________________
-IV. 8 39 : Verse 103] कुवलयमालाकथा ४
* 83 1 तन्नोचितम् । यदि सत्येन चौरो ऽसि तेन निग्रहयोग्यस्त्वं तत्सजीभव युद्धाय ।' तं राजतनयं प्रेक्ष्य 'अहो, 1
कथमेष वैरिगुप्तः संप्राप्तः, तद्विनष्टं कार्यम् , तावत्किमनेन बालेन' इति चिन्तयता विद्यासिद्धेन प्रोचे। 3 'कृतान्तवदनप्राये क्षिप्तः केन बिले भवान् । कथं वा रूपसौभाग्यशाली निधनमिच्छसि ॥ ८९ 3 ततः 'कृपाणः कृपाणः' इति वदन् स देवायतने राजतनयसंबन्धिनं खङ्गं खेटकं च गृहीत्वा दध्यो। 'अहो, मदीयं न खगरत्नं न च खेटकमपि' इति चिन्तयन् कुमारमूलमागत्य बभाण। 6 'मदीयान्तःपुरे केन प्रेषितो मातृशासितः । ज्ञातं वा कुपितः प्रेतपतिरेव तवोपरि ॥९० 6
इदानीं ते न निस्सारो विद्यते बिलतोऽमुतः । सूपकारकरायातः शशवत्वं विनंक्ष्यसि ॥९१
प्रोचे कुमारः 'किं रे रे, स्वैरचारी मम प्रियाम् । हृत्वाध माद्यसि प्राप्त एवासि त्वं यमान्तिकम् ॥९२ 9 ३७) इति वदता कुमारेण तदभिमुखं खगप्रहारः प्रदत्तः । तेनापि कलाकौशलशालिना 9 वञ्चयित्वा तं प्रहारं कुमारं प्रति प्रहारो मुक्तः। कुमारेणापि स वञ्चितः । ततस्तयोर्वनमहिषयोरिव
नाहवः प्रवृत्तः, परमेतयोर्मध्ये न कस्यापि जयो ऽभूत, तथाप्ययं विद्यासिद्धः 'कैतवी' इति विचिन्त्य 12 चम्पकमालया प्रोचे । 'कुमार, खगरत्नमिदं स्मर' । 'रम्यमुक्तमनया' इति विचिन्त्य कुमारो निजगाद । 12
'यदि सिद्यसि सिद्धानांचक्रिणां वासिरत्न भोः। तत्त्वं मम कराग्रस्थं लुनीहास्य शिरोऽधुना' ॥९३ अथ विद्यासिद्धेन चिन्तितम् । 'अये, अनयैव वनितया खड्गरत्नमिदमस्यार्पितम् , आः पापे, कुत्र व्रजसि' । 15 इति वदन तामेव दिशं विद्यासिद्धः प्रत्यधावत ।।
15 ___ यावन्नाप्नोति वनितामिमामेष नराधमः । तावत्त्वरितमेवास्य शिरश्चिच्छेद राजसूः ॥ ९४ उक्तं चम्पकमालया। 18 'कुमारैतस्य वक्रान्तः समस्ति गुटिका किल । विदार्यास्य मुखं तत्त्वं तां गृहाण महाशय ॥९५ 18
स श्रुत्वेति मुखात्तस्य दारिताहुटिकां ततः। लात्वा प्रक्षाल्य चात्मीयमुखे चिक्षेप तत्क्षणम् ॥९६
कुमारः सुगुणाधारः पारावारस्तरोर्णसः। तयाधिकं समुद्दीप्य दर्पभूः समभूत्तदा ॥९७ 21 ६३८) ततस्तस्य कुमारस्य तेनैव ललितविलासिनीजनेन सह विषयसुखमनुभवतो विस्मृतसकल-21
गुरुवचनस्य निजशक्तिविजितसिद्धलब्धार्थानेकप्रणयिनीजनसनाथपातालभुवनस्य तत्रैव वसत एकदिनमिव द्वादश वत्सराणि व्यतीयुः। द्वादशसंवत्सरप्रान्ते ऽस्य प्रसुप्तस्य तस्य निशायाः पश्चिमे यामे 24 ऽदृश्यमानो मङ्गलपाठकः पपाठ।
24 'प्रभातसमये निद्रामोहं त्यज नरेश्वर । अवलम्बस्व सद्धर्म कर्मनिर्मूलनक्षमम् ॥९८
संसारसागरं घोरमवगम्य दुरुत्तरम् । त्यक्त्वा स्त्रीसंगतिं धर्मपोतमेतमलं कुरु ॥ ९९ 27 एतदाकर्ण्य राजसू नुना चिन्तितम् । 'अहो, कुत्रैष बन्दिध्वनिः।' ताभिर्भणितम् । 'देव, न जानीमः, 27 स च न दृश्यते, केवलं शब्द एव श्रूयते।' एवं बन्दिना सप्त दिनानि यावजय जयेति शब्दपूर्व संसार
वैराग्यजननानि वचांस्युञ्चरता तस्य चेतो विस्मयस्मेरमतन्यत । ततो राजपुत्रेणोक्तम् । 'अयं तावद30 वश्यमेति तदेनमेव पृच्छामि' इति वदतस्तस्य कुमारस्य स दिव्यबन्दी प्रत्यक्षीभूय 'कुमार, जय जय' 30 इत्युवाच । कुमारेणोचे।
'भो दिव्य कथय क्षिप्रमायातः केन हेतुना । प्रत्यहं किमु वैराग्यवचो जल्पसि मत्पुरः ॥ १०० 33 दिव्येनोचे 'तव स्वान्ते, किंचित्कौतुकमस्ति चेत् । पृच्छ तद्वत्स निर्गत्यामुतः पातालवेश्मनः॥१०१ 33
स प्रोचे 'किंतु पातालमिदं कालः कियान गतः। वसतो मेऽत्र केनेतो निर्गच्छामि पथा ननु' ॥१०२
सोऽप्यूचे 'श्वभ्रमेवेदं, द्वादशात्र समाः स्थितः । त्वं ततो विवरद्वारानया निर्गच्छ सत्वरम् ॥१०३ 36 ३९) एवमाकर्ण्य कुमारः समुत्थितः । तिरोहितो बन्दी । ताभिः स्त्रीभिर्नत्वा ततो विज्ञप्तः 36 कमारः। अतः परं देवः किं कर्तकामः।' कुमारेणोक्तम्। 'अहं भगवन्तं दिव्यज्ञानिनं कथमपि गत्वा
प्रक्ष्यामि यदेष किंचिजल्पति तत्सत्यं तत्कियते न वा' इति । ततस्ताभिर्भणितम् । 'यं मार्ग त्वमङ्गी39 करिष्यसि वयमपि तमेवानुसरिष्यामः ।' एवं प्रतिपद्य सद्यः कुमारः समुत्थाय तेनैव विवरद्वारेण 39 निर्गत्येह स्थितानस्मान् मत्वागत्य संदेहं पप्रच्छ, निर्गतश्च सो ऽयं चन्द्रगुप्तपुत्रो वैरिगुप्ता, प्राग्भवसंबन्धिसङ्केतितदेवकृतबन्दिप्रयोगेण प्रतिबुद्धः।' ततो गौतमगणधारिणा विज्ञप्तम् । 'भगवन् , सांप्रतं
2) B तावत् अथवा किमनेन. 4) Bom. ततः. 8) 0 कुमारः प्रोचे for प्रोचे कुमारः. 10) P प्रतिहारो for प्रति प्रहारो. 12) B°मनया विचितेति कुमारो. 21) Pom. कुमारस्य, B adds च before सह. 22) B om. तत्रैव वसत, B एक दिनमिव. 25) P कर्म निर्मलक्षमम् , 0°निर्मलन 30) P तदेतमेव पृच्छामि. 37) B किमपि for कथमपि. 38) B यं त्वं मार्गमंगी.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org