________________
* 80 रत्नप्रभसूरिविरचिता
[IV. $ 29 : Verse 801 पापानवरनिर्जराबन्धमोक्षस्वरूपमाचख्यौ। ततो गौतमेन पृष्टम् । 'भगवन्' कथं जीवाः कर्म बध्नन्ति ।' 1
भगवतोक्तम् । 'लेश्याभेदैर्जीवाः शुभाशुभं कर्मार्जयन्ति । अत्र जम्बूफलभक्षणदृष्टान्तः । 3 ३०) एकदा कस्माद्रामात् षट् पुरुषाः परशुविहस्तहस्ताः समुन्नततरुच्छेदाय काननान्तः 3
प्रविष्टाः। तैरेकस्मिन् शाखिनि भक्तं स्थापितम् । तत्र भक्तपादपे समारुह्य केचिद्वानरास्तत्सर्वमपि भक्तं, भक्षयित्वा तद्भाजनमपि भङ्क्त्वा प्रतिनिवृत्ताः। ते वनच्छेदका अपि मध्याह्ने बुभुक्षाक्षामकुक्षयस्तृ6षातरलितचेतसस्तत्र तद्भक्तं न पश्यन्ति, भाजनमपि भग्नमालोकयन्ति । ततस्तैरिति परिज्ञातम् । 'यत्प्ल- 6 वगयूथेन सर्वमपि भक्तमास्वादितम् , तावदस्माकं बुभुक्षितानां का गतिः' इति ध्यात्वा समुत्थाय फलान्वेषणाय प्रवृत्तास्ते एकं जम्बूपादपं फलितं दृष्ट्वा परस्परं मन्त्रयन्ति 'कथयत, कथं जम्बूफलभक्षणं 9 करिष्यामः।' ततो जम्बूफलानि दृष्ट्वा तत्र तेषां मध्यादेकेनोक्तम्। 'सर्वेषामपि पञ्चशाखाः परश्वधायुधव्यग्रा 9 वर्तन्ते, ततो मूलादप्येन छित्त्वा फलभक्षणं कुर्मः।' तन्निशम्य द्वितीयेनोक्तम् । 'अस्मिन् पादपे मूलादपि
च्छेदिते भवतां को गुणो भविष्यति, केवलमस्य शाखा एव च्छिद्यन्ते ।' तृतीयेन भणितम् । 'न शाखा 12 केवलं फलिता एक प्रतिशाखा गृह्यन्ते।' चतुर्थेनोक्तम् । 'न प्रतिशाखाः, केवलं स्तबका एव पात्यन्ते । 12
पञ्चमेनोक्तम् । 'ममैव बुद्धिरिह विधीयताम् , लकुटेनाहत्य पक्वजम्बूफलानि पातयत ।' ततः किंचिद्विहस्य षष्ठेनोक्तम् । 'भो नराः, भवतां महदज्ञानम् , महान् पापारम्भः, स्तोको लाभः, किमत्र 15 प्रारब्धम् , यदि जम्बूफलभक्षणेन कः कार्य तदैतानि पक्कानि शुकसारिकादिभिः पातितानि स्वभावतः 15
पतितानि जम्बूफलानि स्वैरं भक्षयत, नो वान्यत्र व्रजत' इति ते सर्वे ऽपि तैर्धरापतितैरेव फलैः
सौहित्यसुखिता जज्ञिरे । सर्वेषामपि फलोपभोगः सदृश एव, परं पुनस्तत्र बहुविधं पापं येनेत्युक्तम् । 18 'अयं पादपो मूलादपि च्छिद्यते स मृत्वा कृष्णलेश्ययावश्यं नरकातिथिरेव । द्वितीयेनोक्तम् । 'यच्छाखा 18
एव च्छेद्या' स नीललेश्यया विपद्य नरकं तिर्यक्त्वं वा प्राप्नोति। तृतीयेनोक्तम् । 'यत्प्रतिशाखा एव ग्राह्याः' स कापोतलेश्यया तिर्यग्योनावुत्पद्यते । चतुर्थेनोक्तम् । 'यत्केवलं स्तबका एव संगृह्यन्ते स 21 तेजोलेश्यया नरो भवति ।' पञ्चमेनोक्तम् । 'यत्पक्कानि पक्कानि फलानि पात्यन्ते स पद्मलेश्यया देवत्वं 21 लभते।' षष्ठेनोक्तम् । 'यत्केवलं भूमिपतितान्येवास्वाद्यन्ते' स शुक्ललेश्यया सिद्धिसुखभाग् । ततो गौतम
पश्य त्वं, यदेकस्मिन् भक्षणकार्य षण्णामपि लेश्याभेदः पृथग भिन्नश्च कर्मबन्धः । यश्छिन्द्धि भिन्द्धी24 त्यादिकं कर्कशं वचो जल्पति, यस्य न दया न सत्य स कृष्णलेश्यः । यः पञ्चकार्याण्यनार्याणि समाचरति 24
षष्ठं पुनर्धार्थ स नीललेश्यः। यश्चत्वारि कार्याणि पापमयानि तनोति द्वयं धर्मनिमित्तं स कापोतलेश्यः। यस्त्रीणि कार्याणि पापार्थ त्रीणि च धर्महेतवे स तेजोलेश्यः। यः कार्यद्वयं पापार्थ चत्वारि 27 धर्मकारणेस पद्मलेश्यः। य एकं कार्य पापहेतवे पञ्च धर्मार्थ च स शुक्ललेश्यः। तया जिनत्वमाप्नोति । 27 तद्भगवतो भणितं सर्वैरपि सुरासुरनरेश्वरैस्तथेति प्रतिपन्नम्।।
३१) अत्रान्तरे राजपुत्र एकः प्रलम्बभुजदण्डः सुवेषो वक्षःस्थलविलसद्वनमालः समवसरणे 30 भगवन्तं प्रणिपत्य प्रोवाच । 'भगवन् , किं तत्सत्यम् , यदिव्येन बन्दिना तत्र मम निवेदितं तन्मङ्गलम-30 मङ्गलं वा ।' भगवतोक्तम् । 'भद्र, सत्सर्वमपि तथ्यमेव ।' तदाकर्ण्य 'भगवदादेशः प्रमाणम्' इति
गदित्वा समवसरणतस्तस्मिन्निर्गते गौतमेनाभ्यधायि। 'नाथ, को ऽयं पुमान् , किमेतेन पृष्टम् ।' 33 ततो भगवतानेकलोकप्रतिबोधाय समाचचक्षे । 'समस्ति जम्बूद्वीपे भरतक्षेत्रे मध्यमखण्डे 33 ऋषभपुरं नाम नगरम् । तत्र चन्द्रमण्डलकरनिकरनिर्मलकीर्तिस्फूर्तिशाली चन्द्रगुप्तः क्षितिपतिः ।
तत्सनरननविक्रमो वैरिगप्तः । तस्यान्यदिने मेदिनीस्वामिनः सभासीनस्य समागत्य प्रणिपत्य च 36 प्रतीहारी व्यजिशपदिति । 'देव, द्वारे नगरप्रधाननरा भवञ्चरणदर्शनमभिलषन्ति ।' तदाकर्ण्य 36
राज्ञोक्तम् । 'त्वरितमेव प्रेष्यन्ताम् ।' ततस्तया सह तैनरैः प्रविश्य किमप्यपूर्व च वस्तु प्राभृतीकृत्य राजानं प्रणम्य विज्ञप्तम् । “दुर्बलानां बलं राजा" इति परिभावयतु देवः । सर्वमपि नगरं केनापि मुषितम् । 39 यत्किंचिच्चारु तदखिलमपि निशि ह्रियते।' राज्ञोक्तम् । “यूयं व्रजत स परिमोषी विलोक्यते लग्नः। 39
ततो राज्ञा पुरारक्षमाकार्य समादिष्टम् । 'अहो, मध्ये पुरं महांश्चौरोपद्रवः' इति । तेनापि विज्ञप्तम् । 'न
12) Pom. न. 14) B adds (above the line) संतु before केवलं. 16) B repeats स्वैरं (below the line). 17) Badds तस्य (above the line) after पापं. 21) B अपक्वानि for second पक्वानि, P B add वा before फलानि. 22) Badds भवति after 'भाग्. 37) Bom. च. 40) Badas देव before न दृश्यन्ते.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org