________________
-IV. § 33 : Verse 85]
कुवलयमालाकथा ४
* 81
1 श्यन्ते हियमाणाः पदार्थाः, न चौरो ऽपि लोचनगोचरः । केवलमेतदेव सर्वत्रापि प्रातः परिश्रूयते यत्पुरं 1 तम् । अहं देवादेशेन पुरपरित्राणं करोमि, परं केनाप्युपायेन न मलिम्लुचोपलब्धिः । ततः स्वामी 3 कस्याप्यन्यस्यादेशं ददातु । तस्मिन्नेवमुक्तवति नरेश्वरेण सकलमप्यास्थानमण्डलमालुलोके ।
९३२) ततो वैरिगुप्तेन विरचिताञ्जलिना विज्ञप्तम् । 'यदि देव, सप्तरात्रमध्ये तं स्तेनं देवान्तिकं नानयामि ततो ऽहं ज्वालाकुलं ज्वलनमा विशामि' इति । ततो राजादेशमासाद्य वैरिगुप्तस्य सुगुप्तविधिना 6 प्रकोष्ठ निक्षिप्तखेटकस्य करतलकलितकरालकरवालस्य चत्वररथ्यामुख गोपुराराम सरोवरवापीदेवकुल- 6 पानीयशालामठेषु विचरतः षड् दिवसा व्यतिचक्रमुः, न पुनस्तेन स चौरपुमानुपलब्धः । ततः सप्तमे दिवसे वैरिगुप्तेन चिन्तितम् | 'सर्वत्र मयान्वेषितं पुरं परं न चौरः प्राप्तः, तदत्र को ऽयमुपायो विधेयः, 9 मम च प्रत्यूषे प्रतिज्ञा परिपूर्णा तावदागता ममापूर्ण संघस्य पञ्चता, तदद्य क्षणदायां श्मशाने महामांसं 9 विक्रय कमपि वेतालं साधयित्वा चौरवृत्तान्तं पृच्छामि' इति विचिन्त्य वैरिगुप्तः श्मशानभुवं संप्राप्तः । तत्र च तेन महासाहसिना क्षुरिकया जङ्घयोर्महामांसमुत्कृत्य हस्ते विधाय वारत्रयं भणितम् । 'भो भो 12 राक्षसाः पिशाचा वा श्रूयताम्, यदि भवतां महामांसेन कार्य तदेतद्गृहीत्वा चौरवृत्तान्तं निवेदयत । ' 12 वेतालेनोक्तम् । 'महामांसमहं ग्रहीष्ये ।' कुमारेण भणितम् । 'प्रमाणमेतत् परं चौरप्रचारः परिकथनीयः । ' कुमारेणार्पिते महामांसे तेनोक्तम् । 'भद्र, मांसमिदं स्तोकं विस्त्रं च यद्यग्निना पक्कं भवान् ददाति तदा 15 गृह्णामि ।' कुमारेण भणितम् । 'चितासमीपमागच्छ यथा स्वेच्छयाग्निपकं स्वमांसं भवते ददामि ।' 15 वेतालः प्रोवाच । 'भवत्वेवम् ।' ततस्तौ चितासमीपमाजग्मतुः । कुमारेणापरं स्वमहामांसं पक्कं तस्मै : प्रदत्तम् । तेन च स्वेच्छया भुक्तं च । अत्रान्तरे गौतमेन पृष्टम् । 'भगवन्, किमु पिशाचा राक्षसाश्च कावलिक18 महारं कुर्वन्ति किंवा न ।' भगवताशतम् । 'गौतम, न कुर्वन्ति ।' गौतमेनोक्तम् । 'यद्यमी नाश्नन्ति 18 ततः कथमनेन महामांसमशितम् ।' भगवतादिष्टम् । 'प्रकृत्या व्यन्तरा अमी बाला इव क्रीडां कुर्वन्ति । 'महामांसं भुक्तम्' इति लोकस्य मायां दर्शयन्ति ।' वेतालेन भणितम् । 'एतन्महामांसं निरस्थि मह्यं न 21 रोचते, यद्य स्थित्कटकटारावकरं परं ददासि तदेहि ।' तदाकर्ण्य कुमारो दक्षिणजङ्घामुत्कृत्य चितानले 21 पक्त्वा वेतालस्यार्पयामास ।' पुनस्तेनोक्तम् । 'भो भद्र, अमुनाधुना पूर्ण, संप्रत्यतीव तृषितो ऽस्मि, ततस्तव शोणितं पातुमिच्छामि ।' 'पिब' इति वदता कुमारेण यावदेका स्नसा विदारिता तावत् हाहारवमुखरे24 Sट्टहासे गगनाङ्गणं प्रसृते,
4 ) B रात्रि for रात्र- 5 ) Bom इति 7 ) B चौरः पुमा क्षक्षतं. 31 ) B पाणिर्बिलं विलोकितुं 34 ) B मणिमयं भुवनं
11
27
'साहसेनामुना तुष्टोऽस्म्यनन्यसदृशेन ते । यत्किंचिद्याचसे वीर तदेव वितराम्यहम् ॥ ८१ ९३३) ततः कुमारः प्रोवाच तुष्टस्त्वं यदि संप्रति । मत्पुरं मुषितं येन तमेव कथयस्व मे ॥ ८२ 27 वेतालो ऽप्यब्रवीद्देव तस्य चौरस्य को ऽपि न । प्रतिमल्लः स दृष्टो ऽपि न हि केनापि गृह्यते ॥ ८३ तनिशम्य कुमारेणाक्षतं वीक्ष्य क्षतं दृशा । प्रोचे वेताल चौरस्य स्थानमेव निवेदय ॥ ८४ जगाद स च वेतालो यद्येवं शृणु तत्त्वतः । श्मशानान्तःस्थन्ययोत्रे ऽमुष्य स्तेनस्य संश्रयः ॥ ८५ 30 तत्र वटे छिद्रमेव द्वारम् । तच्छ्रुत्वा कुमारस्त्वरितं विकटं प्रेतवनवटं समारुह्य शाखासु प्रति- 30 शाखासु मूले पत्र निकरान्तरे च कृपाणपाणिर्विलोकितुं प्रवृत्तः । ततः कोटरस्थच्छिद्रसमीपे राजपुत्रो यावदधोव करोति तावत्ततो धूपगन्धः कस्मीरजवनसार मृगमदपरिमलमांसिलो निस्सरति । वेणु33 वीणावं कामिनीजनजनितगीतसंवलितं श्रुत्वा राजसनुना चिन्तितम् । 'दृष्टममुष्य परिमोषिणो 33 मन्दिरम् । अधुना यो बलवांस्तस्यैव राज्यम्' इति विचिन्त्य तत्रैव विवरे किंचिद्भूभागमुपसर्प्य मणिमयभवनं चारुकाञ्चनतोरणं वरयुवतिजनप्रचारं विलोक्य व्यचिन्तयत् । 'स तावदुष्टाचारः कुत्र भावी' इति 36 चिन्तयता तेन कापि लोललोचना निस्तन्द्रचन्द्रवदना ततो निःसरन्ती दृष्टा पृष्टा च । 'कस्यायमावासः, कासि त्वम्, कुत्र वास परास्कन्दी, स्त्रीजनश्च किं गायति ।' तयोक्तम् । 'भद्र, कथमेतावतीं भुवमागतः, त्वमतीव साहसिकः कुतः स्थानादागतः । तेनोक्तम् । 'ऋषभपुरात् ।' तयोक्तम् । 'यदि त्वं ऋषभपुर39 वास्तव्यः [ तत् ] किं जानासि चन्द्रगुप्तनरेश्वरं वैरिगुप्तं पुत्रं च ।' तेनोचे । 'भद्रे, त्वं कथं जानासि 39 तयोर्द्वयोरप्यभिधे । तयोक्तम् । 'गतास्ते दिवसाः ।' तेन भणितम् । 'कथय स्फुटं तयोः किं भवसि कथमभिजानासि तौ, केन पथात्र प्राप्तासि ।'
36
Jain Education International
3
11 ) B तेन साहसिना. 24 ) P प्रवृते for प्रसृते. 28 ) B 35 ) B वरयुवतिजातप्रचारं. 39 ) PB om. [ तत् ].
For Private & Personal Use Only
24
www.jainelibrary.org