Book Title: Kuvalayamala Part 2
Author(s): Udyotansuri, A N Upadhye
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
* 74
[ IV. § 17 : Verse 681 पुर्यां प्रणतजनकुमुदामन्दप्रमोद कौमुदीशस्य शत्रुजनकुञ्जरकण्ठीरवस्य सत्पथजाङ्घिकस्य काञ्चनरथस्य 1 पृथ्वीपतेरिन्दीवरलोचनाभिधानप्रणयिनीकुक्षिभवो मणिरथकुमारस्तनयः समभवत् । स च क्रमेण प्राप्तयौवनो गुरुजनैः प्रतिषिद्धो ऽपि वयस्यैर्निवारितो ऽपि सद्भिर्निन्द्यमानो ऽपि कर्मोदयेन नक्तंदिवा 3 पापार्द्धं कुर्वन्न विरमति । अन्यदा च तस्यारण्ये प्रविष्टस्य श्रीवर्धमान जिनः केवलज्ञानशाली जगत्रयपतिः पवित्रितत्रिभुवनतलः काकन्द्यां समवसृतः । ततश्चतुर्विधदेवनिकायैः समवसरणं चक्रे । तत्र च श्रीमहा'वीरः स्वयं गौतमादीनां गणभृतां सौधर्माधिपतेरपरस्य च सुरासुरनिकरस्य सपरिजनस्य काञ्चनरथस्य 6 नरेशितुः पुरः सम्यक्त्वमूलं धर्म द्विविधं निवेदितुमारेभे ।
रत्नप्रभसूरिविरचिता
शङ्कादिदोषरहितं स्थैर्यादिगुणभूषितम् । पञ्चभिर्लक्षणैर्लक्ष्यं सम्यक्त्वं शिवशर्मणे ॥ ६८
आर्जवं मार्दवं क्षान्तिः सत्यं शौचं तपो यमः । ब्रह्माकिञ्चनता मुक्तिर्यतिधर्मः प्रकीर्तितः ॥ ६९ 9 अहिंसादीनि पञ्चाणुव्रतानि च गुणत्रयम् । शिक्षापदानि चत्वारि गृहिधर्मः कुकर्महृत् ॥ ७० (१८) इतश्चावसरं मत्वा तत्त्वानुगामिना प्रभूतजन्तुवधजातपातकाशङ्किना कृताञ्जलिना काञ्चनरथेन 12 राज्ञा पृष्टम् । 'नाथ, मणिरथकुमारो भव्यः किमभव्यश्च' इति । भगवतादिष्टम् । 'अयं भव्यश्चरमशरीरश्च' 12 इति । नृपेण विज्ञप्तम् । 'भगवन्, यद्ययमन्तिमतनुस्ततः कथमनेकधा निषिध्यमानो ऽव्याखेटकव्यसन्तो निवर्तते, कदा पुनस्तस्य जिनधर्मे बोधिः ।' तीर्थकृतोक्तम् । 'भद्र, त्वत्सूनुः प्रवुद्धः प्राप्तसंवेगरङ्ग इहैव 15 प्रस्थितः' इति । नृपेणोक्तम् । 'नाथ, केन वृत्तान्तेन तस्य वैराग्यमजायत ।' जगन्नाथेन समादिष्टम् । 15 'इतोऽस्ति योजनप्रमाणे भूमिभागे कौशाम्त्रं नाम वनम् । तत्र च बहवः कुरङ्गशूकरशशक संघाताः परिवसन्तीति मत्वा कुमारः पापर्द्धिनिमित्तमागतः । तत्र च तेन भ्रमता एकस्मिन् प्रदेशे सारङ्गयूथमा18 लोक्य कोदण्डमारोप्य यावच्छरः सज्जीकृतस्तावत्सर्वमपि मृगकुलं काकनाशं ननाश | परं तदैकाकिनी 18 मृगी कुमारं चिरमभिवीक्ष्य दीर्घ निःश्वस्य निष्पन्दलोचना संजातहृदयविश्रम्भा निःशङ्का स्थिता । तां च तथावस्थितां दृष्ट्वा कुमारेण चिन्तितम् । 'अहो, महत्कौतुकम् एतस्मिन् हरिणयूथे प्रनष्टेऽपि 21 परमियं मृगी मदभिमुखं पश्यन्ती तथैव तिष्ठति' इति चिन्तयतस्तस्याभ्यासं सा समुपेयुषी । ततः 21 सानेकश्वापदजीवान्तकरमर्धचन्द्रमालोक्यापि स्नेहनिर्भरहृदयेव स्थिता । ततः कुमारेण शरासनं शरश्चाभाञ्जि । 'यो ऽपराधरहितान् जन्तून्निहन्ति स महापापी' इत्येवं चिन्तयता प्रादुर्भूतजन्तुजात24 कारुण्य मैत्री पूरितचेतसा तेन सा हरिणी सहर्ष करतन पस्पृशे ।
यथा यथा तदङ्गं स सरङ्गं स्पृशति स्फुटम् । तथा तथासौ जायेत बाष्पाविलविलोचना ॥ ७१ Marati विलोकनेन कुमारस्य दृग्भ्यां विकसितं सर्वाङ्गं रोमाञ्चकञ्चुकः प्रससार । चेतसि परमः प्रमोदः 27 प्रवृत्तः । ज्ञातं यथा काप्येषा मम पूर्वसंबन्धिनीति ।
9
ज्ञानं मन्ये दृशोरेव नापरस्य च कस्यचित् । प्रमोदेते प्रिये दृष्टे दृष्टे संकुचतो ऽप्रिये ॥ ७२ 'जन्मान्तरे का ममैवासीत्' इति ध्यायतस्तस्य हृदि स्थितम् । अद्यैव तातः काकन्दीं चम्पापुर्या 30 आयातः । अत्र च किल भगवान् श्रीमहावीरः समवसृतः । 'तस्य वन्दनानिमित्तं तत्राहमपि गमिष्यामि, 30 येनैतद्वृत्तान्तं पृच्छामि, कैषा मृगवधूः, अस्माकं जन्मान्तरे कीदृशि संबन्धे आसीत्' इति ध्यायंश्चलितः । 'समृगी च सांप्रतं समवसरण बाह्यप्राकार गोपुरान्तरे द्वावपि वर्तेते' इति वदतस्तीर्थकृतः पुरो 33 मणिरथकुमारः समागतश्च प्रदक्षिणात्रयं दत्त्वा भगवन्तं नत्वा प्रपच्छेति च । 'भगवान्, निवेदय कैषा 33 कुरङ्गी ममोपरि परमप्रेमधारिणी ।' ततो भगवान् ज्ञातकुलतिलकः सकलजन्तुसंघातबोधाय पूर्वभवं तं तयोराख्यातुमारेभे ।
11 ) B तत्त्वतत्त्वानुगामिना 14 ) P सबुद्ध: for प्रबुद्धः the margin). 23 ) P B शरश्वाभाजि 31 ) Pom, अस्माकं
Jain Education International
24
36 ९१९) अत्रैव भरते साकेत पुरम् । तत्र नाम्ना कान्त्या च मदनो नृपः । तत्सूनुरनङ्गः कुमारः । तत्राढ्यो 36 वैश्रमण इव वैभ्रमणः श्रेष्ठी । तदङ्गजः प्रियंकराख्यः, स च सौम्यः सुजनः कुशलस्त्यागी दयालुः श्रद्धातुः । अन्यदा वैश्रमणेन प्रातिवेश्मिकप्रिय मित्रपुत्र्या सुन्दर्या सह तनयस्य पाणिग्रहणमकार्यत । 39 द्वयोरपि प्रीतिर्महती जाता । परस्परं स्तोके ऽपि विरहे तन्मिथुनं सोत्सुकचित्तं भवति । अन्यदा च 39 भवितव्यतया पतरशरीरे प्रियंकरे सा सुन्दरी बहुतरशोकशङ्खव्यथिता न भुनक्ति न स्नाति न जल्पति न गृहकृत्यं करोति, केवलं संभावितदयितपञ्चताधिकाभ्यन्तर तापलोचनप्रवर्तमानबाष्पजललवा विषीदन्ती 42 स्थिता । ततस्तथाविधकर्मसंयोगेन क्षीणे प्राणिते प्रियंकरः परलोकमियाय । ततस्तं मृतं विलोक्य 12
27
For Private & Personal Use Only
21 ) P तिष्ठत इति. 22 ) B स्नेहभरनिर्भर ( भर added on 37 ) B inter. वैश्रमणः & श्रेष्ठी.
www.jainelibrary.org
Page Navigation
1 ... 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368