________________
रत्नप्रभसूरिविरचिता
[ IV. § 34 : Verse 86
1 ९ ३४ ) तथा भणितम् । 'श्रावस्तीपुर्या सुरेन्द्रस्य भूपतेर्दुहिता बाल्यादेव तेन पित्रा तस्य वैरिगुप्तस्य 1 परिणेतुं प्रदत्ताभूवम् । अत्रान्तरे विद्यासिद्धेनामुनापहृतात्र पातालतले प्रक्षिप्ता च । जानामि तेन 3 तन्नाम्नी । केवलं नाहमेकापहृता अत्र बहुतरा महेला अन्या अपि ।' तेन चिन्तितम् । 'अहो, ममैषा 3 चम्पकमाला प्रदत्तासीत्, ततः पश्चाद्विद्याधरेणामुना समानीता ।' तेनोक्तम् । 'भद्रे, कथय स कुत्र विद्याधराधमः, कथं हन्तव्यः स मया । अहं स एव वैरिगुप्तः, यदि ममोपरि महान् स्नेहः । तयोक्तम् । 6 'यदि भवान् वैरिगुप्तस्तद्वरेण्यमजनि ।' तथा निवेदितम् । 'कुमार, रहस्यं शृणु यथा पापी मार्यते । अत्र 6 देवतायतने ऽस्य खेटकं सिद्धकृपाणरत्नं चास्ति तद्गृहाण ।' राजपुत्रेणोक्तम् । 'तावद्भद्रे, कथय कथं कथं वर्तते स विद्यासिद्धः ।' तयोक्तम् । 'अयमस्तमिते दिनपतौ बहुलान्धकारायां निशायां स्वेच्छया परि'भ्रमति, महिलादिकं यत्किचित्सारं सारं वस्तु प्राप्नोति तत्सर्वं समानयति । दिवसे तु महेलावृन्द- 9 परिवृतो ऽत्रैव तिष्ठति । तथास्यानेन कृपाणेनानेन खेटकेन च सर्वकार्य सिद्धिः ।' कुमारेणोक्तम् । 'अधुना कुत्रास्ते स निष्कृपचक्रवर्ती ।' तयोक्तम् । 'सर्वदैव सर्वस्त्रीजनमध्यगतो भवति, सांप्रतं यदि स भवति 12 ततो नाहं न त्वं च ।' तेनोक्तम् । 'यदि स नास्ति तत एताः कथं गायन्ति ।' ततस्तया प्रोचे । 'भद्र, 12 एतास्तेन विना प्रमुदिताः पठन्ति गायन्ति च । पुनरन्या रुदन्ति च ।'
९३५) कुमारेणोक्तम् । 'भद्रे, मम तस्य च द्वयोर्मध्ये एतासां हृदयंगमः को भावी' इति । 15 स्मित्वा तया प्रोचे । यतः
15
* 82
'त्यजन्ति शूरमप्येताः सस्नेहमपि योषितः । कातरं विगतस्नेहं चापि गृह्णन्ति काश्चन ॥ ८६ वातोद्धूतध्वजपट इव विद्युदिवास्थिरम् । मनो मनस्विनीनां हि कः परिच्छेत्तुमर्हति ॥ ८७ 18 तथाप्येतावन्मात्रं जानामि यद्येता भवन्तं विलोकयिष्यन्ति ततो ऽवश्यमेवैतासां त्वयि स्नेहो 18 भावीति । एताः सर्वा अपि भवत्पुरसंबन्धिन्य एव भवन्तं दृष्ट्रा प्रत्यभिज्ञास्यन्ति । ततो दर्शनतासां देयमेव ।' कुमारेणोक्तम् । 'तावदस्य विद्यासिद्धस्य सिद्धकृपाणं खेटकं च समानय, पश्चादपि 21 तासां दर्शनं दास्यामि ।' तयोचे । 'अत्रैव कुमार, तावत् स्थातव्यं त्वया यावदस्मि सिद्धखेटकं सिद्धखङ्गं 21 च समानयामि' इत्युदित्वा सा गता । ततः कुमारश्चिन्तितवान् । 'कदाचिदियं मम मृत्युहेतवे कमप्युपायमन्यं चिन्तयति ततो न युक्तं स्थातुमत्रैव' इति कुमारः प्रविचार्यं गृहीतखेटकः स्वीकृतखङ्गरत्नः 24 'पश्चाद्याघुट्य स्थितः । ततः सा स्वीकृतखङ्गपेटका तत्र प्रदेशे कुमारमपश्यन्ती विषण्णमानसा कुमारेण 24 भणिता । 'भद्रे, त्वरितं समागच्छ अत्राहमवतिष्ठामि ।' इति समाकर्ण्य तथा प्रोक्तम् । 'अतः स्थानात्कथमन्यत्र भवान् संप्राप्तः ।' तेनोक्तम् । 'यतो धीमतां 'स्त्रीणां कदापि न विश्वसनीयम्' इति शास्त्रोक्तिः । 27 ततः पश्चाद्याट्य स्थितः ।' 'कुमार, राज्यपदवीयोग्यस्त्वमसि, यो महेलानां न विश्वसिति' इत्युदित्वा 27 सा तत्पुरो भूमौ कौक्षेयकं खेटकं च मुमोच । राजतनयः सौवं निस्त्रिंशं खेटकं च तत्करे ऽर्पयामास । कुमारेण प्रदक्षिणीकृत्य तद्वयमद्वयरूपं स्वीचक्रे । तयोक्तम् । 'कुमारस्य विजयाय भवत्विदं खड्गरत्नम् । 30 कुमारेणोक्तम् । 'भद्रे, कथय कुत्र संप्रति स दुष्टविद्यासिद्धः ।' तयोक्तम् । 'कुमार, केन निगमेनात्र 30 प्रविष्टो भवान् ।' तेन प्रोक्तम् । 'वटपादपकोटर च्छिद्रेण ।' तयोक्तम् । 'नाहं द्वारं जानामि, एतत्पुनर्जाने येन द्वारेण त्वमागतः सो ऽपि तेनैव समागमिष्यति ततस्त्वया सज्जीभूयामुना दिव्यखनेन शिरश्छेद33 नीयं तस्य । अन्यथा स पुनस्तव दुःसाध्यः' इत्यवगम्य कुमारः कृपाणपाणिछिद्रद्वारि स्थितः ।
'
६३६ ) अत्रान्तरे स विद्याधराधमः प्रभातकालमाकलय्य धवलगृहोपरि शयनीयप्रसुप्तामेकाकिनीं तस्यैव राजसूनोः पत्नीमपहृत्यागतः । तत्रैव बिले तं प्रविशन्तं निरीक्ष्य राजपुत्र्या पूच्चके ।
36
'हा वैरिगुप्त हा वीर त्वत्प्रियास्मि हृतामुना । चम्पावत्यभिधानेन तस्मात्त्रायस्व मामिह ॥' ८८ एवं तत्प्रलपितमाकर्ण्य विद्यासिद्धेनोक्तम् । 'तेन तव किं कार्यम्, यदि तं दयितं प्राप्नोमि तदा तमेवानामि' इति श्रुत्वा कुमारेण चिन्तितम् । 'अहो, दुराचारः समागत एव परं मम प्राणप्रियां गृहीत्वा, 39 तदेतत्सुन्दरं जातमिति यत्सलोन्त्रो ऽयं चौरः' इति चिन्तयता कुमारेण बिलद्वारे विद्यासिद्धस्योत्तमाङ्गं 39
5 ) B हंतव्यो यदि ममोपरि. 21 27 ) B विश्वसति 33 ) PB om. तस्य "सुंदर संजातं.
प्रविशद्दृष्टम् । ततः कुमारेण चिन्तितम् । 'एतस्य शिरश्छिनझि, अथवा नहि नहि किं सत्पुरुषाश्छलान्वेषिणः, सर्वथा न युक्तमेतत्तावदस्य शक्तिमालोकयामि' इति ध्यायतः कुमारस्य विद्यासिद्धश्छिद्रेण 42 प्रविष्टः । ततो भणितः कुमारेण । 'अरे, विद्यासिद्धो यदि भवान् तन्नीतिपथे व्रज, यदन्यायं कुरुषे 42 com. तावत्. 22 ) B कदाचिदयं. 26 ) Binter. धीमतां स्त्रीणां & कदापि 34 ) P प्रभातमाकलय्य. 38 ) B कुमारेणोक्तं for कुमारेण चिन्तितम् 39 ) B
Jain Education International
33
For Private & Personal Use Only
36
www.jainelibrary.org