Book Title: Kuvalayamala Part 2
Author(s): Udyotansuri, A N Upadhye
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 224
________________ 15 -III. $ 34 : Verse 316] कुवलयमालाकथा ३ 1स स्वर्गे पद्मचन्द्रस्ततश्चयुत्वा विन्ध्याटव्यां कण्ठीरवः । पुनर्मानभटो ऽपि विपद्य पद्मसारः स्वर्गी, ततो 1 ऽयोध्यापुर्यां भूपतेढवर्मणः सूनुः कुवलयचन्द्र इति । तथा मायादित्यच्युत्वा त्रिदिवे पद्मवराभिस्यो 3ऽनिमेषो भूत्वा दक्षिणस्यां दिशि विजयाभिधायां पुर्या भूधनश्रीमहा(विजय)सेनस्य दुहिता कुवलयमाला। 3 एतत्परिज्ञाय मया चिन्तितम् । 'तदा तपस्विभवे मम संमुखमेतैर्भणितमासीत् यथा 'यत्र तत्रोत्पन्नानामस्माकं भवता सम्यक्त्वं दातव्यम्' इति सा यावन्मम प्रार्थना स्मृतिपथमागता तावदेष पझकेसर6 स्त्रिदशः समागत्य मां प्रति स्तुतिमाततान। 'समुत्पन्नावधिज्ञान शातजन्तुभवान्तर । जय त्वं श्रमणाधीश धर्माचार्यस्त्वमेव मे ॥' ३१३ ६३३) तदाकर्ण्य तं निरीक्ष्य च मया जल्पितम् । 'भद्र, कथय किं क्रियताम् ।' ततो जल्पितं नाकिना । 'भगवन् , पूर्व मया प्रतिपन्नमिति, यथा सम्यक्त्वदानेन पद्मसारपद्मवरपद्मचन्द्रजीवा अनु- 9 ग्राह्याः। एते शुद्धौ मिथ्याष्टिकुललब्धजन्मानौ, एकः सिंहश्च । तदेते ऽतिदुर्लभे श्रीजिनेन्द्रनिगमे प्रतिबोधनीयाः । ततः समागच्छ यथा गच्छावस्तस्यामयोध्यापुर्यां कुमारं कुवलयचन्द्रं प्रतिबोधयावः।' 12 मयादिष्टम् । 'न त्वयोपायः सुन्दरः समुपदिष्टः।। 12 यतः सुखनिमग्नानां रतिधर्मे न जायते । नीरुजामौषधे न स्यादादरस्य लषो ऽपि हि ॥ ३१४ तत्तस्य कुमारस्य राज्यदिग्धावितस्य पितृमातृभ्रातृभगिनीस्वजनवयस्यादिभ्यो ऽनतिदूरीकृतस्य च । 15 कुतो बोधावसरः । यदुक्तम् । "जननीजनकभ्रातृवियोगेनातिदुःखिताः । यावन्न देहिनस्तावद्धर्मकर्म न तन्वते ॥” ३१५ कुमारानयनाय त्वं भद्र गच्छाधुना त्वहम् । चण्डसोमो हरियंत्र तत्र गच्छामि कानने ॥ ३१६ 18 ६३४ ) तत्रैकान्ते कुमारः पितृबान्धववियोगकलितः सुखं सम्यक्त्वं ग्रहीष्यते' तदुक्त्वाहमिहा-18 गतः। पद्मकेसरः संप्राप्तो ऽयोध्यायाम् । तत्र च तत्क्षणनिर्गतस्त्वमश्वारूढो वाहकेलिगतो दृष्टः पद्मकेसरेण । स तुरङ्गं प्रविष्टः । त्वां गृहीत्वा तुरग उत्पतितः । त्वया च तुरगः प्रहतः । पद्मकेसरेण च 2I मायया मृतो दर्शितो न पुन तश्च, केवलं तवाशाभङ्गः कृतः। ततः कुमार, सम्यक्त्वलाभार्थमनेना-21 श्वेनाक्षिप्य त्वमानायितः । एतानि तानि रत्नरूपाणि विलोकयेति । ततः कुवलयचन्द्रः स्वं प्राच्यरूपं तथा कुवलयमालायाश्चापरेषामपि पूर्वजन्मस्मृतिनिमित्तानि तान्यपश्यत्। उत्पन्नं च तहशेनेन कुमा 24रस्य सिंहस्य च जातिस्मरणम् । मुनिना समादिष्टम् । 'कुमार, ततस्त्वं विचारय । 'असारः संसारः,24 तीक्ष्णा नरकव्यथा, दुर्लभः श्रीजिनप्रणीतो धर्मः, दुष्प्रतिपाल्यः संयमभारः, बन्धनसदृशः सदननिवासः, निबिडनिगडप्राया दाराः, महाभयमज्ञानम्, न सुलभा धर्माचार्याः, महाभाग्यलभ्यं मनुष्य. अजन्म' इत्येवं च विज्ञाय 'सम्यक्त्वं गृहाण, द्वादशव्रतान्यङ्गीकुरु, परिहर पापस्थानानि ।' इदमात्मनाक्ष पूर्वजन्मवृत्तमथाश्वापद्वति च निशम्य भक्तिभरप्रणतोत्तमाङ्गः कवलयचन्द्रो वक्तं प्रवत्तः। 'अहो. अन गृहीतो भगवता सम्यक्त्वदानप्रसादेनेति तावन्मम ददस्व जिनराजदीक्षानुग्रहम् ।' मुनिना प्रोक्तम् । 30 'त्वमुत्सुकमना मा भव, तवाद्यापि भोगफलं कर्म समस्ति, अतः प्रव्रज्या न ग्राह्या । सांप्रतं पुनर्द्वादशविधं 30 श्रावकधर्म प्रतिपालय ।' एतदाकर्ण्य कुमारेणोक्तम् । 'भगवन् श्रूयताम्, अतः परं श्रीजिनान् साधूंश्च नान्यं नमामि, श्राद्धधर्म च पालयिष्ये।' भगवता भणितं भवतु' इति । ततो मुनिना पुनरप्युक्तम्। 33 'भो मृगराज, त्वया पूर्वजन्मवृत्तं श्रुतम् । वयमपि तद्वचः संस्मर्य समागताः। तावदङ्गीकुरु सम्यक्त्वम् । 33 गृहाण देशविरतिम् । मुश्च निस्त्रिंशत्वम् । परिहर प्राणिवधम् । त्यज सर्वथा क्रोधम् । अनेन दुरात्मना क्रोधेनावस्थामिमामुपनीतोऽसि।' इदं वचो निशम्य मृगाधिपःसर्वाङ्गरोमाञ्चितश्चलद्दीर्घलाङ्गलः समुत्थाय 36 मुनिं प्रणम्य प्रत्याख्यानं ययाचे । भगवता ज्ञानेनादिष्टम् । 'कुमार, एष केसरीदं जल्पति, यथा ममानशनं 36 देहि, यदस्माकमपुण्यवतां नास्ति प्रासुकाहारः। सदैव वयं मांसाशिनः, अतो मम न श्रेष्ठं जीवितम् ।' ततो मुनिना तस्य प्रपन्न प्रतिबोधस्य निरागारमशनमदायि। स च तदङ्गीकृत्य त्रसस्थावरजन्तुजातविरहिते 39 स्थण्डिले संसारासारतां चिन्तयन् पञ्चनमस्कारपरायणः परित्यजन् स्वजातिदुःशीलत्वमुपाविशत् ।' 39 2) B मायादित्यो इति च्युत्वा, B°भिख्योनिमिषो. 3) P B दिशि जयाभिधायां, PR श्रीमहासेनस्य. 11) B 'मयोध्यायां पुर्या. 14) B राज्योदयश्रिया लालितस्य (this is a correction on the original reading something like the one adopted in the text), B'भ्यो दूरीकृतस्य. 17) B तत्रागच्छामि. 18) B तदुक्त्वाहमिहागतः पद्मकेसरः स्त्वामानेतुं गतः तत्र. 19) P om. संप्राप्तोऽयोध्यायाम् , shown by blank space; PB वाहकेलिगतो दर्शितो न पुनर्मृतश्च केवलं तवाशयाशाभंगः. 26) B निवड B for निबिड. 27) B इदमात्मनः. 36) B यथा मम मांसाहार एव ततोसाकमपुण्यवतां. .7 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368