________________
* 84
रत्नप्रभसूरिविरचिता [IV. 8 39 : Verse 1041स कुत्रोपगतः' इति । भगवता निवेदितम् । 'तं कामिनीजनं पातालादाकृष्य संप्रति समवसरणतृतीय- 1
तोरणासन्न एष संप्राप्तः' यावद्भगवानिति कथयति तावदागत्य कुमारः स्त्रैणेन समं भगवन्तं प्रदक्षिणीकृत्य 3 प्रणिपत्य च सुखासनस्थः पप्रच्छ । 'भगवन् , केन हेतुना क एष दिव्यः स्तुतिवतः प्रतिबोधयति, कुत्र 3 वा स सांप्रतम्' इति । ततो भगवता पञ्चानां जनानां भवपरंपरा विस्तारिता तावद्यावन्मणिरथकुमारः कामगजेन्द्रः स च तृतीयो वैरिगुप्तः स्वर्गतश्चयुत्वा भवान् लोभदेवजीवो ऽत्र समुत्पन्नः प्रमत्तश्च । ततो 6 मायादित्यचण्डसोमाभ्यामनेकप्राभातिकमङ्गलपठनच्छद्मना प्रतिबोधितः' इति । तन्निशम्य कुमा- 6 रेणोक्तम् । 'भगवन् , संप्रति किं विलम्बं करोषि दीक्षादानेन प्रसद्यताम् ।' ततो भगवता युवतीजनेन सह वैरिगुप्तः प्रवाजितः । ततः सकलत्रैलोक्यसरोवरालङ्कारपुण्डरीकः पुण्डरीकधवलमहिमा 9 श्रीवर्धमानो हस्तिनापुरमागत्य समवसृतः। भगवतापि स्वयं सरागनीरागदेवतास्वरूपं व्याख्यातम् । 9 स्कन्दरुद्रचतुर्मुखव्यन्तरगणाधिपप्रभृतयो देवाः सरागाः समाराध्यमाना जनानां जनाधिपा इव संतुष्टा
राज्यश्रियं यच्छन्ति । रुष्टाः सन्तो ऽपहरन्ति च । पुनस्तीर्थकराः सिद्धा निर्दग्धकर्मेन्धनाः केवलिनो 12 रजोमदमोहपरिहृता एते नीरागाः स्वर्गापवर्गश्रियं ददति ।
12 ६४०)अत्रान्तरे ब्राह्मणदारकः श्यामलवक्षःस्थलविलसद्बह्मसूत्रस्त्रिःप्रदक्षिणीकृत्य भगवन्तं प्रणम्य पप्रच्छ । 'भगवन् , क एष पक्षी मनुष्यभाषया भाषते, यत्तेनोक्तं तद्युक्तमयुक्तं वा ।' भगवतादिष्टम् । 15 'भद्र, स पक्षी वने दिव्यो यत्तेनोक्तं तत्सर्वमपि युक्तमेव।' एतदद्वगम्य समवसरणतः स निष्क्रान्तः । 15
ततो ज्ञानवतापि श्रीगौतमेन पृष्टम् । 'भगवन् , क एष सुखसंभवो दारकः, किमेतेन पृष्टम् ।' एवं पृष्टो
भगवानिवेदयामास। 18 'अस्ति नातिदूरे सरलपुरं ब्राह्मणानां स्थानम् । तत्र यज्ञदेवो महेभ्यः सूत्रकण्ठः । तत्सूनुः स्वयंभु-18
देवः । स च यज्ञदेवः कालक्रमेण परलोकमियाय । तत्रास्तमिते द्विजपतो सर्वमपि वसुजालं विलिल्ये। पूर्वकर्मपरिणामेन दिनयोग्यमप्यस्य नास्त्यशनम् । तत एवं क्षीणे विभवे न भवन्ति लोकयात्राः, विसं21 वदन्त्यतिथिसत्काराः, बभूवुः शिथिला बन्धुक्रियाः, गलहस्तितानि दानानि ।
21 गुरूणां बान्धवानां च महिमाभाजनं जनः । तावदेव प्रजायेत मन्दिरे यावदिन्दिरा ॥ १०४
पुरः स्थिताः समुत्तुङ्गा अपि लक्ष्मीवतां नराः । भजन्ति न दृगातिथ्यं दारियाअनभाजिनः ॥१०५ 24 मानवानां भवेदान्ध्यं बाधिर्यं च श्रिया सह । अतो दीनं न पश्यन्ति न शृण्वन्ति च तद्वचः॥ १०६24 एतत्परिज्ञाय जनन्या स्वयंभूदेवो भणितः।
'सर्वो ऽपि शोभते लक्ष्म्या वत्स वत्सलमानस । तया विना भवानत्र जीवन्नपि मृतायते ॥ १०७ 27६४१) स पिता तव पुण्यवानस्तमितो ऽतः कुटुम्बपोषणं त्वदायत्तमेव' इति श्रुत्वा स्वयंभुदेवो 27
मातुश्चरणनमस्करणपूर्व रचिताञ्जलिः प्रोवाच । 'जननि, खेदपरं मनो न विधेयम् , अहं बहुभिरपि दिनैरनुपार्जितार्थो गृहं न विशामि' इत्युक्त्वा मन्दिरतो निःसृत्य विप्रसूनुामाकरनगरखेटाकुलां 30 विपुलां विलोकयन् सर्वैरप्युपायैरर्थमन्वेषयन् चम्पापुरीमवाप । तत्र चास्तंगते दिनपतौ स्वयंभुदेवः 30 पुर्यन्तःप्रवेशमलभमानो जीर्णोद्याने प्रविश्य कया रीत्या विभावरी निर्गमनोपायं करोमीति विचिन्तयन् तमालपादपमारुह्य व्यचिन्तयदिति 'धिग जन्मेदं येन ममैतावतां दिनानां मध्ये सर्वत्र परिभ्रमतः करे 33 वराटिकापि न चटिता। कथं गृहं प्रविशामि' इति चिन्तयन्नस्ति । ततस्तमालपादपस्याघो जनद्वयं 33
समागतम् । एकेनोक्तम् । एतत्कार्यमस्य तमालस्याधः कार्यम् ।' द्वितीयेनोक्तम् । 'भवत्वेवम् ।' ततो द्वावपि दशापि दिशो विलोक्य सुन्दरमिति स्थानं प्रोचतुः । स्वयंभुदेवस्तयोर्वचो निशम्य स्थितः। 36 ततस्ताभ्यां खनित्रेण भुवं खनित्वाभिज्ञानपूर्वकं करण्डकं निक्षिप्य प्रोक्तम् ।
'अत्र यः कोऽपि भूतो वा पिशाचो वापरोऽपि वा। अयं न्यासीकृतस्तेन पालनीयो निधिः सदा ॥१०८ इत्युदित्वा तौ यथास्थानं गतौ विलोक्यामुना चिन्तितम् । 39 'यत्र येन यदा यच्च यावल्लभ्यं यतो जनात् । तत्र तेन तदा तच्च तावदस्मादवाप्यते ॥ १०९ 39
इति ध्यात्वा स च पादपादवतीर्य करण्डकस्थानि पञ्च रत्नानि निरीक्ष्य रोमाञ्चकवचिताङ्गश्चिन्त__ यामासेति । एतानि स्वीकृत्य संप्रति स्ववेश्म प्रति व्रजामि' इति ध्यात्वा गृहीत्वा च स्वयंभुदेवः पथि 42 गच्छन्महाटवीमाप्तवान् । इतश्च दिनकरोऽप्यस्तरोचिरजनि ।
4)P नमो for ततो. 5) P भगवान् for भवान्. 6) B °सोमाभ्यां प्राभातिक. 7) P यौवनेन B यौवतेन for युवतीजनेन. 8) Pom. पुण्डरीकः 19) B has a marginal gloss on द्विजपतौ and वसुजाल in this way: अर्थातरं द्विजपतौ चंद्रेऽस्तमिते सति वसु-किरण जालं विलयं गच्छति ।. 23) B समुत्तुंगापि. 26) B'मानसः 33) Pन घटिता. 42) B इति दिनकरो.
___36
___42
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org