________________
* 78
रत्नप्रभसूरिविरचिता [IV. 8 25 : Verse 781 जीवन्ती बिन्दुमती कथंचिदृश्यते ।' कुमारेणोक्तम् । 'यद्यप्यवश्यं गन्तव्यं तथापि देव्याः पुरो निवेद- 1
यिष्ये ।' ताभ्यामुक्तम् । 'त्वमीदृशः स्वामी सर्वनीतिपरायणः कथं स्त्रीणां रहस्यं कथयसि, किं न श्रुत3स्त्वया जनैवेक्ष्यमाणः श्लोकः।
'नीयमानः सुपर्णेन नागराजो ऽब्रवीदिदम् । यः स्त्रीणां गुह्यमाख्याति तदन्तं तस्य जीवितम् ॥ ७८ ततो न कथ्यं नारीणां रहस्यम् ।' कुमारेणोक्तम् । 'किमपि कारणमत्रास्ते, एकदा मया तस्या वरो 6 ऽदायि, यत्किचिच्छ्रुतं दृष्टमनुभूतं तत्सर्वमपि निवेदयिष्ये ।' ततः कुमारःप्रोवाच । 'प्रिये, संप्रति 6 वजामि।' तयोदितम् । 'यत्किंचिद्देवाय रोचते देवस्तत्तनोतु ।' ततो देव्या विहिताञ्जलिपुटया विद्याधर्यो विज्ञप्ते । 'अयं पतिर्मया भवत्योासीकृत इत्यहाय इहानीय मोक्तव्यः।' ततस्ते तं कुमारं विमान9 मारोप्य गगनतलमुत्पतिते । ततस्तस्य प्रिया 'माया काप्यत्र, किं स्वनो वा, हृत एताभ्यां मम पतिरेष्य- 9 तीति किं वा न' इति ध्यायन्ती यावद्विषण्णा तिष्ठति तावत्स्तोकावशेषक्षणदायां विमानं प्राप्तमेव । ततस्तदृष्ट्वा तद्भार्या नलिनीवनविलोकनेनेव मरालिकाभिनवजलददर्शनेनेव शिखण्डिनी प्रमुदिता जाता। 12 ततस्तया दृष्टे विद्याधरौ कामगजेन्द्रोऽपि।
12 २६) अथ विमानादवतीर्य वीर्यशाली शयनीये निविष्टः । प्रोचतुस्ते । 'भद्रे, स्वपतिासीकृतस्त्वयावयोर्यः स चेदानीं समानीय समर्पितो ऽस्ति' इत्युदित्वा ते समुत्पत्य गते । ततो ऽसौ पादपतन15 मातत्य पप्रच्छ । 'देव, भवान् क्व गतः, कुतो वा प्राप्तः, किं त्वया दृष्टम् , किमनुभूतम् , किमवस्था सा15 विद्याधरी प्राप्ता । एतत्प्रसद्य सद्यः कथयस्व ।' कुमारः समाख्यातुं प्रववृते । 'इतो विमानाधिरूढेन मया
व्योनि वैताठ्यपर्वतकन्दरोदरे मणिप्रदीपप्रज्वलनप्रद्योतितदिक्चक्रं नवीनं भुवनमेकमदर्शि तत्र नलिनी18 दलस्रस्तरे विद्याधरकुमारी च । ततस्ते मृणाल कोमलवलयां चन्दनकर्पूररेणुधवलां कुरङ्गीदृशमिमां 18 कुमारी जीवन्तीमभिवीक्ष्य प्रमुदिते ऊचतुः। 'प्रियसखि, प्रमोदं भज, एष तव मनो ऽभिरुचितो दयितः प्राप्तः, यत्कृत्यं तदाचर' इति वदन्तीभ्यां सखीभ्यां तदङ्गतो नलिनीदलान्यपनीतानि । इति यावन 21 सम्यक्पश्यतस्तावत्तस्याङ्गोपाङ्गानि शिथिलीभूतानि । ततो दयिते, ताभ्यां तदृष्ट्वा पूत्कृतं 'यदियमावयोः 21 स्वामिनी मरिष्यति ततोऽहमपि ।' 'किमेतत्' इति ध्यायन् विलोकितुं प्रवृत्तो यावत्तावत्सा विनिमीलितलोचना निश्चलाङ्गोपाङ्गा पञ्चतामुपागता । मया भणितम् ।
'भवतो न देव रचितुं युक्तमिदं गगनगामितनुजा यत् ।
मम विरहदुःसहानलसंतप्ता मृत्युमुपनीता ॥' ७९ ___ इति जत्पन्नहं मोहमुपागतः क्षणेन विवुद्धस्तयोः प्रलापान शृणोमि ।
प्रियसखि कुपिता किं त्वं प्रतिवचनं नो ददासि को हेतुः। किं कृतमप्रियमेतत् यदयं दयितः समानीतः॥ ८०
म । 'यटस्यै कालयोग्यं तत्कार्यम् ।' ततस्ताभ्यामुदयाचलचूलावलम्बिनि किरण30 मालिनि चन्दनदारूण्यानीय प्रपञ्चितायां चितायां तदङ्गं निक्षिप्तम् । तद्दत्तो हुताशनः प्रसृतः । एतां 30 विनावयोर्जीवितेन किम्' इति गदित्वा चिरं विलप्य च तत्रैव ते ऽपि प्रविष्टे । एवं त्रितये ऽप्यस्थिशेषी
भूते क्षणमेकमहमपि मुद्रेण प्रहत इव महाशोककुन्तेन प्रभिन्न इव व्यचिन्तयमिति । 'पश्य विधि33 विलसितम् , यदियं विन्दुमती मदनुरागेण विपन्ना तदुःखेन एते च । ततः किं ममैतेन स्त्रीवधकलङ्क- 33 कलुषितेन जीवितेन । ततो ऽमुमेव चितानलं प्रविश्य स्वस्य कलङ्कमुत्तारयामि' यावदिति प्रिये, चिन्तयन्नस्मि तावद्विद्याधरमिथुनमध्ये विद्याधर्योक्तम् । 'विलोकय यदयं कीदृशो निर्दयः कुमारः, इयं 36 वराकी मृता, अयं पुनरद्यापि जीवति ।' विद्याधरेणोक्तम् । 'मैवं वादीः, यतः स्त्रियः पत्यौ मृते चितायां 36 प्रविशन्ति पुनः सत्पुरुषेण महिलाविनाशे स्ववधो न विधेयः।' एतदाकर्ण्य मया चिन्तितम् । 'यदनेन
युक्तमुक्तम् । तत एतस्यां बिन्दुमत्यनुकारिण्यां वाप्यां नीरलावण्यपूर्णायां विकसितनीलेन्दीवरलोचनायां 39 चलद्धवलमृणालवलयकलितायां विकसितशतपत्रवरवायां तरलजलतरङ्गरणद्भङ्गिकटाक्षच्छटायां 39 विकटकनकतटनितम्बफलकायामहमवती/तासां तिसृणां जलाञ्जलिं ददामि' इति चिन्तयित्वावतीर्णो
दयिते, तां वापी यावन्मजनोन्मजनं कृत्वा निर्गतस्तावत्तत्र सर्वमप्यपूर्व पश्यामि । व्योमतलस्पर्शिनः 42 शाखिनः। महाप्रमाणा औषध्यः। उच्छ्रिताङ्गास्तुरङ्गाः। पञ्चचापशतमाना मानुषाः । महादेहाः पक्षिणः। 42 __4) B° ब्रवीदिति. 9) B एव ताभ्यां for एताभ्यां. 11) B नलिनवन. 15) P पादपतनमातन्य. 16) B om. सद्यः. 19) B om. कुमारी, B वीक्ष्य सप्रमुदितमूचतु:. 21) B inter. ताभ्यां & तद्दष्ट्वा. 29) B कालस्य योग्यं. 31) ते for तेऽपि. 36) Badds एतत्कृते before मृता.
24
27
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org