Book Title: Kuvalayamala Part 2
Author(s): Udyotansuri, A N Upadhye
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 256
________________ -IV. § 33 : Verse 85] कुवलयमालाकथा ४ * 81 1 श्यन्ते हियमाणाः पदार्थाः, न चौरो ऽपि लोचनगोचरः । केवलमेतदेव सर्वत्रापि प्रातः परिश्रूयते यत्पुरं 1 तम् । अहं देवादेशेन पुरपरित्राणं करोमि, परं केनाप्युपायेन न मलिम्लुचोपलब्धिः । ततः स्वामी 3 कस्याप्यन्यस्यादेशं ददातु । तस्मिन्नेवमुक्तवति नरेश्वरेण सकलमप्यास्थानमण्डलमालुलोके । ९३२) ततो वैरिगुप्तेन विरचिताञ्जलिना विज्ञप्तम् । 'यदि देव, सप्तरात्रमध्ये तं स्तेनं देवान्तिकं नानयामि ततो ऽहं ज्वालाकुलं ज्वलनमा विशामि' इति । ततो राजादेशमासाद्य वैरिगुप्तस्य सुगुप्तविधिना 6 प्रकोष्ठ निक्षिप्तखेटकस्य करतलकलितकरालकरवालस्य चत्वररथ्यामुख गोपुराराम सरोवरवापीदेवकुल- 6 पानीयशालामठेषु विचरतः षड् दिवसा व्यतिचक्रमुः, न पुनस्तेन स चौरपुमानुपलब्धः । ततः सप्तमे दिवसे वैरिगुप्तेन चिन्तितम् | 'सर्वत्र मयान्वेषितं पुरं परं न चौरः प्राप्तः, तदत्र को ऽयमुपायो विधेयः, 9 मम च प्रत्यूषे प्रतिज्ञा परिपूर्णा तावदागता ममापूर्ण संघस्य पञ्चता, तदद्य क्षणदायां श्मशाने महामांसं 9 विक्रय कमपि वेतालं साधयित्वा चौरवृत्तान्तं पृच्छामि' इति विचिन्त्य वैरिगुप्तः श्मशानभुवं संप्राप्तः । तत्र च तेन महासाहसिना क्षुरिकया जङ्घयोर्महामांसमुत्कृत्य हस्ते विधाय वारत्रयं भणितम् । 'भो भो 12 राक्षसाः पिशाचा वा श्रूयताम्, यदि भवतां महामांसेन कार्य तदेतद्गृहीत्वा चौरवृत्तान्तं निवेदयत । ' 12 वेतालेनोक्तम् । 'महामांसमहं ग्रहीष्ये ।' कुमारेण भणितम् । 'प्रमाणमेतत् परं चौरप्रचारः परिकथनीयः । ' कुमारेणार्पिते महामांसे तेनोक्तम् । 'भद्र, मांसमिदं स्तोकं विस्त्रं च यद्यग्निना पक्कं भवान् ददाति तदा 15 गृह्णामि ।' कुमारेण भणितम् । 'चितासमीपमागच्छ यथा स्वेच्छयाग्निपकं स्वमांसं भवते ददामि ।' 15 वेतालः प्रोवाच । 'भवत्वेवम् ।' ततस्तौ चितासमीपमाजग्मतुः । कुमारेणापरं स्वमहामांसं पक्कं तस्मै : प्रदत्तम् । तेन च स्वेच्छया भुक्तं च । अत्रान्तरे गौतमेन पृष्टम् । 'भगवन्, किमु पिशाचा राक्षसाश्च कावलिक18 महारं कुर्वन्ति किंवा न ।' भगवताशतम् । 'गौतम, न कुर्वन्ति ।' गौतमेनोक्तम् । 'यद्यमी नाश्नन्ति 18 ततः कथमनेन महामांसमशितम् ।' भगवतादिष्टम् । 'प्रकृत्या व्यन्तरा अमी बाला इव क्रीडां कुर्वन्ति । 'महामांसं भुक्तम्' इति लोकस्य मायां दर्शयन्ति ।' वेतालेन भणितम् । 'एतन्महामांसं निरस्थि मह्यं न 21 रोचते, यद्य स्थित्कटकटारावकरं परं ददासि तदेहि ।' तदाकर्ण्य कुमारो दक्षिणजङ्घामुत्कृत्य चितानले 21 पक्त्वा वेतालस्यार्पयामास ।' पुनस्तेनोक्तम् । 'भो भद्र, अमुनाधुना पूर्ण, संप्रत्यतीव तृषितो ऽस्मि, ततस्तव शोणितं पातुमिच्छामि ।' 'पिब' इति वदता कुमारेण यावदेका स्नसा विदारिता तावत् हाहारवमुखरे24 Sट्टहासे गगनाङ्गणं प्रसृते, 4 ) B रात्रि for रात्र- 5 ) Bom इति 7 ) B चौरः पुमा क्षक्षतं. 31 ) B पाणिर्बिलं विलोकितुं 34 ) B मणिमयं भुवनं 11 27 'साहसेनामुना तुष्टोऽस्म्यनन्यसदृशेन ते । यत्किंचिद्याचसे वीर तदेव वितराम्यहम् ॥ ८१ ९३३) ततः कुमारः प्रोवाच तुष्टस्त्वं यदि संप्रति । मत्पुरं मुषितं येन तमेव कथयस्व मे ॥ ८२ 27 वेतालो ऽप्यब्रवीद्देव तस्य चौरस्य को ऽपि न । प्रतिमल्लः स दृष्टो ऽपि न हि केनापि गृह्यते ॥ ८३ तनिशम्य कुमारेणाक्षतं वीक्ष्य क्षतं दृशा । प्रोचे वेताल चौरस्य स्थानमेव निवेदय ॥ ८४ जगाद स च वेतालो यद्येवं शृणु तत्त्वतः । श्मशानान्तःस्थन्ययोत्रे ऽमुष्य स्तेनस्य संश्रयः ॥ ८५ 30 तत्र वटे छिद्रमेव द्वारम् । तच्छ्रुत्वा कुमारस्त्वरितं विकटं प्रेतवनवटं समारुह्य शाखासु प्रति- 30 शाखासु मूले पत्र निकरान्तरे च कृपाणपाणिर्विलोकितुं प्रवृत्तः । ततः कोटरस्थच्छिद्रसमीपे राजपुत्रो यावदधोव करोति तावत्ततो धूपगन्धः कस्मीरजवनसार मृगमदपरिमलमांसिलो निस्सरति । वेणु33 वीणावं कामिनीजनजनितगीतसंवलितं श्रुत्वा राजसनुना चिन्तितम् । 'दृष्टममुष्य परिमोषिणो 33 मन्दिरम् । अधुना यो बलवांस्तस्यैव राज्यम्' इति विचिन्त्य तत्रैव विवरे किंचिद्भूभागमुपसर्प्य मणिमयभवनं चारुकाञ्चनतोरणं वरयुवतिजनप्रचारं विलोक्य व्यचिन्तयत् । 'स तावदुष्टाचारः कुत्र भावी' इति 36 चिन्तयता तेन कापि लोललोचना निस्तन्द्रचन्द्रवदना ततो निःसरन्ती दृष्टा पृष्टा च । 'कस्यायमावासः, कासि त्वम्, कुत्र वास परास्कन्दी, स्त्रीजनश्च किं गायति ।' तयोक्तम् । 'भद्र, कथमेतावतीं भुवमागतः, त्वमतीव साहसिकः कुतः स्थानादागतः । तेनोक्तम् । 'ऋषभपुरात् ।' तयोक्तम् । 'यदि त्वं ऋषभपुर39 वास्तव्यः [ तत् ] किं जानासि चन्द्रगुप्तनरेश्वरं वैरिगुप्तं पुत्रं च ।' तेनोचे । 'भद्रे, त्वं कथं जानासि 39 तयोर्द्वयोरप्यभिधे । तयोक्तम् । 'गतास्ते दिवसाः ।' तेन भणितम् । 'कथय स्फुटं तयोः किं भवसि कथमभिजानासि तौ, केन पथात्र प्राप्तासि ।' 36 Jain Education International 3 11 ) B तेन साहसिना. 24 ) P प्रवृते for प्रसृते. 28 ) B 35 ) B वरयुवतिजातप्रचारं. 39 ) PB om. [ तत् ]. For Private & Personal Use Only 24 www.jainelibrary.org

Loading...

Page Navigation
1 ... 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368