Book Title: Kuvalayamala Part 2
Author(s): Udyotansuri, A N Upadhye
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
रत्नप्रभसूरिविरचिता
[ IV. § 13 : Verse 55
सुपर्वपर्वत भ्रष्टैस्तैरेव परमाणुभिः । स सुपर्वापि नो कर्तुं समर्थस्तं पुनर्यथा ॥ ५५ ॥ दुष्कर्मवशतो भ्रष्टस्तथा मानुषजन्मनि । निस्तुषं मानुषं जन्म जन्मी न लभते पुनः ॥ ५६ ॥
3
परमाणुदृष्टान्तः । ३ ततः स राजर्षिर्द्विविधशिक्षा विचक्षणः चारुचारित्रं समाचरन् गुरुणा सह विजहार । कुवलयचन्द्रस्यापि निखिल भूपालमण्डलीमुकुट कोटिनिघृष्टचरणारविन्दस्य विपुलामासमुद्रमेखलां पालयतः प्रभूता वासरा 6 व्यतीयुः ।
१४) अत्रान्तरे पद्मकेसरसुरः स्वानि च्यवनचिह्नानि परिज्ञाय दुर्मनाश्चिन्तयामास ।
'खेदं माव्रज जीव त्वं दीनत्वं हृदि मा व्यधाः । तावदेव हि भुज्येत यावदायुरुपार्जितम् ॥ ५७ ॥ १ ततः संप्रति कालोचितं क्रियत इत्यागत्यायोध्यायां सुरः कुवलयचन्द्र - कुवलयमालयोः पुरः कथ- 9 यामासेति । 'यथामुकमासे ऽमुकदिवसे युवयोः सूनुर्भविष्यामि तावदिमानि पद्मकेसरनामाङ्कितानि कटककुण्डलहारार्धहारादीनि भूषणानि स्वीक्रियन्ताम् । तानि च प्रसृतबुद्धिविस्तरस्य मम तनौ 12 निवेश्यानि येनैतानि चिरपरिचितानि प्रेक्षमाणस्य मम जातिस्मृतिरुत्पद्यते' इत्युदित्वार्पयित्वा च 12 त्रिदशः स्वस्थानमागतः । ततः क्रियद्भिर्दिनैः सुरश्रयुत्वा कुवलयमालाया गर्भं सुतत्वेनोदपद्यत । ततः सापि समये पवित्रं पुत्रं प्रासूत । पित्रा मध्ये पुरं विरचय्य वर्धापनकमहोत्सवे संजाते द्वादशे दिवसे 15 तस्य मुनिना पूर्वमुदितमभिधानं 'पृथ्वीसारः' इति विदधे । स कुमारः कलाकलापेन यौवनेन च 15 स्वीच । तस्य पितृभ्यां तान्याभरणानि समर्पितानि । तानि पश्यत एव तस्य प्रागपि क्वापि दृष्टान्येतानीत्यूहापोहवतो मूर्छाजनि, जातिं च सस्मार । ततः शीतेन तोयेन वायुना चाश्वासितो लब्धचैतन्यो 18 दध्याविति । 'अहो, तत्र तानि सुखान्यनुभूय पुनरीदृशानि तुच्छानि मनुजजन्मजातानि जीवो ऽभिलषति, 18 इति धिर मोहं धिक् च संसारावासं यत्र निरन्तरमाधिव्याधिव्यथितो जनः, तदहं संसारदुःख परंपरापराभवविधायिनीं प्रव्रज्यां गृहीत्वात्मानं साधयिष्ये' इति चिन्तयन् स वयस्यैर्भणितः । 'कुमार, तव 21 स्वस्थशरीरस्य किमेतदत्याहितम् ।' तेनोक्तम् । 'ममाजीर्णविकारेणैषा भ्रमिरत्पन्ना, तेन न पुनरात्म- 21 स्वभावो निवेदितः ।' एवं व्रजत्सु दिनेषु कुवलयचन्द्रेणोक्तम् । 'कुमार, राज्यं गृहाण, अहं प्रव्रज्यां ग्रहीष्ये । कुमारेणोक्तम् । 'महाराज, त्वमेव राज्यं प्रतिपालय, अहं पुनर्दीक्षां स्वीकरिष्ये ।' राज्ञादिष्टम् । 24 'अद्यापि बालस्त्वं राज्यसुखमनुभव, वयं पुनर्भुक्तभोगा दीक्षां ग्रहीष्यामः' इति कुमारं प्रतिबोध्य 24 भूपतिर्निर्विण्णकामभोगः प्रव्रज्याग्रहणमनाः कस्यापि गुरोरागमनमभिलषंस्तस्थौ । अन्यदिने दत्तमहादानः संमानिता शेषपरिजनः कुवलयमालया समं धर्मवार्ता वितन्वानः क्षमाधनः सुत्वा पाश्चात्यया27 मिनीयामे प्रथममेव प्रबुद्धश्चिन्तयामासेति ।
* 72
1
30
27
१५) 'दुष्प्रापं प्राप्य मानुष्यं दक्षिणावर्तशङ्खवत् । विचारचतुरैश्चिन्त्या हेयोपादेयहेतवः ॥ ५८ ॥ मानुषत्वमतिश्रेष्ठं कुले जन्म विशेषतः । धर्मः कृपामयो जैनस्त्रयमेतद्धि दुर्लभम् ॥ ५९ ॥ धन्यास्ते पुण्यभाजस्ते निस्तीर्णस्तैर्भवार्णवः । ये संगमपरित्यागनिगमाध्वगतां ययुः ॥ ६० ॥ त एव कृतिनो ऽभूवन् भुवनश्री विशेषकाः । जिनेन्द्रजल्पिता सर्वविरतियैरलंकृता ॥ ६१ ॥ धन्यानि तानि क्षेत्राणि यत्र जैनमुनीश्वराः । भ्रमन्ति विभ्रमत्यक्ता मुक्ताहाराः शुभाशयाः ॥ ६२ ॥ पुण्यतिथिस्तिथिः सा का सा वा वारो ऽपि कः स च । तन्मुहूर्त च किं भावि ममामोदप्रमोदकृत् ॥६३॥ 33 यस्मिन् पवित्र चारित्र चित्रभानुप्रभोदद्यात् । मन्मनः सर सीजन्म स्मेरतामुपयास्यति ॥ ६४ ॥ युग्मम् ॥ प्रधानधान्यतो येन दीक्षाशिक्षाशिलोपरि । क्षालयिष्ये मनोवासः कुवासमलिनं कदा ॥ ६५ ॥ 36 इति चिन्तयतस्तस्य भूपतेः प्राभातिकमङ्गलपाठकः पपाठ ।
33
39
नमस्ते लोकनिर्मुक्त नमस्ते द्वेषवर्जित । नमस्ते जितमोहेन्द्र नमस्ते ज्ञानभास्कर' ॥ ६७ ॥ इति वदन् भूपतिः शयनीयादुत्तत्स्थौ । ततो 'नमो जिनेन्द्रेभ्यः' इति वदन्ती संभ्रमपरा त्रिदशतटिनी
1
36
'हत संतमसानीकः पातितनक्षत्र सुभटसंघातः । प्रसृतप्रतापनिकरः शूरः पृथिवीपतिरुदेति' ॥ ६६ ॥ एतदाकर्ण्य राज्ञा चिन्तितम् । 'अहो, सुन्दरोपश्रुतिः सुतराज्याय |
Jain Education International
6
For Private & Personal Use Only
30
2 ) B मानुषजन्मनः (partly on the margin ) 5 ) c चरणारवृन्दस्य, Badds समुद्रं before समुद्रमेखलां, P चालयतः for पालयतः. 13) B inter. पवित्रं & पुत्रं. 14 ) B महोत्सवं. 24 ) PB om. दीक्षां ग्रहीष्यामः. 25 ) P महादान - सन्मानिताशेष, P वितन्वत for वितन्वावः, B adds सुष्वाप before सुप्तवा, 33 ) Pc स for सा वा.
39
www.jainelibrary.org

Page Navigation
1 ... 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368