________________
15
-III. $ 34 : Verse 316] कुवलयमालाकथा ३ 1स स्वर्गे पद्मचन्द्रस्ततश्चयुत्वा विन्ध्याटव्यां कण्ठीरवः । पुनर्मानभटो ऽपि विपद्य पद्मसारः स्वर्गी, ततो 1
ऽयोध्यापुर्यां भूपतेढवर्मणः सूनुः कुवलयचन्द्र इति । तथा मायादित्यच्युत्वा त्रिदिवे पद्मवराभिस्यो 3ऽनिमेषो भूत्वा दक्षिणस्यां दिशि विजयाभिधायां पुर्या भूधनश्रीमहा(विजय)सेनस्य दुहिता कुवलयमाला। 3 एतत्परिज्ञाय मया चिन्तितम् । 'तदा तपस्विभवे मम संमुखमेतैर्भणितमासीत् यथा 'यत्र तत्रोत्पन्नानामस्माकं भवता सम्यक्त्वं दातव्यम्' इति सा यावन्मम प्रार्थना स्मृतिपथमागता तावदेष पझकेसर6 स्त्रिदशः समागत्य मां प्रति स्तुतिमाततान।
'समुत्पन्नावधिज्ञान शातजन्तुभवान्तर । जय त्वं श्रमणाधीश धर्माचार्यस्त्वमेव मे ॥' ३१३
६३३) तदाकर्ण्य तं निरीक्ष्य च मया जल्पितम् । 'भद्र, कथय किं क्रियताम् ।' ततो जल्पितं नाकिना । 'भगवन् , पूर्व मया प्रतिपन्नमिति, यथा सम्यक्त्वदानेन पद्मसारपद्मवरपद्मचन्द्रजीवा अनु- 9 ग्राह्याः। एते शुद्धौ मिथ्याष्टिकुललब्धजन्मानौ, एकः सिंहश्च । तदेते ऽतिदुर्लभे श्रीजिनेन्द्रनिगमे
प्रतिबोधनीयाः । ततः समागच्छ यथा गच्छावस्तस्यामयोध्यापुर्यां कुमारं कुवलयचन्द्रं प्रतिबोधयावः।' 12 मयादिष्टम् । 'न त्वयोपायः सुन्दरः समुपदिष्टः।।
12 यतः सुखनिमग्नानां रतिधर्मे न जायते । नीरुजामौषधे न स्यादादरस्य लषो ऽपि हि ॥ ३१४ तत्तस्य कुमारस्य राज्यदिग्धावितस्य पितृमातृभ्रातृभगिनीस्वजनवयस्यादिभ्यो ऽनतिदूरीकृतस्य च । 15 कुतो बोधावसरः । यदुक्तम् ।
"जननीजनकभ्रातृवियोगेनातिदुःखिताः । यावन्न देहिनस्तावद्धर्मकर्म न तन्वते ॥” ३१५
कुमारानयनाय त्वं भद्र गच्छाधुना त्वहम् । चण्डसोमो हरियंत्र तत्र गच्छामि कानने ॥ ३१६ 18 ६३४ ) तत्रैकान्ते कुमारः पितृबान्धववियोगकलितः सुखं सम्यक्त्वं ग्रहीष्यते' तदुक्त्वाहमिहा-18
गतः। पद्मकेसरः संप्राप्तो ऽयोध्यायाम् । तत्र च तत्क्षणनिर्गतस्त्वमश्वारूढो वाहकेलिगतो दृष्टः पद्मकेसरेण । स तुरङ्गं प्रविष्टः । त्वां गृहीत्वा तुरग उत्पतितः । त्वया च तुरगः प्रहतः । पद्मकेसरेण च 2I मायया मृतो दर्शितो न पुन तश्च, केवलं तवाशाभङ्गः कृतः। ततः कुमार, सम्यक्त्वलाभार्थमनेना-21 श्वेनाक्षिप्य त्वमानायितः । एतानि तानि रत्नरूपाणि विलोकयेति । ततः कुवलयचन्द्रः स्वं प्राच्यरूपं तथा कुवलयमालायाश्चापरेषामपि पूर्वजन्मस्मृतिनिमित्तानि तान्यपश्यत्। उत्पन्नं च तहशेनेन कुमा 24रस्य सिंहस्य च जातिस्मरणम् । मुनिना समादिष्टम् । 'कुमार, ततस्त्वं विचारय । 'असारः संसारः,24
तीक्ष्णा नरकव्यथा, दुर्लभः श्रीजिनप्रणीतो धर्मः, दुष्प्रतिपाल्यः संयमभारः, बन्धनसदृशः सदननिवासः, निबिडनिगडप्राया दाराः, महाभयमज्ञानम्, न सुलभा धर्माचार्याः, महाभाग्यलभ्यं मनुष्य. अजन्म' इत्येवं च विज्ञाय 'सम्यक्त्वं गृहाण, द्वादशव्रतान्यङ्गीकुरु, परिहर पापस्थानानि ।' इदमात्मनाक्ष पूर्वजन्मवृत्तमथाश्वापद्वति च निशम्य भक्तिभरप्रणतोत्तमाङ्गः कवलयचन्द्रो वक्तं प्रवत्तः। 'अहो. अन
गृहीतो भगवता सम्यक्त्वदानप्रसादेनेति तावन्मम ददस्व जिनराजदीक्षानुग्रहम् ।' मुनिना प्रोक्तम् । 30 'त्वमुत्सुकमना मा भव, तवाद्यापि भोगफलं कर्म समस्ति, अतः प्रव्रज्या न ग्राह्या । सांप्रतं पुनर्द्वादशविधं 30 श्रावकधर्म प्रतिपालय ।' एतदाकर्ण्य कुमारेणोक्तम् । 'भगवन् श्रूयताम्, अतः परं श्रीजिनान् साधूंश्च
नान्यं नमामि, श्राद्धधर्म च पालयिष्ये।' भगवता भणितं भवतु' इति । ततो मुनिना पुनरप्युक्तम्। 33 'भो मृगराज, त्वया पूर्वजन्मवृत्तं श्रुतम् । वयमपि तद्वचः संस्मर्य समागताः। तावदङ्गीकुरु सम्यक्त्वम् । 33 गृहाण देशविरतिम् । मुश्च निस्त्रिंशत्वम् । परिहर प्राणिवधम् । त्यज सर्वथा क्रोधम् । अनेन दुरात्मना क्रोधेनावस्थामिमामुपनीतोऽसि।' इदं वचो निशम्य मृगाधिपःसर्वाङ्गरोमाञ्चितश्चलद्दीर्घलाङ्गलः समुत्थाय 36 मुनिं प्रणम्य प्रत्याख्यानं ययाचे । भगवता ज्ञानेनादिष्टम् । 'कुमार, एष केसरीदं जल्पति, यथा ममानशनं 36
देहि, यदस्माकमपुण्यवतां नास्ति प्रासुकाहारः। सदैव वयं मांसाशिनः, अतो मम न श्रेष्ठं जीवितम् ।' ततो मुनिना तस्य प्रपन्न प्रतिबोधस्य निरागारमशनमदायि। स च तदङ्गीकृत्य त्रसस्थावरजन्तुजातविरहिते 39 स्थण्डिले संसारासारतां चिन्तयन् पञ्चनमस्कारपरायणः परित्यजन् स्वजातिदुःशीलत्वमुपाविशत् ।' 39
2) B मायादित्यो इति च्युत्वा, B°भिख्योनिमिषो. 3) P B दिशि जयाभिधायां, PR श्रीमहासेनस्य. 11) B 'मयोध्यायां पुर्या. 14) B राज्योदयश्रिया लालितस्य (this is a correction on the original reading something like the one adopted in the text), B'भ्यो दूरीकृतस्य. 17) B तत्रागच्छामि. 18) B तदुक्त्वाहमिहागतः पद्मकेसरः स्त्वामानेतुं गतः तत्र. 19) P om. संप्राप्तोऽयोध्यायाम् , shown by blank space; PB वाहकेलिगतो दर्शितो न पुनर्मृतश्च केवलं तवाशयाशाभंगः. 26) B निवड B for निबिड. 27) B इदमात्मनः. 36) B यथा मम मांसाहार एव ततोसाकमपुण्यवतां.
.7
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org