाणिना कृपाणप्रतिकृतिः प्रकटिता । ततः कुमारस्तच्चेष्टित24 मालोक्य स्वावासं प्रति प्रचलितो व्यचिन्तयदिति ।
6
9
15
27
* 25
36 यतः,
3
'यस्य मुखेन लावण्य पुण्येन द्विजनायकः । न्यक्कृतो ऽङ्कच्छलात्तुन्दे चिक्षेप क्षुरिकां निजे ॥ १४२ दादूदयालुलास लावण्यवारिधिः । यत्रामृतायितं वाचा दृष्टिभ्यां शफरीयितम् ॥ १४३ प्रवालायित मोठाभ्यां मुक्तापङ्कीयितं द्विजैः । कूर्मायितं कुचाभ्यां च दोर्भ्यां वेत्रलतायितम् ॥ १४४ 27 इयं शृङ्गारसर्वस्वं राजधानी मनोभुवः । उद्दामयौवनप्राग्रहरा लावण्यदीर्घिका ॥ १४५ अहो अस्या वालिकायाः सर्वरूपातिशायिरूपं, अहो अद्भुता कापि सौभाग्यभङ्गी, अहो विदग्धत्वम्, 30 अहो निरुपमा लावण्यलक्ष्मीः' इति व्यायन्नेव निजावासमासदत् । साथ क्रमेण नयनपथातीते ऽपि 30 तस्मिन्नराधीश्वरनन्दने इभ्यतनया विषमबाणबाणप्रहार प्रसर्जर्जरशरीरसर्वावयवा मुक्तदीर्घोष्णनिःश्वासधूमध्यामलीकृतशय्यागृहविचित्रचित्तभित्तिः शयनीये लुलोठ ।
12) P पलायिनोत्साह. 15 ) B has a marginal gloss ( on नखरायुध:) thus : नखरा नखा एवायुधं स्यादस्य स नखरायुधः कुमारः पुनर्न नखरायुधः कोऽर्थः खरायुध तीक्ष्णायुधः । तेन प्रकृत्यर्थवाचकौ ।. 16 ) Badds करः after कठोरः. 20 ) P सागरांतर निर्मन. 21 ) P लोकनजनित. 26 ) P यदास्येहृदयादु . 38) PB दहनतप्त.
Jain Education International
6
For Private & Personal Use Only
9
33 इष्टं मन्त्रमिव स्वान्ते स्मरन्ती तं नृपात्मजम् । सा तस्थौ सुकुमाराङ्गी कुरङ्गीनयना चिरम् ॥ १४६३३ न शय्यायां न च ज्यायां न जने न वने रतिः । तस्या न चन्द्रे नो चन्द्रे वियोगिन्याः कदाप्यभूत् ॥ १४७ शीतांशुरपि धर्माशुश्चन्दनं च हुताशनः । निशापि वासरस्तस्या वैपरीत्यं तदाभवत् ॥ १४८
12
24
'योगिनां चन्दनाद्यैर्यैः शीतैः प्रीतिः प्रजायते । तनुज्र्ज्वलति तैरेव सततं विप्रयोगिणाम् ॥ १४९ ९३३ ) स कुमारो यावदन्यदा तस्या हृदयहारिण्याः संगमोपायतोयेन दुस्सहविरहदहनोत्तप्तदेह39 निर्वापणमभिलषन्नस्ति तावत्पर्यस्तकिरणदण्डश्चण्ड किरणः पश्चिमाचलचूलिकावलम्बी बभूव । तदा - 39 ऽतिप्रसृते संतमसे कुसुमशरशरप्रसरव्यथितो 'दुःखेन विना सौख्यं नास्ति' इत्यवगम्य कुमारः समुद्तिष्ठत् । ततस्तोसलो निजं वसनं गाढं नियन्य कुवलयदलश्यामलां यमजिह्वाकरालां क्षुरिकां कटीतटे
36
www.jainelibrary.org