Book Title: Kuvalayamala Part 2
Author(s): Udyotansuri, A N Upadhye
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 253
________________ * 78 रत्नप्रभसूरिविरचिता [IV. 8 25 : Verse 781 जीवन्ती बिन्दुमती कथंचिदृश्यते ।' कुमारेणोक्तम् । 'यद्यप्यवश्यं गन्तव्यं तथापि देव्याः पुरो निवेद- 1 यिष्ये ।' ताभ्यामुक्तम् । 'त्वमीदृशः स्वामी सर्वनीतिपरायणः कथं स्त्रीणां रहस्यं कथयसि, किं न श्रुत3स्त्वया जनैवेक्ष्यमाणः श्लोकः। 'नीयमानः सुपर्णेन नागराजो ऽब्रवीदिदम् । यः स्त्रीणां गुह्यमाख्याति तदन्तं तस्य जीवितम् ॥ ७८ ततो न कथ्यं नारीणां रहस्यम् ।' कुमारेणोक्तम् । 'किमपि कारणमत्रास्ते, एकदा मया तस्या वरो 6 ऽदायि, यत्किचिच्छ्रुतं दृष्टमनुभूतं तत्सर्वमपि निवेदयिष्ये ।' ततः कुमारःप्रोवाच । 'प्रिये, संप्रति 6 वजामि।' तयोदितम् । 'यत्किंचिद्देवाय रोचते देवस्तत्तनोतु ।' ततो देव्या विहिताञ्जलिपुटया विद्याधर्यो विज्ञप्ते । 'अयं पतिर्मया भवत्योासीकृत इत्यहाय इहानीय मोक्तव्यः।' ततस्ते तं कुमारं विमान9 मारोप्य गगनतलमुत्पतिते । ततस्तस्य प्रिया 'माया काप्यत्र, किं स्वनो वा, हृत एताभ्यां मम पतिरेष्य- 9 तीति किं वा न' इति ध्यायन्ती यावद्विषण्णा तिष्ठति तावत्स्तोकावशेषक्षणदायां विमानं प्राप्तमेव । ततस्तदृष्ट्वा तद्भार्या नलिनीवनविलोकनेनेव मरालिकाभिनवजलददर्शनेनेव शिखण्डिनी प्रमुदिता जाता। 12 ततस्तया दृष्टे विद्याधरौ कामगजेन्द्रोऽपि। 12 २६) अथ विमानादवतीर्य वीर्यशाली शयनीये निविष्टः । प्रोचतुस्ते । 'भद्रे, स्वपतिासीकृतस्त्वयावयोर्यः स चेदानीं समानीय समर्पितो ऽस्ति' इत्युदित्वा ते समुत्पत्य गते । ततो ऽसौ पादपतन15 मातत्य पप्रच्छ । 'देव, भवान् क्व गतः, कुतो वा प्राप्तः, किं त्वया दृष्टम् , किमनुभूतम् , किमवस्था सा15 विद्याधरी प्राप्ता । एतत्प्रसद्य सद्यः कथयस्व ।' कुमारः समाख्यातुं प्रववृते । 'इतो विमानाधिरूढेन मया व्योनि वैताठ्यपर्वतकन्दरोदरे मणिप्रदीपप्रज्वलनप्रद्योतितदिक्चक्रं नवीनं भुवनमेकमदर्शि तत्र नलिनी18 दलस्रस्तरे विद्याधरकुमारी च । ततस्ते मृणाल कोमलवलयां चन्दनकर्पूररेणुधवलां कुरङ्गीदृशमिमां 18 कुमारी जीवन्तीमभिवीक्ष्य प्रमुदिते ऊचतुः। 'प्रियसखि, प्रमोदं भज, एष तव मनो ऽभिरुचितो दयितः प्राप्तः, यत्कृत्यं तदाचर' इति वदन्तीभ्यां सखीभ्यां तदङ्गतो नलिनीदलान्यपनीतानि । इति यावन 21 सम्यक्पश्यतस्तावत्तस्याङ्गोपाङ्गानि शिथिलीभूतानि । ततो दयिते, ताभ्यां तदृष्ट्वा पूत्कृतं 'यदियमावयोः 21 स्वामिनी मरिष्यति ततोऽहमपि ।' 'किमेतत्' इति ध्यायन् विलोकितुं प्रवृत्तो यावत्तावत्सा विनिमीलितलोचना निश्चलाङ्गोपाङ्गा पञ्चतामुपागता । मया भणितम् । 'भवतो न देव रचितुं युक्तमिदं गगनगामितनुजा यत् । मम विरहदुःसहानलसंतप्ता मृत्युमुपनीता ॥' ७९ ___ इति जत्पन्नहं मोहमुपागतः क्षणेन विवुद्धस्तयोः प्रलापान शृणोमि । प्रियसखि कुपिता किं त्वं प्रतिवचनं नो ददासि को हेतुः। किं कृतमप्रियमेतत् यदयं दयितः समानीतः॥ ८० म । 'यटस्यै कालयोग्यं तत्कार्यम् ।' ततस्ताभ्यामुदयाचलचूलावलम्बिनि किरण30 मालिनि चन्दनदारूण्यानीय प्रपञ्चितायां चितायां तदङ्गं निक्षिप्तम् । तद्दत्तो हुताशनः प्रसृतः । एतां 30 विनावयोर्जीवितेन किम्' इति गदित्वा चिरं विलप्य च तत्रैव ते ऽपि प्रविष्टे । एवं त्रितये ऽप्यस्थिशेषी भूते क्षणमेकमहमपि मुद्रेण प्रहत इव महाशोककुन्तेन प्रभिन्न इव व्यचिन्तयमिति । 'पश्य विधि33 विलसितम् , यदियं विन्दुमती मदनुरागेण विपन्ना तदुःखेन एते च । ततः किं ममैतेन स्त्रीवधकलङ्क- 33 कलुषितेन जीवितेन । ततो ऽमुमेव चितानलं प्रविश्य स्वस्य कलङ्कमुत्तारयामि' यावदिति प्रिये, चिन्तयन्नस्मि तावद्विद्याधरमिथुनमध्ये विद्याधर्योक्तम् । 'विलोकय यदयं कीदृशो निर्दयः कुमारः, इयं 36 वराकी मृता, अयं पुनरद्यापि जीवति ।' विद्याधरेणोक्तम् । 'मैवं वादीः, यतः स्त्रियः पत्यौ मृते चितायां 36 प्रविशन्ति पुनः सत्पुरुषेण महिलाविनाशे स्ववधो न विधेयः।' एतदाकर्ण्य मया चिन्तितम् । 'यदनेन युक्तमुक्तम् । तत एतस्यां बिन्दुमत्यनुकारिण्यां वाप्यां नीरलावण्यपूर्णायां विकसितनीलेन्दीवरलोचनायां 39 चलद्धवलमृणालवलयकलितायां विकसितशतपत्रवरवायां तरलजलतरङ्गरणद्भङ्गिकटाक्षच्छटायां 39 विकटकनकतटनितम्बफलकायामहमवती/तासां तिसृणां जलाञ्जलिं ददामि' इति चिन्तयित्वावतीर्णो दयिते, तां वापी यावन्मजनोन्मजनं कृत्वा निर्गतस्तावत्तत्र सर्वमप्यपूर्व पश्यामि । व्योमतलस्पर्शिनः 42 शाखिनः। महाप्रमाणा औषध्यः। उच्छ्रिताङ्गास्तुरङ्गाः। पञ्चचापशतमाना मानुषाः । महादेहाः पक्षिणः। 42 __4) B° ब्रवीदिति. 9) B एव ताभ्यां for एताभ्यां. 11) B नलिनवन. 15) P पादपतनमातन्य. 16) B om. सद्यः. 19) B om. कुमारी, B वीक्ष्य सप्रमुदितमूचतु:. 21) B inter. ताभ्यां & तद्दष्ट्वा. 29) B कालस्य योग्यं. 31) ते for तेऽपि. 36) Badds एतत्कृते before मृता. 24 27 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368