Book Title: Kuvalayamala Part 2
Author(s): Udyotansuri, A N Upadhye
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 252
________________ -IV. $ 25 : Verse 77] कुवलयमालाकथा ४ * 77 1कुमारीरूपं प्रतिकृत्याः कस्याश्चित्त्वया लिखितम्, किमुत स्वमत्या ।' तेन विज्ञप्तम् । 'देव, उज्जयिन्यां 1 महापुर्यामवन्तीनृपतेः सुतायाः प्रतिच्छन्दः।' ततः कुमारः सादरं तां निद्रामिव नयनमनोहारिणी, 3 शक्तिमिव हृदयदारणनिपुणां, शुद्धपक्षेन्दुकलामिव भृशं विमलां, महाराजराज्यस्थितिमिव सुविभक्त- 3 वर्णोपशोभितां, जिनश्रुतिमिव सुप्रतिष्ठिताङ्गोपाङ्गसुभगां विलोक्य क्षणं स्तम्भित इव, ध्यानगत इव, दृषनिर्मित इव, लेप्यमय इव स्थितः । ततः कृतकृत्य इव कुमारस्तं चित्रपट देव्यै प्रदर्य जजल्पेति । 6 'देवि, सुन्दरमुत्पद्यते यद्येषा कन्या लभ्यते।' तया प्रत्युक्तम् । 'देवि, निजरूपं चित्रपटे लेखयित्वायमेव 6 व्यावृत्य प्रेष्यतां, यथावन्तीपतिस्तदृष्ट्वा स्वयमेव दुहितरं ददाति।' कुमारेणोक्तम् । 'प्रमाणमेतत् ।' ततस्तेन चित्रकृता चित्रपटः कामगजेन्द्ररूपसमन्वितोऽवन्तीभर्तुः पुरो दर्शितः तेनापि सुतायै दर्शितः। पालोक्य जातानुरागां तां विज्ञाय राजा जगाद । 'यक्तमेतद्यदियं पुरुषद्वेषिणी ततोऽन्यं कमारं 9 नाभ्यलषत् । सांप्रतं तु विधिप्रशाप्रकर्षकशपट्टायमाने ऽस्मिन् कुमाररूपे भृशमनुरक्ता । ततो ऽस्या अयमेव वरो युक्तः।' इति ध्यात्वा राज्ञा तस्मै कुमाराय दुहिता दत्ता। 12 ६२४) ततः पित्रादेशेन कुमारो वल्लभया समं स्कन्धावारेण च चलितः। ततो ऽस्तपर्यस्त- 12 किरणदण्डे चण्डरोचिषि निशाप्रथमयामार्धं प्रियया समं सुष्वाप । एवं द्वितीये यामे कस्याप्यपर्व कोमलकरतलस्पर्शेन विबुद्धः सन् कुमारो व्यचिन्तयदिति । 'यदीदृशः स्पर्शो नानुभूतपूर्व इति । 15 सर्वथायं मनुष्यस्पर्शी न भवति' इति चिन्तयता कुमारेण पुरस्त्रिभुवनाश्चर्यकारि रूपहारि कन्याद्वयं 15 निरीक्ष्य भणितम् । 'यद्भवत्यौ मानुष्यो, किं वा देव्यौ, ममात्र महत्कौतुकम् ।' ताभ्यामुक्तम् । 'आवां विद्याधयौँ भवतः पार्श्वे केनापि हेतुना समायाते स्वः, परमावयोर्भवता परोपकारिणा प्रार्थना वृथा न 18कार्या।' कुमारेणोक्तम् । 'निवेद्यतामहं दुस्साध्यमपि भवत्कार्य साधयिष्ये।' ताभ्यामुक्तम् । 'देव, 18 शृणु । अस्ति कुबेरदिग्भागे वैताढ्यः पर्वतः। तत्रोत्तरदक्षिणश्रेण्यौ विद्यते । उत्तरश्रेण्यां सुन्दरमानन्द मन्दिरं नाम नगरम् । यत्कीदृशं, बहुसौवर्णमन्दिरं बहुपुरुषसेवितं बहुजलाशयपरिगतं बहुकुमुदोप21 वनम् । तत्र पृथ्वीसुन्दरः क्षमानेता । तस्य देवी मेखलाभिधा । तत्कुक्षिसंभवा बिन्दुमती कन्या। सा21 च सुन्दरावयवाभङ्गभाग्यसौभाग्यभूमिका चारुचातुर्यकरण्डिका पुरुषद्वेषिणी। सा च वयोविभवकलाकलापपरिकलितेभ्यो ऽपि विद्याधरकुमारेभ्यः कदापि न स्पृहयति । ततः सा यौवनस्था गुरुजनेन 24 जल्पितेति । 'वत्से, स्वयंवरं वरं गृहाण ।' तदाकर्ण्य तयावां भणिते । 'यदि, सख्यौ युवा भणथस्तदैकदा 24 दक्षिणश्रेण्यां भवतीभ्यां सह परिभ्रमामि' इति । आवाभ्यामप्युक्तम् । 'एवं भवतु' इत्युदित्वा गगनतलमुत्पत्य गिरिवरकाननान्तरे वयमवताणाः। तत्र क्रीडन्तीभिरस्माभिः किनरामेथुनमक काम 37 कुमारस्य गुणग्रामगानं कुर्वाणं समाकर्णितम् । प्रियसख्योक्तम् । 'सखि, पवनवेगे, अग्रतो भूत्वेदं पृच्छ,27 क एष कुत्रत्यो वा कामगजेन्द्रकुमारः, यस्याधुना गीतमुद्गीतम् ।' ततस्तया किंनर्या निवेदितम् । 'विद्याधरबाले, कामगजेन्द्रः स कदापि न दृष्टः श्रुतश्च न । तर्हि यदि तेन कार्य तदमुं किंनरं पृच्छ ।' 30 तेन भववृत्तान्तः सर्वो ऽपि कथितः। तदिदं श्रुत्वा तया बिन्दुमत्याः पुरो गदितम् । तदाकर्णनेन 30 तहिनादारभ्य बिन्दमती तहिनविष्ठा कमलिनीव प्रियवियक्ता राजहंसिकेव मन्त्राहता भुजङ्गीव निःश्रीका निर्वचना निःप्रसरा तनोत्यालेख्यम्, न शृणोति गीतं न वादयति वीणां, केवलं मत्तेव ग्रहगृहीतेव 33 मृतेव जाता। सखीभिर्भाषितापि सा किमपि नोत्तरं ददाति । मया ज्ञातं यदेतस्याः कामगजेन्द्र एव 33 व्याधिनिदानम् । अतो ऽमुष्यास्तत्संगम एव महौषधम् । यतोऽग्निदग्धानामग्निरेवौषधं विषक्लान्तानां विषमेव । इति विचिन्तयन्त्या मया भणिता मानवेगा । 'वयस्ये अमुष्याः कामगजेन्द्र एव चिकित्सकः।' 36 तत आवाभ्यां भणितम् । 'प्रियसखि, विश्वस्ता भव' तथा करिष्यावः, यथा तं कुमारमानीय तव 36 व्याधिमपनेष्यावः।' तयोक्तम् ।' 'तदानयनाय युवां व्रजथः।' ६२५) तयेत्यावां प्रतिपद्य तस्मिन्नपि गिरिकुहरशिलातले कमलकोमलदलविरचिते त्रस्तरे तां 39 बिन्दुमतीं विषादं कुर्वन्तीं निवेश्य प्रचलिते, परं न जानीवः कुत्र सा पुरी यत्र त्वं भवसि, कुत्र भवान् 39 प्राप्य इति । एतदर्थपरिशानाय भगवती प्राप्ती समाराधिता । ततस्तया प्ररूपितम् । 'यथैष कुमार उजयिन्यां गच्छन् वनान्तरे रचितशिबिरसंनिवेशः सांप्रतं तिष्ठति ।' एतन्मत्वावां भवदन्तिके समान 42 याते।' अतः परं सांप्रतं देव, तवायत्तं प्रियसख्या जीवितमिति मा विलम्बस्व त्वरितमेवोत्तिष्ठ यदि 42 3) P सुविभक्तिवर्णोप. 12) B has a marginal note on अस्तपर्यस्त etc. : अस्तस्थाने पर्यस्तः पतितः किरणदंडो यस्य स तथा 1. 13) Pom, चण्ड, P प्रियास. 27) P सखे पवन: 32) Badds न after निःप्रसरा. 34) PB औषधं for महौषधं. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368